________________ पाणग 827 - अभिधानराजेन्द्रः - भाग 5 पाणग चित्तम् / 10 १अधि०। ('तिव्वोदग' इत्यादि गाथा 'आउकाय' शब्दे द्वितीयभागे 23 पृष्ठे गता) (परिडवणा' शब्देऽस्मिन्नेव भागे 572 पृष्ठ उदकससक्तस्याऽऽहारस्य परिष्ठापनिका गता) ___ चतुर्थभक्तिकाऽऽदेः चतुर्थभक्तिकस्य पानकानिचउत्थभत्तियस्स णं भिक्खुस्स कप्पंति तओ पाणगाई पडिगाहित्तए / तं जहा-उस्सेइमे, संसेइमे, चाउलधोवणे / छ?भत्तियस्स णं भिक्खुस्स कप्पंति तओ पाणगाइं पडिगाहित्तए। तं जहा-तिलोदए, तुसोदए, जवोदए। अट्ठमभत्तियस्स गंभिक्खुस्स कप्पति तओ पाणगाइं पडिगाहित्तए / तं जहा / आयामए, सोवीरए, सुद्धवियडे। तद्यथाऽस्ति सचतुर्थभक्तिकस्तस्य, एवमन्यत्रापि, शब्दव्युत्पत्तिमात्र- | मेतत्, प्रवृत्तिस्तु चतुर्थभक्ताऽऽदिशब्दानामेकाऽऽधुपवासाऽऽदिष्विति। मिक्षणशीलं धर्मस्तत्साधुकारिता वा यस्य स भिक्षुर्भिनत्ति वा क्षुधमिति भिक्षुस्तस्य पानकानि पानाऽऽहारा उत्स्वेदेन निवृत्तमुत्स्वेदिमं येन ब्रीह्यादि पिष्ट सुराऽऽद्यर्थम् उत्स्वेद्यते / तथा संसेकेकेन निवृत्तमिति संसेकिमम् / अरणिकाऽऽदिपञ्चशाकमुत्काल्य येन शीतलजलेन संसिच्यते तदिति। तन्दुलधावनं प्रतीतमेव / तिलोदकाऽऽदि तत्तत्प्रक्षालनजलं, नवरतुषोदकं ब्रहिथुदकम् / आयामकमवश्रावणं सौवीरकंकाजिक शुद्धं विकटमुष्णोदकम्। स्था०३ठा० ३उ०। ('गिलाण' शब्दे तृतीयभागे 886 पृष्ठे तस्मै काजिक तण्डुलोदकं संसृष्टं चेति क्रमेण देयमित्युक्तम्) पानकग्रहणविधिः-'गच्छरसइऐं अकप्पे, अंबिलभरिए अऊसित्ते" इति द्वारमभिधित्सुः प्रथमतः संबन्धमाहभुत्ते भुंजंतम्मि तु, जम्हा नियमा दवस्स उवओगो। समहियतरो पयत्तो, कायव्वो पाणए तम्हा / / 635 / / भुक्ते भोजनानन्तरं पानार्थ , संज्ञाभूमिगमनार्थवा, भोजनलग्नगलरक्षणार्थ यस्मान्नियमाद्वस्य पानकस्योपयोगो भवति तस्मात् भक्तग्रहणप्रयत्नात् समधिकतरः प्रयत्नः पानकग्रहणे कर्तव्यः। इत्यतस्तद्ग्रहणविधिरुत्सृज्यते। इह शतिकेषु वा गच्छेषु प्रभूतेन पानकेन कार्य भवति, तच कल्पनीयमेव ग्रहीतव्यम्, अतस्तद्विधिप्रतिबद्धद्वारसंग्राहिकामिमा गाथामोहपाणगजाइणियाए, आहाकम्मस्स होइ उप्पत्ती। पूतीऍ मीसजाए, कडे य भरिए य ओसित्ते / / 636|| पानकस्य याशायामाधाकर्मण उत्पत्तिर्भवति सा वक्तव्या। ततः (पूइ त्ति) पूतिका (मीस त्ति) स्वगृहयतिमिश्रा स्वगृहपाखण्डिमिश्रा स्वगृह यावदप्येकमिश्रा च। (कडे य त्ति) आधाकृता क्रीतकृताऽऽत्मार्थकृता वक्तव्या (भरिए त्ति) भरणं भरितमस्ति नामाभिधातव्यम् (ओसित्त त्ति) उत्सेचनमुत्सिवतं तद्वक्तव्यमिति द्वारगाथासमासार्थः / अथ विस्तरार्थमाहअण्णोऽनदवोभासणसंदेसो पुण्णे वेइ घरसामी। कल्लं ठवेहि अन्नं, महल्लसोवीरिणिं गेहे / / 637 / / कोऽपि भद्रको गृहपतिरन्यान् संघाटकान् द्रव्यस्याऽवभाषणं कुर्वाणान् | दृष्ट्वा तेषां च मध्ये केषाञ्चित् संघाटकानां संदेशं मुत्कलनं गृहीतम् / अग्रेतनैः संघाटकैः पानकं नास्तीदानीं भवद्योग्यमिति क्रियमाणं निरीक्ष्य-(पुणे ति) पुण्यार्थं गृहस्वामिनी ब्रवीतिधर्मप्रिये ! मा कश्चनाऽपि साधु जङ्गमं निधिमिव गृहाङ्ग-णमायात प्रतिषेधयेः / किं भवत्या दानधर्मकथायामयं श्लोको नाऽऽकर्णितः? यथा-"दातुरुन्नतवितस्य, गुणयुक्तस्य वाइर्थिनः। दुर्लभः खलु संयोगः, सुबीजक्षेत्रयोरिवः ||1 // " ततः सा ब्रूयात्-नास्त्येतावन्तं साधूनां योग्यं काजिकम्। ततोऽसौ गृहपतियात्कल्पे स्थापयान्यां महतीं सौविरीणीमम्लिनीम् गेहे येन सर्वेषामपि योग्यं पानकं पूर्यते। एतत्त्वाकर्ण्यवक्तव्यम्मा काहिसि पडिसिद्धो, जइबूया कुणसु दाणमन्नेसिं। ते चुट्ठिविवजी, न यावि निचं अधिपडं ति१३८|| न कल्पते एवं विधीयमानं ग्रहीतुमतोमा कार्षीः / यद्येवं प्रतिषिद्धः स गृहस्वामी ब्रूयाद् -प्रिये ! कुर्यास्त्वं तावदपरां सौवीरिणी, यद्येष न गृहीष्यति ततोऽन्येषा साधूनां पानकदानं करिष्यते / ततो वक्तव्यम्तेऽपि साधव उद्दिष्टविवर्जिनःसाधर्मिकमुद्दिश्य कृतं वर्जयितुं शीलं येषा ते तथा, नाऽपि च नित्यं पानकार्थमपि निपतन्ति, अनियतभिक्षाटनशीलत्वादेषाम्। . इत्थमुक्ते यद्यसो गृहस्वामी ब्रूयातअम्ह वि होहिइ कजं, घेच्छंति बहू य अन्नपासंडा। पत्तेयं पडिसेहो, साहारे होइ जयणा उ।।६३६।। अस्माकमपि भविष्यति कार्य काजिकेन, ग्रहीष्यन्ति च बहवो - ऽन्येऽपि युष्मद्व्यतिरिक्ताः पाखण्डिन इति / तत्र साधारणे यतना कर्त्तव्या / यथा अस्माकं तावन्न कल्पते (पत्तेयं पडिसेहो ति) अथ गृहपतिर्भणति-अन्येऽपि निन्थाः पानकार्थमायास्यन्ति, तेभ्यो दास्यते, इत्थं प्रत्येक निर्ग्रन्थानेवाऽऽश्रित्याऽभिधीयमाने प्रतिषेधः कार्यो, न कल्पते साधूनामित्थं विधीयमानम्। एवं प्रतिषिद्धेऽपि कोऽपि सप्त सौवीरिणीः स्थापयेत्। ताश्चैताःआहाकम्मि य संथर, पासंडमीसए जाव कीऍ पूइ अत्तकडे / एक्के कम्मि उ सत्त उ, करे य काराविए चेव / / 140 / / आधाकर्मिका साधूनामेवार्याय कारिता 1, स्वगृहपतिमिश्रा गृहस्थ साधूनां चार्थोय निर्मापिता 2, स्वगृहपाखण्डिमिश्रा, गृहस्य पाखण्डिना चार्थाय कारिता ३,यावदर्थिकमिश्रातुयावन्तः केचनागारिणः पाखण्डिनस्त्वागमिष्यन्ति स्वगृह चोद्दिश्य कृता४, क्रीतक्रीता साध्वर्थ मूल्येन गृहीता 5, पूतिकर्मिका आधाकर्मिकमुधाऽऽदिना पूरितछिद्रा 6, आत्मार्थ कृता, स्वगेहार्थमेव स्थापिता 7 एतासा सप्तानां सीवीरिणीनामेकैकस्यां संथरभरणानि भवन्ति सप्त च सप्तभिस्ताडित एकोनपञ्चाशद्भवति। एषा च प्रत्येक कृते कारापिते च संभवति, ततो द्वाभ्यां गुण्यते, जाता भेदानामष्टानवतिरिति। अथ सप्त भरणानि दर्शयतिकम्मघरे पासंडे, जावंतिय कीय पूइ अत्तकडे /