________________ पाउक्करण 817 - अभिधानराजेन्द्रः - भाग 5 पाउक्करण तद्योगात् प्रादुः प्रकट करणं यस्येतिवा। उद्गमदोषविशिष्टे, भक्तादौ च। पिं0 आचा०ा स्थान अथ प्रादुष्करणद्वारं विभणिषुः प्रथम तस्तत्संभव गाथाषट्केनाऽऽहलोयविरलुत्तमंगं, तवोकिसं जल्लखउरियसरीरं / जुगमेत्तंतरदिहि, अतुरियचवलं सगिहर्मितं / / 262 // दठूण य अणगारं, सड्डी संवेगमागया काइ। विपुलन्नपाण घेत्तू-ण निग्गया निग्गओ सो वि॥२६३।। नीयदुवारम्भि घरे, न सुज्झई एसण त्ति काऊणं / नीहम्मिए अगारी, अच्छइ विलिया व गहिएणं // 264|| चरणकरणालसम्मि य, अन्नम्भि य आगए गहिय पुच्छा। इहलोगं परलोगं, कहेइ चइउं इमं लोगं // 265 / / नीयदुवारम्मि परे, भिक्खं निच्छंति एसणासमिया। जं पुच्छसि मज्झ कहं, कप्पइ लिंगोवजीवीऽहं // 266|| साहुगुणेसणकहणं, आउट्टा तम्मि तिप्पइ तहेव। कुक्कुडि चरंति एए, वयं तु चिन्नव्वया बीओ।।२६७।। काचित् श्राविका अनगारं साधुमेकाकिविहारिणं लोचविरलोत्तमागम अत्रोत्तमाङ्गशब्दनोत्तमाङ्गस्थाः केशा उच्यन्ते / ततोऽयमर्थः-लोचेन विरलोत्तमान केशं तपःकृशं मलकलुपितशरीरं युगमात्रान्तरन्यस्तदृष्टिमत्वरितमचपलं स्वगृहभागच्छन्तम् / / दृष्ट्वा संवेगमागता, ततो गृहमध्ये विपुलं भक्तं पानं च गृहीत्या गृहमध्याद्विनिर्गता, सोऽपि च साधुः / / नीचद्वारेऽस्मिन गृहे न शुद्धयति ममैषणेति कृत्वा ततः स्थानादिनिजंगाम, निर्गते च तस्मिन् गृहीतेन भक्तपानेन संजातविप्रिये वाऽवतिष्ठते / अत्रान्तरे चरणकरणालसोऽन्यस्तस्मिन् गृहे साधुर्भिक्षार्थमागतः, ततस्तरभ सा भिक्षा तया दत्ता, गृहीतायां च भिक्षायां स साधुः पृष्टो यथा भगवन्निदानीमव साधुरीदृशस्तादृशो वाऽत्र समागतः, परं तेन भिक्षा न गृहीता, त्वया गृहीता, तत्र किं कारणम्? ततः स ऐहलौकिक भिक्षालाभमात्राऽऽदिकं पारलौकिकं धर्म यथाक्रममल्पगुणं बहुगुणं च विचिन्त्येमं लोकम्-लोकात् लभ्यं भिक्षामात्राऽऽदिक परित्यज्योक्तवान् // यथा-नीचद्वारे गृहे साधव एषणासमितिसमिता भिक्षां नेच्छन्ति, तत्रान्धकारभावत एषणशुद्ध्यभावात्,सोऽपि च भगवान् / साधुरेषणासमितस्ततो न गृहीतवानिति। यद्यप्युक्तम्- किं कारणं त्वया गृहीता? इति, तत्राह लिङ्गमात्रोपजीवी, न साधुगुणयुक्तः॥ ततः साधूना गुणानेषणां च यथागमं कथितवान, ततः सा स्वचेतसि चिन्तयामास-अहो जगति निजदोषप्रकटनं परगुणोत्कीर्तनं चातिदुष्करम्, तदप्येतेन कृतमिति तस्मिन्नतिशयेन भक्तिं कृतवती, विपुलं च भक्तपानं (तिप्पइ त्ति) तेपते क्षरति, ददाति स्मेति भावार्थः / गते च तस्मिन् अन्यः कोऽप्यगणितदीर्घसंसारपरिभ्रमणभयों निर्द्धर्भा साधुराजगाम, सोऽपि भिक्षा दत्त्वा लथैव पृष्टः / ततः स पापीयानुक्तवान्-एते इत्थंभूताः कुक्कट्या मायया चरन्ति, ततस्त्वदीयचित्ताऽऽवर्जनार्थ तेन मातृस्थानतो न भिक्षा गृहीता, यावता न तत्र कश्चिद् दोषः, ईदृशानि च मातृस्थानबहुलानि व्रतान्यरमाभिरपिपूर्व चीपर्णानि, परमिदानी चिन्तित-किं मातृस्थानकरणेनेति न माया कुर्मः? ततः सा चिन्तितवती-अहोऽयं निर्द्धमा पापीयान, यस्तादृशमपि साधुं निन्दतीति विसर्जितः / इत्थंभूता च भक्तिपरवशगा साधुदानारा प्रादुष्करणमपि कुर्यादिति प्रादुष्करणसंभवः / संप्रति तदेव प्रादुष्करणं गाथाद्वयेनाऽऽहपाओकरणं दुविहं, पागडकरणं पगासकरणं च / पागड संकामण कुडुदारपाए य छिन्ने व // 268|| रयणपईवे जोई, न कप्पइ पगासणा सुविहियाणं / अत्तट्टि अपरिभुत्तं, कप्पइ कप्पं अकाऊणं / / 266 / / प्रादुष्करणं द्विधा / तद्यथा-प्रकटकरणं, प्रकाशकरण च। तत्र प्रकटकरणम्-अन्धकारादपसार्य बहिः प्रकाशे स्थापनम् / प्रकाशकरणंस्थानस्थितस्येव भित्तिरन्ध्रकरणाऽऽदिना प्रकटीकरणम् / एतदेवाऽऽह-तत्र प्रकटकरणमन्धकारादन्यत्र संक्रामणेन प्रकाशकरणं (कुडदारपाए इत्यादि) अत्र सर्वत्राऽपि तृतीयार्थे सप्तमी, कुड्यस्य द्वारपातेन रन्ध्रकरणेन, यदि वा-कुड्येन मूलत एव छिन्नेन येन कुड्यन कुड्येकदेशेन वाऽन्धकारमासीत्तेन मूलत एवापनीतेनेत्यर्थः। चशब्दादन्यस्य द्वारस्य करणेन चेत्यादिपरिग्रहः। तथा-रत्नेन पद्मरागाऽऽदिना प्रदीपेन प्रतीतेन ज्योतिषा ज्वलता वैश्वानरेण तत्रैव प्रकाशना सुविहितानां न कल्पते / किमुक्तं भवति?प्रकाशकरणेन प्रकटकरणेन च यहीयते भक्ताऽऽदि तत्संयतानां न कल्पते, तत्रैवापवादमाह-(अत्तट्टि त्ति) आत्मार्थी कृतं तदपि कल्पते, नवरं ज्योतिःप्रदीपौ वर्जयेत्, ताभ्यां प्रकाशितमात्मार्थीकृतमपि न कल्पते. तेजस्कायदीप्तिसंस्पर्श-नात्। साधुपात्रमाश्रित्य विधिमाह-इह सहसाकाराऽऽदिना प्रादुष्करणदोषाऽऽध्रातं कथमपि भक्तं पानं वा गृहीतं, ततस्तत् अपरिभुक्तम्, उपलक्षणमेतत्-अर्द्धभुक्तमपि परिस्थाप्योद्वरितसित्थुलेपाऽऽदिना खरण्टितेऽपि तरिमन पात्रे कल्पं जलप्रक्षालनरूपमकृत्वाऽप्यन्यत् शुद्धं गृहीतं कल्पते। एतदेव गाथाद्वयं विवरीषुः प्रथमतश्चुल्लीसं क्रमणमाश्रित्य प्रकटकरण स्पष्टयतिसंचारिमा य चुल्ली, बहिं व चुल्ली पुरा कया तेसिं। तहिं रंधंति कयाई, उवही पूई य पाओ य / / 300 / / इह त्रिधा चुली / तद्यथा-एका संचारिमा, या गृहाभ्यन्तरवर्तिन्यपि बहिरानेतुं शक्यते। चशब्दात्साऽप्याधाकर्मिभकी द्रष्टव्या, द्वितीया बहिरेव तेषां साधूनां निमित्तं चुली पुरा कृता आसीत् / चशब्दात्तदानीं वा साधुनिमित्त बहिश्चुल्ली कृता वेदितव्या, सा च तृतीया / ततो यदि कदाचित् तत्र तिसृणां चुल्लीनामन्यतमस्यां गृहस्था राध्यन्ति, ततो दौ दोपौ। तद्यथा-उपकरणपूतिः, प्रादुष्करणं च। यदाच चुल्ल्याः पृथकृतं तद्देयं वस्तु तदा प्रादुष्करणरूप एवैकः केवलो दोषः, पूतिदोषस्तूत्तीर्णः / यदा चुल्ल्योऽपि शुद्धास्तदाऽपि प्रादुष्करणरूप एवैको दोषः। यदर्थ प्रादुष्करणं गृहस्था कृतवती तं भिक्षायै गृहमागच्छन्तं दृष्ट्वा यदृजुत्वेन भाषते, तदाहनेच्छह तमिसम्मि तओ, बाहिरचुल्लीऍ साधु सिद्धण्णे।