________________ पाणग 828 - अभिधानराजेन्द्रः - भाग 5 पाणग भरणं सत्तविकप्पं, इक्विक्कीए उ रसिणीए ||641|| आधाकर्मिक 1, स्वगृहयतिमिश्र 2, स्वगृहपाखण्डिमिश्रं 3, यावदर्थिकमिश्र 4, क्रीतकृतं 5, पूतिकर्भिकम् 6, आत्मार्थकृतं चेति 7 सप्तविकल्पं सप्तप्रकारं भरणमेकैकस्यां रसिन्यां सौवीरिण्यां भवति। अथ किं सप्तैव रसिन्यो भवन्ति नाधिका इत्युच्यतेसत्त त्ति नवरि नेम्म, उपगमदोसा हवंति मयो वि। संजोगा कायव्वा, सत्तहिँ भरणेहँ रसिणेणं / / 642|| सप्तेति पदुक्तं तन्नवर केवल नेम चिह्नमुपलक्षणं द्रष्टव्य, तेनोद्गमदोषा आदेशिकाऽऽदयोऽन्येऽपि यथासंभवमत्र मन्तव्याः। याः प्रक्षिप्तैरभ्यधिका अप्यविलन्यो भवन्ति, अत्र च संयोगा भङ्गकाः कर्तव्याः, सप्तभिर्भरणैः सप्तानामेव रसिनीनामा-आधाकर्मिका सौवीरिणी भरणमपि तस्यामाधाकर्मिका सौवीरिणीभरणं स्वगृहपतिमिश्र, एवं सौवीरिणी तस्यैव भरणं पाखण्डिमिश्रम, यावदर्थिकमिश्रम्, क्रीतकृतं. पूतिकर्मिकम्, आत्मार्थकृतम्। एवं स्वगृहपतिमिश्राऽऽदिष्वपि सौवीरिणीषु प्रत्येक सप्त 2 भरणानि योजनीयानि। ततश्च कियन्तो भङ्गका उत्तिष्ठन्ते इत्याहजावइया रसिणीओ, तावइया चेव होंति भरणा वि। अउणो वण्णं भेया, सयग्गसो यावि णेयव्वा / / 643|| यावन्या यावत्संख्याका रसिन्यस्तावन्त्येव तावत्संख्याकान्येव भवन्ति भरणानि / ततश्च यदा सप्ताम्लिन्यः, सप्त च भरणानि गृह्यन्ते तदा एकोनपञ्चाशद्भेदा भङ्ग का भवन्ति / अथान्यानप्युद्गमदोषान प्रक्षिप्य बहुतराः सौवीरिण्यो बहुतराणि च भरणानि विवक्ष्यन्ते ततः शतागशः शतसंख्यापरिच्छिन्ना अपि भेदाः मन्तव्याः। अथाऽऽधाकर्मिकभरणं भावयति मूलभरणं च भावयतिमूलभरणं तु वीया, तहिं छम्मासान कप्पए जाव / तिन्नि दिणा कड्डियए, चाउलउदए तहाऽऽयामे 1954|| मूलभरणं नाम प्राशुकायामम्लिन्या राजिकाऽऽदीनि बीजानि संयतार्थ यत्प्रक्षिप्यन्ते तच्चाधाकर्मिकमतस्तत्र यदन्यत् प्राशुकमपि क्षिपन्ति तत् षण्मासान यावन्न कल्पते, परतस्तुकल्पते। अथ तस्या रसिन्याःसकाशात्तदाधाकर्मिकमाकार्षित ततस्तस्मिन्नाकर्षिते (चाउलोदग) तन्दुलधावनं तथा आयाममवस्रायणं यत्तत्र क्षिप्यते तत् त्रीन दिनान न कल्पते. पूतिकर्मत्वात्, तत ऊर्द्ध कल्पते। अथ स्वगृहमिश्राऽऽदिभरणान्यतिदिशन्नाहएमेव सघरपासंइमीस जाव किइ पूइ अत्तकडे। कयकीयकडे ठविए, तहेव वत्थाइणं गहणं / / 645|| एवमेवाऽऽधाकर्मिकचरणवत् स्वगृहमिश्रं पाखण्डमिश्रं जावदर्थिकमिश्र क्रीतकृतं पूतिकर्म आत्मार्थकृतं च भरणं मन्तव्यम् / वस्त्राऽऽदिविषयमप्यतिदेशमाह-"कय इत्यादि'' पश्चार्द्धम् / कृते संयतार्थ निष्पादिते क्रीतकृते मूल्येन गृहीते स्थापिते साध्वर्थ निक्षिप्ते तथैव पानकवत् वस्त्राऽऽदीनां ग्रहणं भावनीयम् / एतच्च पश्चादूर्द्धमुत्तरत्र भावयिष्यते। अथानन्तरोक्तभङ्ग केषु प्रायश्चित्तमाहजेण असुद्धा रसिणी, भरणं उभयं च तत्थ जाऽऽरूवणा। सुद्धभय लहुसमित्ते, कम्ममजीवे वि मुणिभरणे / / 146|| पूर्वोक्तभङ्गेषु यत्र येनाऽऽधाकर्माऽऽदिना दोषणाशुद्धा रसिनी भरणं च उभयंवा सौवीरिणीभरणयुगं यत्र येन दोषण दूषितं तत्र तद्दोषनिष्पन्ना या काचित प्रत्येक संयोगतो वा आरोपणा सा वक्ष्यमाणनीत्या वक्तव्या। तथा यत्र रसिनी भरणं च उभयमपि शुद्ध,परं संयतार्थ पानकमुत्सितं तत्र लघुमासः। (कम्ममजीवे वि मुणिभरणे त्ति) यदजीवमपि प्राशुकमपि मुनीनां हेतोर्भरणं क्रियते तदप्याधाकर्म मन्तव्यं परं विशोधिकोटिः / अथाऽऽधाकर्माऽऽदिभेदेष्वारोपणामाहतिन्नेव य चतुगुरुगा, दो लहुगा दो गुरुग अंतिमो सुद्धो। एमेव य भरणे वी, एक्कीए उ रसिणीए।।६४७|| आधाकर्मणि स्वगृहमिश्रे पाखण्डमिश्रेच प्रत्येकं चतुर्गुरुकमिति त्रयः चतुर्गुरवो भवन्ति, द्वयोर्यावदर्थिक्क्रीतकृतयोचतुर्लघवः, भक्तपानपूतिके गुरुमासः, उपकरणपूतिके गुरुमासः, उपकरणपूतिके लघुमास इत्यनुक्तमपि दृश्यम् / अन्तिमः आत्मार्थकृतलक्षणो भेदः शुद्धः एवमेकैकस्यां रसिन्यामुक्तम्, भरणेऽप्येकैकस्मिन्नेव मन्तव्यम। अथाऽऽगमे चाऽम्लिनीनां मध्ये को विशोधिकोटिः को वा ___ अविशोधिकोटिरित्यादिचिन्ता चिकीर्षुराहसंयतकडे य देसे, अप्फासुग फासुगे य भरिए य। अत्तकडे वि य ठविए, लहुगो आणाइणो चेव / / 648|| संयतानेव केवलानाश्रित्य कृतं संयतकृतमाधाकर्म (देसि त्ति) देशत एकदेशेन संयताऽऽदीनामाश्रित्य कृतं देशकृतं. गृहमिश्राऽऽदिकमित्यर्थः / अप्राशुकेन प्राशुकेन वा संयतार्थ यद्धरणं तदप्याधाकर्म (अत्तकडे विय ठविए त्ति) आत्मार्थ कृतायामम्लिन्या यदात्मार्थं भरणं तदपि यदि श्रमणार्थमुत्राज्य बहिः स्थापयति तदा स्थापनादोष इति कृत्वा न ग्रहीतव्यं, यदि गृह्णाति तदा लघुको मासः, आज्ञाऽऽदयश्च दोषाः / एषा नियुक्तिगाथा। अथैनामेव व्याख्यानयतिदेसकडा मज्झपदा, आदिपदं अंतिमंच पत्तेयं / उग्गमकोडी च भवे, विसोहिकोडीच जो दोसो / 946 / यानि मध्यपदानि स्वगृहमिश्रपाखण्डिमिश्रयावदर्थिकमिश्रक्रीतकृतपूतिकर्मलक्षणानि तानि देशकृतान्युच्यन्ते, देशतः स्वगृहार्थ देशतस्तु साध्वाद्यर्थममीषा क्रियमाणत्वात् / यत्पुनरादिपदमाधाकर्म अन्तिमपदं चात्मार्थ कृतं तद् द्वितीयमपि प्रत्येकमेकविषयं केवलमेव, साधुपक्षं स्वगृहपक्षं चोद्दिश्य प्रवृत्तत्वात्। अत्र चयो देशोदेशकृतः स्वगृहमिश्राऽऽदिको दोषः स उद्गमकोटिकोटिर्वा भवेत् अविशोधिकोटिरित्यर्थः / विशोधिकोटिर्वा / तत्र स्वगृहमिश्र पाखण्डमिश्रं च नियमादविशोधिकोटी. पूतिकर्मयावदर्थिकमिश्रक्रीतकृतं चेति त्रीणि विशोधिकोटयः। आधाकर्मिकं पुररेकान्तेनाविशोधिकोटिः; आत्मार्थ कृतं तु निरवद्यमेवेति। ''3पाया।