________________ पव्व 806 - अभिधानराजेन्द्रः - भाग 5 पव्व जेट्ठाइगं च छक्क, अजाऽभिवुड्डी दुपूसाऽऽसा।।१।। छक्कं च कत्तियाई, पिइ भग अजमदुगं च चित्ता य। वाउ विसाहा अणुराह जेट्ट आउं च वीसु दुगं।।२।। सवण धणिट्टा अजदेव अभिवुड्दुि अस्स जमबहुला। रोहिणि सोमऽदिइदुर्ग, पुस्सो पिइभगजमा हत्थी / / 3 / / चित्ता य जिट्टवजा, अभिई अताणि अट्ट रिक्खाणि / एए जुगपुटवद्धे, विसेट्टि पव्वे सरिक्खाणि // 4 // एतासां व्याख्या-प्रथमस्य पर्वणः समाप्तौ सूर्यनक्षत्रं सर्पः सर्पदेवतोपलक्षिताः अश्लेषा 1, द्वितीयस्य भगो भगदेवतोपलक्षिताः पूर्वफाल्गुन्यः२, ततः अर्यमद्विकमिति तृतीयस्य पर्वणोऽर्यमदेवतोपलक्षिता उत्तरफाल्गुन्यः 3, चतुर्थस्याऽप्युत्तरफाल्गुन्यः 4, पञ्चमस्य हस्तः 5, षष्ठस्य चित्रा 6, सप्तमस्य विशाखा 7, अष्टमस्य मित्रो मित्रदेवतोपलक्षिता अनुराधा 8, ततो ज्येष्ठाऽऽदिकं षट् क्रमेण वक्तव्यम्। तद्यथा-नवमस्य ज्येष्ठाः, दशमस्य मूलम् 10, एकादशस्य पूर्वाषाढा 11, द्वादशस्योत्तराऽऽषाढा १२,त्रयोदशस्य श्रवणः 13. चतर्दशस्य धनिष्ठा १४.पञ्चदशस्याजोऽजादेवतोपलक्षिता पूर्वभद्रपदा 15, षोडशस्याऽभिवृद्धिरभिवृद्धिदेवतोपलक्षिता उत्तरभद्रपदा 16, सप्तदशस्योत्तरभद्रपदा 17, अष्टादशस्य पुष्यः पुष्यदेवतोपलक्षिता रेवती 18, एकोनविंशतितमस्याश्वोऽश्वदेवतोपलक्षिता अश्विनी 16, षट्कं च कृत्तिकाऽऽदिकमिति विशतितमस्य कृत्तिकाः२०.एकविंशतितमस्य रोहिणी 21, द्वाविंशतितमस्य मृगशिरः २२,त्रयोविंशतितमस्याऽऽर्द्रा 23. चतुर्विशतितमस्य पुनर्वसु 24, पञ्चविंशतितमस्य पुष्यः 25, षड्विंशतितमस्य पितरः पितृदेवतोपलक्षिता मघाः 26, सप्तविंशतितमस्य भगो भगदेवतोपलक्षिताः पूर्वफाल्गुन्यः 27, अष्टाविंशतितमस्यार्यमा अर्यमदेवा उत्तरफाल्गुन्यः 28. एकोनत्रिंशत्तमस्याप्युत्तरफाल्गुन्यः 26, त्रिंशत्तमस्य चित्रा 30, एकत्रिंशत्तमस्य वायुर्वायुदेवतोपलक्षिता स्वातिः 31, द्वात्रिंशत्तमस्य विशाखाः 32, त्रयत्रिंशत्तमस्यानुराधा 33, चतुस्त्रिंशत्तमस्य ज्येष्ठा 34, पञ्चत्रिंशत्तमस्य पुनरायुरायुर्देवतोपलक्षिता पूर्वाषाढाः 35, षट्त्रिंशत्तमस्य विष्वग्देवा उत्तराषाढा 36, सप्तत्रिंशत्तमस्याप्युत्तराषाढाः 37. अष्टात्रिंशत्तमस्य श्रवणः 38, एकोनचत्वारिंशत्तमस्य धनिष्ठा 36, चत्वारिंशत्तमस्याऽजोऽजदेवतोपलक्षिता पूर्वभद्रपदा 40, एकचत्वारिंशतमस्याभिवृद्धिरभिवृद्धिदेवा उत्तरभद्रपदा ४१,द्वाचत्वारिंशत्तमस्याप्युतरभद्रपदा 42, त्रिचत्वारिंशत्तमस्याश्वोऽश्वदेवा अश्विनी 43, चतुश्च - त्वारिंशत्तमस्य यमो यमदेवा भरणी 44, पञ्चचत्वारिंशत्तमस्य बहुला कृत्तिका 45, षट्चत्वारिंशत्तमस्य रोहिणी 46, सप्तचत्वारिंशत्तमस्य सोमः सोमदेवोपलक्षितं मृगशिरः 47, अदितिद्विकमिति अष्टचत्वारिंशत्तमस्यादितिरदितिदेवोपलक्षितं पुनर्वसुनक्षत्रम् 48, एकोनपञ्चाशतमस्यापि पुनर्वसुनक्षत्रम् 46, पञ्चाशत्तमस्य पुष्यः 50, एकपञ्चाशतमस्याऽपि पितृदेवा मघा 51, द्वापञ्चाशत्तमस्य भगो भगदेवतोपलक्षिता पूर्वफाल्गुन्यः 52, त्रिपञ्चाशत्तमस्यार्यमा अर्यमदेवतोपलक्षिता उत्तरफाल्गुन्यः 53, चतुःपञ्चाशत्तमस्य हस्त 54, अत ऊर्द्ध चित्राऽऽदीनि अभिजित्पर्यन्तानि ज्येष्ठावान्यष्टौ नक्षत्राणि क्रमेण वक्तव्यानि / तद्यथा-पञ्चपञ्चाशत्तमस्य चित्रा 55, षट्पञ्चाशत्तमस्य स्वातिः 56, सप्तपञ्चाशत्तमस्य विशाखा 57. अष्टपञ्चाशत्तमस्य अनुराधा 58, एकोनषष्टितमस्य मूलः 56, षष्टितमस्य पूर्वाषाढा 60. एकषष्टितमस्योत्तराषाढाः 61, द्वाषष्टितमस्याभिजिदिति 62 / एतानि नक्षत्राणि युगस्य पूर्वार्द्ध द्वाषष्टिसंख्येषु पर्वसु यथाक्रममुक्तानि / एतं करणवशेन युगस्योत्तरार्द्धऽपि द्वाषष्टिसंख्येषु पर्वसुज्ञातव्यानि। किं पर्व चरमदिवसे कियत्सु मुहूर्तेषु गतेषु समाप्तिमियतीत्येतद्विषयं यत्करणमभिहित पूर्वाऽऽचार्यस्तदभिधीयते"चउहिँ अहियम्मि पव्वे, एक्के सेसम्मि होइ कलिओगो। वेसुयदावरजुम्मो, तिसुतेया चउसु कडजुम्मो।।१।। कलिओगे ते णउई, पक्खेवो दावरम्मि यावट्ठी। तेऊए एक्कतीसा, कडजुम्मे नत्थि पक्खेवो // 2 // सेसद्धे तीसगुणे, बावट्ठी भाइयम्मिजं लद्धं / जाणे तइसु मुहुत्ते-सु अहोरत्तस्सतं पव्वं / / 3 / / '' एतासा क्रमेण व्याख्या-पर्वाण पर्वराशौ चतुर्भिर्भक्ते सति यद्येकः शेषो भवति तदा स राशिः कल्योजो भण्यते। द्वयोः शेषयोर्द्वापरयुग्मः / त्रिषु शेषेषु त्रेतोजश्चतुर्षु शेषेषु कृतयुग्मः / (कलि-ओगेत्यादि) तत्र कल्योजे रूपराशौ त्रिनवतिः प्रक्षेपः प्रक्षपणीयो राशिः, द्वापरयुग्मे द्वाषष्टिः त्रेतौजसि एकत्रिंशत्, कृतयुग्मे नास्ति प्रक्षेपः / एवं प्रक्षिप्तप्रक्षेपणां पर्वराशीनां सतां चतुर्विशत्यधिकेन पर्वशतेन भागो न्हियते, हृते च भागे यच्छेषम वतिष्ठतेतस्यायं विधिः-(सेसद्धे इत्यादि) शेषश्चतुर्विशत्यधिकेन शतेन भागे हृते अवशिष्टस्यार्द्ध क्रियते, कृत्वा च त्रिंशता गुण्यते, गुणयित्वा च द्वाषष्ट्या भज्यते, भक्ते सति यल्लब्धं तान् मुहूर्तान् जानीहि, लब्धान शेषमुहूर्तभागान, तत एवं स्वशिष्येभ्यः प्ररूपयन्तत् विवक्षित पर्व चरमे अहोरात्रे सूर्योदयात्तावत्सु मुहूर्तेषु तावत्सु च मुहूर्तभागेषु अतिक्रान्तेषु परिसमाप्तमिति / एष करणगाथा-ऽक्षरार्थः। भावना त्वियम्-प्रथमं पर्व चरमे अहोरात्रे कति मुहूर्त्तानतिक्रम्य समाप्तमिति जिज्ञासायामेको ध्रियते। अयं किलकल्योजोराशिरित्यत्र त्रिनवतिः प्रक्षिप्यते, जाता चतुर्नवतिः, अस्य चतुर्विशत्यधिकेन शतेन भागो हर्त्तव्यः। स च भागोन लभ्यते, राशेः स्तोकत्वात, ततो यथासंभवं करणं लक्षणं कर्त्तव्यं, तत्र चतुर्नवतेरर्द्ध क्रियते , जाताः सप्तचत्वारिंशत् 47, सा त्रिंशता गुण्यते, जातानि चतुर्दशशतानिदशोत्तराणि 1410, तेषां द्वाषष्ट्या भागो हियते, लब्धा द्वाविंशतिमुहूर्ताः२२, शेषास्तिष्ठन्ति षट्चत्वारिंशत् 46, ततश्छेद्यछेदकराश्योरर्द्धनापवर्तना, लब्धास्त्रयोविंशतिरेकत्रिंश-द्भागाः 31, आगतं प्रथम पर्व चरमे अहोरात्रे द्वाविंशतिमुहूर्तान्, एकस्य च मुहूर्तस्य त्रयोविंशतिभेकत्रिंशद्धागानतिक्रम्य समाप्तिं गतमिति द्वितीयपर्वजिज्ञासायां द्विको ध्रियते, स किलद्वापरयुग्मराशिरितिद्वाषष्टिः प्रक्षिप्यते, जाता चतुःषष्टिः। सा च चतुर्विशत्यधिकस्य शतस्य भागंन प्रयच्छति, ततस्तस्यार्द्ध क्रियते, जाता द्वात्रिंशत्, सा त्रिंशता गुण्यते, जातानि नवशतानि षष्ट्यधिकानि 660, तेषां द्वाषष्ट्या भागो न्हियते, लब्धाः पञ्चदश मुहूर्ताः१५, पश्चा