________________ पाओवगमण 820 - अभिधानराजेन्द्रः - भाग 5 पाओवगमण कम, अनुलोमप्रतिलोमलक्षणोभयसहितं तदेव त्रिकम् / अथवा - सचित्तमचित्तं वा इति द्विक, तदेव हि मिश्रसहितं त्रिक,तस्य द्विकस्य त्रिकस्य वा आस्य मुखे प्रक्षेपं कुर्युः, सतेनद्वारेण मुखे प्रक्षिप्तेन व्युत्सृष्टः प्रतिबन्धाभावतस्त्यक्तः परिकर्मकरणतो देहो येन स व्युत्सृष्टत्यक्तदेहः, कोऽपि यथाऽऽभुर्यथावस्थितमात्मीयमायुः पालयति / द्विकत्रिकाऽऽहारव्याख्यानार्थमाहअणुलोमा पडिलोमा, दुगं तु उभयसहिया तिगं होति। अहवा चित्तमचित्तं, दुगं तिगं मीसगसमग्गं / / 552|| अनुलोमानि द्रव्याणि प्रतिलोमानि चेति द्विक, तान्येवोभयसहितानि त्रिकम् / अथवा सचित्तमचित्तमिति द्विक, तदेव मिश्रसमग्रं त्रिकमिति। पुढविदगअगणिमारुअ-वणस्सइतसेसु कोवि साहरइ। वोसट्टचत्तदेहो, अहाउयं कोइ पालेजा // 553 / / कोऽपि पादपोपगमं प्रतिपन्नं पृथिव्यां पृथिवीकायमध्ये उदके, अप्काये अग्नौ मारुते वायुकायो वनस्पतिषु त्रसेषु च संहरति, स च तथा संहतो व्युत्सृष्टत्यक्तदेहो यथायुः कोऽपि पालयति। एगंत निजरा से, दुविहा आराहणा धुवा तस्स / अंतकिरियं व साहू, करेज देवोवपत्तिं वा / / 554 / / एकान्तेन 'से' तथावस्थितस्य निर्जरा भवति। तथा तस्यधुवा द्विविधा सिद्धिगमनयोग्या कल्पोपपत्तियोग्या चाऽऽराधना यया साधुरन्तक्रिया वा कुर्यात्, देवोपपत्तिं वा। मज्जण गंधं पुप्फो-वयार परियारणं सिया कुजा। वोसट्ठचत्तदेहो, अहाउयं कोइपालेज्जा // 555 / / केचित् रूपातिशयलुब्धाः तस्य कृतपादपोपगमनस्य मज्जनं स्नान, ततः पटवासाऽऽदिगन्धं, तदनन्तरं पुष्पोपचारं, ततः परिचारण गले गलित्वा परिमन्थनपरिचुम्बनाऽऽदिरूपं स्यात् कदाचित्कुर्यात् / तत्र स व्युत्सृष्टत्यक्तदेहो यथायुः कोऽपि पालयति, अरक्तद्विष्टः सन् सम्यक् तत्सहमानो यावजीवमवतिष्ठते। पुवमवियपेम्मेणं, देवो कुरुउत्तरकुरासु। कोई तु साहरेज्जा, सव्वसुहा जत्थ अणुभावा / / 556 / / पूर्वभविकेन प्रेम्णा कोऽपि देवो यत्र अनुभवाः सर्वे शुभास्तासु देवकुरुउत्तरकुराषु वा संहरेत् / स च तथा तथा तत्र संहृता व्युत्सृष्टत्यक्तदेहो यथायुः कोऽपि पालयति। पुव्वभवियपेम्मेणं, देवो साहरइ नागभवणम्मि। जहियं इट्ठा कंता, सव्वसुहा हुंति अणुभावा / / 557 / / पूर्वभविकेन प्रेम्णा कोऽपि देवो यत्र सर्व शुभा अनुभावा इष्टाः कान्ताश्च भवन्ति, तत्र नागभवने संहरेत, सोऽपि तत्र तथैवावतिष्ठते। वत्तीसलक्खणधरो, पाओपगतो य पागडसरीरो। पुरिसदेसी कण्णा, रायवितिण्णा उगेण्हेजा / / 558 / / द्वात्रिंशल्लक्षणधरः पादपोपगतः सन् प्रकटशरीरो जातस्तं पुव्वद्वेषिणी कन्या राजवितीर्णा राज्ञा अनुज्ञाता सती शृण्हायात्। गृहीत्वा किं करोत्यत आहमञ्जण गंधं पुप्फो-वयार परिचारणं सया कुज्जा। वोसट्ठचत्तदेहो, अहाउयं कोवि पालेज्जा!1५५६।। अस्या व्याख्या प्राग्वत्। तथानवंगसुत्तपरिवोहियाएँ अट्ठारसरतिविसेसकुसलाए। वावत्तरिकलापंडियाए चोसट्ठिमहिलागुणेहिं च / / 560 / / द्वे अक्षिणी, दो कर्णो द्वौ नासापुटो, जिह्वारपर्शने, नवमं मनः एतानि नव अङ्गानि यावदद्यापि यौवनं न भवति तावत्सुप्तानि भवन्ति / न खलु तदानीमेतेषामतीचाराऽभिष्वङ्गः सुखं भवति, ततः सुप्तानीति व्यपदिश्यन्ते। यौवने तु प्राप्तस्य कल्पगुणेन प्रतिबुद्धानि जायन्ते / नवाङ्गानि सुप्तानि प्रतिबोधितानि यया सा तया। तथा अष्टादशदेशभाषास्तासु मध्ये यस्य यत्र रतिविशेषस्तत्र कुशलतया, द्वासप्ततिकलापण्डितया चतुःषष्टि महेलागुणैरुपेतया। नवाङ्गाऽऽदिव्याख्यानं तावदाहदो सोअनेत्तमादीणवगं सुत्ता हवंति एए उ। देसीभासऽट्ठारस, रतीविसेसा इगुवीसं / / 561 / / कोसल्लमेकवीसइविहं गुणेहिं तु जुत्ताए। एवं च रूवजोव्वणविलासलावण्णकलियाए / / 562 / / द्वे श्रोत्रे, द्वे नेत्रे, आदिशब्दान्नासापुटद्वयजिह्वा स्पर्शनसंपरिग्रहः। एतानि नवक नवसंख्यानि सुप्तानि भवन्ति / देशीभाषाऽष्टादश ताः शास्त्रप्रसिद्धाः, रतिविशेष एकोनविंशतितमः / तत्र कौशलमेव विंशतिविध शास्त्रप्रसिद्धम्, एवमादिभिर्गुणैः युक्तया, तथा रूपयौवनविलासलावण्य - कलितया। चउकण्णम्मि रहस्से, रागेणं रायदिन्नपसराए। तिमिमगरेहिं उदही, न खोमिओ जो मणो मुणिणो / / 563 / जाहे पराजिया सा, न समत्था सीलखंडणं काउं। नेऊण सेलसिहरं, से सिलं मुंचए उवरि / / 564 // चतुःकणे रहस्ये रागेणानुरागेण राजदत्तप्रसरया गृह्यते, गृहीत्या चाऽनेकप्रकारः संक्षोभ आपद्यते। तत्र यन्मनेर्मनस्तत्न याति तिमिमकरैर्वोदधिर्न क्षोभितः, ततो यदा सा पराजिता शीलखाण्डनं कर्तुनसमर्था तदा रोषात् शैलशिखरं नीत्वा (से) तस्योपरि शिला मुश्चति। एगंतनिजरा से, दुविहा आराहणा धुवा तस्स। अंतकिरियं च साहू, करेज देवोववत्तिं वा // 565 / / इयं प्राग्वत्। मुणिसुव्वयंतेवासी, खंदग दाहे य कुंभकारकडे / देवी पुरंदरजसा, दंडइ पालक्क मरुओ य / / 566 / / कुम्भकारकृते नगरे दण्डकिर्नाम राजा, तस्य देवी पुरन्दरयशाः, पालको नाम मरुकः पुरोहितः। तत्र भगवतो मुनिसुव्रतस्वामिनोऽन्तेवासी स्कन्दको नाम विहारक्रमेण गतः सस्वशिष्याणां यत्र पीडनेन मरणं, विशेषतो बालक्षुल्लकस्योपलभ्य संजातकोपो यन्त्रपीडनमारितोऽग्निकुमारेषु उत्पद्यजाति स्मृत्वा समस्तस्यापि देशस्य दाहं कृतवान्, शिष्याः सुसमाधि प्राप्ता मृत्युमुपागताः (विस्तरः 'खंदग' शब्दे तृतीयभागे 663 पृष्ठे गतः)।