________________ पव्व 805 - अभिधानराजेन्द्रः - भाग 5 पव्व ध्यराशिर्गुण्यते, जातः स तावानेव, "एकेन गुणितं तदेव भवति" इति वचनात् / ततः चतुर्विशत्यधिकेन पर्वशतेन भागो हियते, तत्रोपरितनराशेः स्तोकत्वाद् भागो न लभ्यते, लब्धा एकस्य च सूर्यनक्षत्रप यस्य पश्चचतुर्विंशत्यधिकशतभागाः, तत्र नक्षत्राणि कुर्मा इत्यष्टादशभिः शतैः त्रिंशदधिकैः सप्तषष्टिभागैः पञ्च गुणयिष्याम इति गुणकारच्छेदराश्योरर्द्धनापवर्तना, जातो गुणकारराशिनवशतानि पञ्चदशोत्तराणि 615, छेदराशिषिष्टिः 62, तत्र नवभिः शतैः पञ्चदशोत्तरैः पञ्च गुण्यन्ते, जातानि पञ्चचत्वारिंशच्छतानि पञ्चसप्तत्यधिकानि 4575, एतानि मुहूर्ताऽऽनयनार्थ त्रिंशता गुण्यन्ते, जातमेकं लक्ष सप्तत्रिंशत्सहस्राणि द्वे शते पञ्चाशदधिके १३७२५०,छेदराशिश्च द्वाषष्टिरूपः सप्तषष्ट्या गुण्यते, जातान्येकचत्वारिंशच्छतानि चतुःपञ्चाशदधिकानि 4154, तैर्भागो हियते, लब्धास्त्रयस्त्रिंशन्मुहूर्ताः 33, शेष तिष्ठत्यष्टषष्ट्यधिकं शतम्, 168, एतत् द्वाषष्टिभागाऽऽनयनाथ द्वाषष्ट्या गुणयितव्यमिति गुणकारच्छेदराश्योषष्ट्याऽपवर्त्तना, जाता गुणकारराशिरेकरूपः छेदराशिः सप्तषष्टिरूपः ‘‘एकेन च गुणितं तदेव भवति'' ततोऽष्टषष्ट्यधिकमेव शतं जातं, तस्य सप्तषष्ट्या भागो हियते, लब्धौ द्वौ द्वाषष्टिभागौ, एकस्य च द्वाषष्टिभागस्य चतुस्त्रिंशत्सप्तषष्टिभागा इति / (इच्छापव्वे इत्यादि) इच्छाविषयं यत् पर्व पर्वसंख्यानं तदिच्छापर्व, तद्गुणो गुणकारो यस्य ध्रुवराशेस्तस्मात्। किमुक्तं भवति? ईप्सितं यत् पर्व तत्सख्यया गुणितात् ध्रुवराशेः पुष्याऽऽदीनां नक्षत्राणां क्रमशः क्रमेण शोधनं कुर्याद्यथादिष्ट यथाकथितमनन्तज्ञानिभिः। कथं कथितमित्याह- "उगवीसं च / इत्यादि गाथा। एकोनविंशतिमुहूर्ता एकस्य च मुहूर्तस्य त्रिचत्वारिंशत्द्वाषष्टिभागा एकस्य च द्वाषष्टिभागस्य त्रयस्त्रिंशच्चूर्णिकाभागाः 6 / 43 / 33 // एतदेतावत्प्रमाणं पुष्यशोधनकम्। कथमेतावतः पुष्यशोधनकस्योत्पत्तिरिति चेत?। उच्यते इह पाश्चात्ययुगपरिसमाप्तौ पुष्यस्य त्रयोविंशतिसप्तषष्टिभागा गताः, चतुश्चत्वारिंशदवतिष्ठन्ते, ततस्ते मुहूर्तानयनाथ त्रिंशता गुण्यन्ते, जातानि त्रयोदश शतानि विंशत्यधिकानि 1320, तेषां सप्तषष्ट्या भागो हियते, लब्धा एकोनविंशतिर्मुहूर्ताः 16, शेषास्तिठन्ति सप्तचत्वारिंशत् 47, सा द्वाषष्टिभागाऽऽनयनाथ द्वाषष्ट्या गुण्यते, जातान्येकोनत्रिंशत्शतानि चतुर्दशोत्तराणि २६१४,तत एतेषां सप्तषष्ट्या भागो हियते, लब्धास्त्रिचत्वारिंशत् द्वाषष्टिभागाः एकस्य चद्वाषष्टिभागस्य त्रयस्त्रिंशत् सप्तषष्टिभागा इति। (उगुयालसयमित्यादि) एकोनचत्वारिशमेकोनचत्वारिंशदधिकं मुहूर्त्तशतमुत्तरफाल्गुनीपर्यन्तानां नक्षत्राणां शोध्यं 136, द्वे शते एकोनषष्ट्यधिके विशाखापर्यन्तेषु शोध्ये 256, चत्वारि मुहूर्तशतानि नवोत्तराणि उत्तराषाढानामुत्तराषाढापर्यन्तानां नक्षत्राणां शोध्यानि 406, (सव्वत्थेत्यादि) एतेषु सर्वेष्वपि शोधनेषु यत्पुष्यस्य मुहूर्तेभ्यः शेषं त्रिचत्वारिंशतमुहूर्तस्य द्वाषष्टिभागाः, एकस्य च द्वाषष्टिभागस्य त्रयस्त्रिंशत्सप्तषष्टिभागा इति तत्प्रत्येक शोधनीयम्, तथा अभिजितश्चत्वारि मुहूर्त्तशतानि एकोनविंशान्येकोनविंशत्यधिकानिषवाषष्टिभागा मुहूर्तस्यैकस्य च द्वाषष्टिभागस्य द्वात्रिंशच्चूर्णिका भागाः सप्तषष्टिभागा इति शोध्यम् / एतावता पुष्यादीन्यभिजिदन्तानि नक्षत्राणि शुद्ध्यन्तीति भावार्थः। तथा (उगुणत्तरेत्यादि) एकोनसप्तानि एकोनसप्तत्यधिकानि पश मुहूर्तशतानि उत्तरभद्रपदानामुत्तरभद्रपदान्ताना शोध्यानि 566, तथा सप्तशतान्येकोनविंशत्यधिकानि 716, रोहिणीपर्यन्तानां शोध्यानि पुनर्वसुपर्यन्ते अष्टौ शतानि नवोत्तराणि 806 शोध्यानि। (अट्ठसएत्यादि) अष्टौ शतान्येकोनविंशानिएकोनविंशत्यधिकानि मुहूर्तानामेकस्य च मुहूर्तस्य चतुर्विशतिद्वाषष्टिभागा एकस्य च द्वाषष्टिभागस्य षट्षष्टिसप्तषष्टिभागा इति पुष्यस्य शोधनकमेतावता परिपूर्णमेको नक्षत्रपर्यायः शुद्ध्यतीति तात्पर्यार्थः / एष करणगाथाऽक्षरार्थः। संप्रति करणभावना क्रियते-तत्र कोऽपि पृच्छते-प्रथमं पर्व कस्मिन् सूर्यनक्षत्रे परिसमाप्तिमुपैति?; तत्र ध्रुवराशिस्त्रयस्त्रिंशन्मुहूर्ता एकस्य च मुहूर्तस्य द्वाषष्टिभागानेकस्य च द्वाषष्टिभागस्य चतुस्त्रिंशत्सप्तषष्टि-भागा इत्येवरूपो ध्रियते 3312 // 34 // धृत्वा चैकेन गुण्यते-"एकेन गुणितं तदेव भवति।" ततः पुष्यशोधनकमेकोनविंशतिर्मुहूर्ताः, एकस्य च मुहूर्तस्य त्रिचत्वारिंशवाषष्टिभागा एकस्य च द्वाषष्टिभागस्य त्रयस्त्रिंशत्सप्तषष्टिभागा इत्येवंप्रमाणं शोध्यते, ततः स्थितास्त्रयोदश मुहूर्ता एकस्य च मुहूर्तस्य एकविंशतिषष्टिभागा एकस्य च द्वाषष्टिभागस्य एकः सप्तषष्टिभागः 13 / 21 / 1 / तत आगतमेतावदश्लेषानक्षत्रस्य सूर्यो भुक्त्वा प्रथम पर्व श्रावणमासभाव्यमावास्यालक्षणं परिसमापयतीति द्वितीयपर्व चिन्तायाम् स एव ध्रुवराशिः।३३।२।३४॥ द्वाभ्यां गुण्यते जाताः षट्षष्टिमुहूर्ताः, एकस्य च मुहूर्तस्य पञ्चद्वाषष्टिभागाः एकस्य च द्वाषष्टिभागस्य एकसप्तषष्टिभागाः६६५।१। एतस्माद्यथोदितप्रमाणं 16431331 पुष्यशोधनं शोध्यते, स्थिताः पश्चात्षट्चत्वारिंशन्मुहूर्ताः त्रयोविशतिद्वाषष्टिभागाः मुहूर्तस्य, एकस्य च द्वाषष्टिभागस्य पञ्चत्रिंशत्सप्तषष्टिकभागाः 46 / 23 / 35 / ततः पञ्चदशभिर्मुहूर्तरश्लेषा शुद्धा त्रिंशता मद्याः, स्थितः पश्चादेको मुहूर्तः, तत आगतं द्वितीय पर्व पूर्वफाल्गुननिक्षत्रस्यैकं मुहूर्तमेकस्य च मुहूर्तस्य त्रयोविंशतिषिष्टिभागानेकस्य च द्वाषष्टिभागस्य पञ्चत्रिशतं सप्तषष्टिभागान् भुक्त्वा सूर्यः परिसमाप्ति नयति, तृतीयपर्वचिन्तायां स एव ध्रुवराशिः 33 / 2 / 34 / त्रिभिर्गुण्यते जाता नवनवतिमुहूर्ताः, एकस्य च मुहूर्तस्य सप्तद्वाषष्टिभागाः, एकस्य च द्वाषष्टिभागस्य पञ्चत्रिंशत्सप्तषष्टिभागाः 667 / 35 // एतस्मात्पुष्यशोधनं 16 // 43 / 3 / शोध्यते, स्थिताः पश्चादेकोनसप्ततिमुहूर्ताः, एकस्य च मुहूर्तस्य षड्रिंशतिद्वाषष्टिभागाः, एकस्य च द्वाषष्टिभागस्य द्वौ सप्तषष्टिभागौ 66 / 26 / 2 / ततः पञ्चदशभिर्मुहूर्ते रश्लेषा त्रिंशता मघा त्रिंशता पूर्वफाल्गुनी स्थिताः, पश्चाचत्वारो मुहूर्त्ता आगतंतृतीयं पर्व भाद्रपदामावास्यारूपमुत्तरफाल्गुनीनक्षत्रस्य चतुरो मुहूर्तानेकस्य च मुहूर्तस्य षड्शितिद्वाषष्टिभागान्, एकस्य च वाषष्टिभागस्य द्वौ सप्तषष्टिभागौ भुक्त्वा सूर्यः परिसमापयति। एवं शेषपर्वस्वपि सूर्यनक्षत्राणि वेदितव्यानि। तत्र युगपूर्वार्द्धभाविद्वाषष्टिपर्वगतसूर्यनक्षत्रसूचिका इमाः पूर्वाऽऽचार्योपदर्शिता। गाथाःसप्प भग अजमदुग, हत्थो चित्ता विसाह मित्तो य।