________________ पाणग 830 - अभिधानराजेन्द्रः - भाग 5 पाणग में किश्चित्पानकजातम् ? स परस्तं भिक्षुमेवं वदन्तमेवं ब्रूयात् यथा आयुष्मन् ! श्रमण! त्वमेवेद पानकजात स्वकीयेन पतद्ग्रहेण टोप्परिकया कटाहकेन वोत्सिञ्च्यापवृत्त्य वा पानकभाण्डकं गृहाण / स एवमभ्यनुज्ञातः स्वयं गृह्णीपात्परो वा तस्मै दद्यात्, तदेवं लाभे सति प्रतिगृह्णीयादिति। किञ्चसे भिक्खू वा० जाव समाणे से जं पुण पाणगजायं जाणेज्जा अणंतरहियाए पुढवीए०जाव संताणाए उद्घठ्ठ 2 णिक्खित्ते सिया, असंजए भिक्खुपडियाए उदउल्लेण वा ससिणिद्धेण वा सकसाएण वा मत्तेण वा सीतोदएण वा संभोएत्ता आहटु दलएज्जा, तहप्पगारं पाणगजातं अफासुयं लाभे संते णो पडिगाहेज्जा / एवं खलु तस्स भिक्खुस्स वा भिक्खूणिए वा सामग्गियं जं सव्वद्वेहिं समिएहिं सएहिं सदा जएज्जा / / 42 / / स भिक्षुर्यत्पुनरेव जानीयात्तत्यानक सचित्तेष्वव्यवहितेषु प्रथिवीकायाऽऽदिषु तथा मर्कटकाऽऽदिसन्तानके वाऽन्यतो भाजनादुवृत्योद्भूत्य निक्षिप्त व्यवस्थापित स्यात्।यदि वासएवासयतो गृहस्थो भिक्षुप्रतिज्ञया भिक्षुमुद्दिश्य उदकाऽऽद्रेण गलबिन्दुनासस्निग्धेन गलदुदकबिन्दुना सकषायेण सचित्तपृथिव्याद्यवयवगुण्ठितेन मात्रेण भाजनेन शीतोदकेन वा (संभोएत्ता) मिश्रयित्वा आहृत्य दद्यात्तथाप्रकारं पानकजातमप्रासुकमनेषणीयमिति मत्वा न परिगृह्णीयात्। आचा०२ 0 १चू० 1107 उ०1 आमाऽऽदिपानकानिसे मिक्खू वा० जाव पविढे समाणे से जं पुण पाणगजायं जाणेज्जा। तं जहा-अंबगपाणगं वा अंबाडगपाणगं वा कविट्ठपाणगं वा मातुलिंगपाणगं वा मुद्दियापाणगं वा दालिमपाणगं वा खज्जूरपाणगंवा णालिएरपाणगंवा करीरपाणगं वा कोलपाणगं वा आमलपाणगं वा चिंचापाणगं वा अण्णयरं वा तहप्पगारं पाणगजायं सअट्ठियं सकणुयं सबीयगं असंजए मिक्खुपडियाए छब्वेण वा दूसेण वा बालगेण वा आबीलियाण परिवीलियाण परिसाइयाण आहटु दलएज्जातहप्पगारं पाणगजायं अफासुयं लाभे संते णो पडिगाहेजा। स भिक्षुर्गृहपतिकुलं प्रविष्टः सन् यत् पुनरेवंभूतं पानकजातं जानीयात्। तद्यथा- "अंवगपाणगं'' इत्यादि सुगमम् / नवरं मुडिया द्राक्षा, कोलानि बदराणि, एतेषु च पानकेषु द्राक्षाबदरांबिलिकाऽऽदि कतिचित्पानकानि तत्क्षणमेव संमद्य क्रियन्ते, अपराणि त्वाम्रामवाटकाऽऽदिपानकानि द्वित्रादिदिनसंधानेन विधीयन्ते इत्येवंभूतं पानकजातं तथाप्रकारमन्यदपि सास्थिक सहास्थिना कुलकेन यद्वर्त्तते, तथा सह कणुकेन त्वगाद्यवयवेन यद्वर्तते, तथा बीजेन सह यद्वर्तते। अस्थिबीजयोश्चाऽऽमलकाऽऽदौ प्रतीतो विशेषः / तदेयंभूतं पानकजातमसंयतो गृहस्थः भिक्षुमुद्दिश्य साध्वर्थ द्राक्षाऽऽदिकमामर्च पुनर्वशत्वग्निष्पादितछव्यकेन वा, तथा (दूस) वस्त्रं तेन वा, तथा (वालगेण त्ति) गवादिबालधिबालनिष्पन्नचालनकेन सुधरिकागृहकेन वेत्यादिनोपकरणेनास्थ्याद्यपनयनार्थं सकृदापीड्य पुनः पुनः परिपीड्य तथा परिस्राव्य निर्गाल्या- | ऽऽहृत्य च साधुसमीपं दद्यादित्येवं प्रकार पानकजातमुद्गमदोषदुष्ट, सत्यपि लाभे न प्रतिगृह्णीयात्। ते चामी उद्गमदोषाः"आहाकम्मुद्देसिय, पूतीकम्मे य मीसजाए य। ठवणा पाहुडियाए, पाओअर कीय पामिच्चे // 6 // परियट्टिए अभिहडे, अभिण्णे मालोहडे इय। अच्छिज्जे अणिसटे, अज्झोयरए य सोलसमे // 13 // ' पिंप व्याख्या-साध्वर्थ यत्सचित्तमचित्तीक्रियते, अचित्तं वा यत्पच्यते तदाधाकर्म / तथा आत्मार्थ यत्पूर्वसिद्धमेव लड्डुकचूर्णकादि साधूनुविश्य पुनरपि सन्तप्तगुडाऽऽदिना संस्क्रियते तदुद्देशिकं सामान्येन विशेषतो विशेषसूत्रादवगन्तव्यमिति / यदाधाकर्माऽऽद्यवयवसंमिश्र तत्पूतीकर्म / संयतासंयताऽऽद्यर्थमादेराभ्याऽऽहारपरिपाको मिश्रम् / साध्वर्थ क्षीराऽऽदिस्थापन स्थापना भण्यते। प्रकरणस्य साध्वर्थमुत्सर्पणमवसर्पण वा प्राभृतिका / साधुनुद्दिश्य गवाक्षाऽऽदिप्रकाशकरण बहिर्वाप्रकाशे आहारस्य व्यवस्थापन प्रादुःकरणम्। द्रव्याऽऽदिविनयमयेन स्वीकृतं क्रीतम्। साध्वर्थ यदन्यस्मादुच्छिन्नकं गृह्यते तत् 'पामिच्चं' इति। यच्छाल्योदनाऽऽदि कोद्रवाऽऽदिना प्रतिवेशिकगृहे परिवर्त्य ददाति तत्परिवर्तनम्। यद् गृहाऽऽदेः साधुवसतिमानीय ददाति तदाहृतम। गोम.. याऽऽद्युपलिप्त भाजनमुद्भिद्य ददाति तदुनिन्नम् / मालाऽऽद्यवस्थित निश्रेण्यादिनाऽवतार्य ददाति तन्मालाहृतम्। भृत्यादेराच्छिद्य यहीयते तदाच्छेद्यम् / सामान्य श्रेणिभक्तकाऽऽधकस्य ददतोऽनिसृष्टम् / स्वार्थमधिश्रयणाऽऽदौ कृते पश्चात्तन्दुलाऽऽदिप्रसृत्यादिप्रक्षेपादध्यवपूरकः / तदेवमन्यतमेनाऽपि दोषेण दुष्ट न प्रतिगृहीयादिति। आचा० २श्रु०१चू०१अ०७उ०। (भक्तपानकमधिकृत्यविशेषः ‘गोयरचरिया' शब्दे तृतीयभागे 666 पृष्ठे गतः) पानकग्रहणम् / साम्प्रतं पानकविधिमाहतहेवुचावयं पाणं, अदुवा वारधोयणं / संसेइमं चाउलोदगं, अहुणा धोयं विवज्जए।।७।। तथैव यथा अशनम् उच्चावचं तथा पानम् उच्च वर्णाऽऽद्युपेतं द्राक्षापानाऽऽदि, अवचं वर्णाऽऽदिहीनं पूत्यारनालाऽऽदि। अथवा-वारकधावनं गुडघटधावनमित्यर्थः। संस्वेदजं पिष्टोदकाऽऽदि. एतदशनवदुत्सर्गापवादाभ्यां गृह्णीयादिति वाक्यशेषः / तदुलोदकम् - "अढिकरक" अधुना धौतमपरिणते विवर्जयेदिति सूत्राऽर्थः। अत्रैव विधिमाहजं जाणिज्ज चिरा धोयं, मईए दंसणेण वा। पडिपुच्छिऊण सोचा वा, जं च निस्संकियं भवे // 76 / / यत्तन्दुलोदक जानीयात् विद्यात् चिरधौतं, कथं जानीयादित्याहमत्या दर्शनन वा, मत्या तद्ग्रहणाऽऽदिकर्मजया, दशनेन वा वर्णाऽऽदिपरिणतसूत्राऽनुसारेण च,वा चशब्दार्थः, तदप्येवंभूतं कियतीवेलाऽस्य धौतस्येति पृष्ट्वा गृहस्थं श्रुत्वा वा महती वेलेति श्रुत्वा च प्रतिवचः, यच्चेति यदेव निःशङ्कितं भवति निरवयवप्रशान्ततया तन्दुलोदक तत्प्रतिगृह्णीयात्, इति विशेष: पिण्डनिर्युक्तावुक्त इति सूत्राऽर्थः /