________________ पव्व 503 - अभिधानराजेन्द्रः - भाग 5 पव्व ष्ठन्ति त्रीणि, तानि रूपयुतानि क्रियन्ते, जातानि चत्वारि, यौ च द्वौ लब्धौ, ताभ्या द्वे अयने दक्षिणायनोत्तरायणरूपे शुद्धे, तत आगतं तृतीये अयने दक्षिणायनरूपे सर्वाभ्यान्तरमण्डलमादिं कृत्वा चतुर्थे मण्डले पशविंशतितम पर्व परिसमाप्तमिति चतुर्विंशत्यधिकशततमपर्वजिज्ञासायां चतुर्विशत्यधिकं शतस्थाप्यते, तत्पञ्चदशभिर्गुण्यते, जातान्यष्टादश शतानि षष्ट्यधिकानि 1860, चतुर्विशत्यधिके पर्वशतेच त्रिंशदवमरत्रा भूता इति त्रिंशत्पात्यते, जातानि पश्चादष्टादशशतानि त्रिंशदधिकानि 1830, तानि रूपयुतानि क्रियन्ते, जातान्यष्टादश शतान्येकत्रिशदधिकानि 1831 / तेषां त्र्यशीत्यधिकेन शतेन भागे हृते लब्धानि दशायनानि, पश्चादवतिष्ठते एकः, दशमं च अयनं युगपर्यन्ते उत्तरायणं, तर आगतमुत्तरायणपर्यन्ते सर्वाभ्यन्तरे मण्डले चतुर्विशत्यधिकशततम पर्व समाप्तमिति। संप्रति किं पर्व कस्मिन् सूर्यनक्षत्रे समाप्तिमधिगच्छति एतन्नि-रूपणार्थ रात्पूर्वाऽऽचार्यैः करणमुक्तं तदुपदर्श्यते"चउवीससयं काऊ-ण पमाणं पज्जए यपंच फलं। इच्छापव्वेहिँ गुण काऊण पज्जया लद्धा / / 1 / / अट्ठार स य सएहिं, तीसेहिं सेसगम्मि गुणियम्मि। सत्तावीससएसुं, अट्ठावीसेसु पुस्सम्मि।।२।। सत्तट्ठ विसठ्ठीणं, सव्वग्गेणं तओ उजं सेसं। तं रिक्ख सूरस्स उ, जत्थ समत्तं हवइ पव्वं / / 3 / / एतासां तिसृणा गाथानां क्रमेण व्याख्या-त्रैराशिकविधौ चतुर्विशत्य- 1 धिकशतं प्रमाणं प्रमाणराशिं कृत्वा पञ्च पर्यायान फलं कुर्यात्कृत्वा च ईप्सितैः पर्वभिर्गुणं गुणकारं विदध्यात्, विधाय चाऽऽद्येन राशिना चतुर्विशत्यधिकशतरूपेण भागो हर्त्तव्यो, भागे हृते यल्लब्धं ते पर्यायाः शुद्धाः ज्ञातव्याः यत्पुनः शेषमवतिष्ठते तदष्टादशभिः शतैः त्रिंशदधिकैगुण्यते. गुणिते च तस्मिन् सप्तविंशतिशतेषु अष्टाविंशत्यधिकेषु शुद्धेषु पुष्यः शुद्ध्यति, तस्मिन् शुद्ध सप्तषष्टिसंख्याया द्वाषष्टयः, तासां सर्वाग्रेण यद्भवति / किमुक्तं भवति? - सप्तषष्ट्या द्वाषष्टौ गुणितायां यद्भवति तेन भागे हृते यल्लब्धतावन्ति नक्षत्राणि शुद्धानि द्रष्टव्यानि, यत्पुनस्ततोऽपि भागहरणादपि शेषमवतिष्ठते तदृक्ष सूर्यस्य संबन्धि द्रष्टव्यं यत्र विवक्षित पर्व समाप्तमिति / एष करणगाथात्रयाक्षरार्थः। भावना त्वियम्-यदि चतुर्विशत्यधिकेन पर्वशतेन पञ्चसूर्यनक्षत्रपर्याया लभ्यन्ते, तत एकेन पर्वणा किंलभामहे?। राशियस्थापना-१२४।५।१। अत्रान्त्येन राशिना मध्यराशिर्गुण्यते, जातस्तावानेव पञ्चकरूपः, तस्याऽऽद्येन राशिनो चतुविंशत्यधिकेन शतेन भागहरणं, स च स्तोकत्वादागंन प्रयच्छति, ततो नक्षत्राऽऽनयनार्थम् अष्टादशभिः शतैस्त्रिंशदधिकैः सप्तपष्टिभागैर्गुणयिष्याम इति गुणकारच्छेदराश्योरर्द्धनाऽपवर्तना, जातो गुणकारराशिनवशतानि पञ्चदशोत्तराणि 615 / छेदराशिषिष्टिः 62 / तत्र पञ्च नवभिः शतैः पञ्चदशोत्तरैर्गुण्यन्ते, जातानि पञ्चचत्वारिंशच्छतानि पञ्चसप्तत्यधिकानि 4575 / पुष्यस्य च चतुश्चत्वारिंशद्भागा द्वाषष्ट्या गुण्यन्ते, जातानि सप्तविंश तिशतानि अष्टाविंशत्यधिकानि 2728 / एतानिपूर्वराशेः शोध्यन्ते, स्थितानिपश्चादष्टादशशतानि सप्तचत्वारिंशदधिकानि 1847 / तत्र च्छेदराशिःषष्टिरूपः सप्तषष्ट्या गुण्यते, जातानि एकचत्वारिंशच्छतानि चतुःपञ्चाशदधिकानि 4154, तैर्भागो हियते तत्र राशेः स्तोकत्वाद्भागो न लभ्यते, ततो दिवसा आनेतव्याः,तत्र छेदराशिभषष्टिरूपः परिपूर्ण नक्षत्राऽऽनयनाथ हि द्वाषष्टिसप्तषष्ट्या गुणितः, परिपूर्ण च नक्षत्रमिदानीं नाऽऽयाति, ततो मूल एव द्वाषष्टिरूपच्छेदराशिः केवल पञ्चभिः सप्तषष्टिभागैरहोरात्रो भवति, ततो दिवसाऽऽनयनाय द्वाषष्टिः पञ्चभिर्गुण्यते, जातानि त्रीणि शतानि दशोत्तराणि 310, तैर्भागो हियते, लब्धाः पञ्च दिवसाः शेषास्तिष्ठन्ति द्वे शते सप्तनवत्यधिके 267. ते मुहूर्ताऽऽनयनार्थ त्रिंशता गुण्यन्ते, तत्र गुणकारच्छेदराश्योः शून्येनाऽपवर्तना, जातो गुणकारराशिरिषकरूपश्छेदराशिरेकत्रिंशत् तत्रिकेनोपरितनो राशिर्गुण्यते, जातान्यष्टौ शतान्येकनवत्यधिकानि 861, तेषामेकत्रिंशता भागो हियते, लब्धा अष्टाविंशतिमुहूर्ताः 28, एकस्य च मुहूर्त्तस्य त्रयोविंशतिरेकत्रिंशद्भागाः २३३१,आगतं प्रथम पर्व अश्लेषानक्षत्रस्य पञ्चदिवसायकस्य च दिवसस्याष्टाविंशतिमुहूर्तानेकस्य च मुहूर्तस्य त्रयोविंशतिमेकत्रिंशद्भागान् भुक्त्वा समाप्तम् / अथ वापुष्ये शुद्धे यानि स्थितानि पश्चादष्टादशशतानि सप्तचत्वारिंशदधिकानि 1847, तानि सूर्यमुहूर्ताऽऽनयनाय त्रिंशता गुण्यन्ते जातानि पञ्च-पञ्चाशत्सहस्राणि चत्वारि शतानि दशोत्तराणि 55410, तेषां प्रागुक्तेन छेदराशिना 4154. भागो हियते लब्धास्त्रयोदश मुहूर्ताः 13, शेषाणि तिष्ठन्ति चतुर्दशशतान्यष्टोत्तराणि 1408, ततोऽमूनि द्वाषष्टिभागाऽऽनयनार्थ द्वाषष्ट्या गुणयितव्यानि गुणकारच्छेदराश्योः द्वाषष्ट्याऽपवर्तना, तत्र गुणकारराशिरेककरूपः छेदराशिसप्तषष्टिरूपः, तत्र एकेन गुणितो राशिस्तावानेनजातः 1408 तस्य सप्तषष्ट्या भागो हियते, लब्धा एकविंशतिः 21 द्वाषष्टिभागा मुहूर्तस्य,एकस्य च द्वाषष्टिभागस्य एकसप्तषष्टिभागः, तत आगतं युगस्याऽऽदौ प्रथमं पर्व, अमावास्यालक्षणमश्लेषानक्षत्रस्य त्रयोदशमुहूर्तस्य एकविंशतिद्वाषष्टिभागानेकस्य च द्वाषष्टिभागस्य एक सप्तषष्टिभाग भुक्त्वा सूर्यः समायाति। तथा च वक्ष्यति-"ता एएसिणं पंचण्ह संवच्छराणं पढम अमावासं चंदे केणं नक्खत्तेणंजोएइ? ता असिलेसाणं एके मुहत्ते चत्तालीसं वावट्ठिभागा मुहत्तस्स वावट्ठिभागं च सत्तट्ठिहा छित्ता छावर्द्वि चुण्णिआ सेसा तं समयं च णं सूरे केणं नक्खत्तेणं जोएइ? ता असिलेसाहिं चेव असिलेसाणं एक्को मुहत्तो चत्तालीसं वा वविभागा मुहत्तस्स वावट्ठिभागं च सत्तट्टिहाछेत्ता छायट्टि चुणिया सेसा।" इति। तथा यदि चतुर्विशत्यधिकेन पर्वशतेन पञ्च सूर्यनक्षत्रपर्यायालभ्यन्ते ततो द्वाभ्या पर्वभ्या किलभामहे? राशियस्थापना।१३४।५।२। अत्रान्त्येन राशिना द्विकलक्षणेन मध्यराशिः पञ्चकरूपो गुण्यते, जाता दश 10, तेषामाद्येन राशिना भागहरण ते च स्तोकत्वाद्धार्ग न प्रयच्छन्ति, ततो नक्षत्रोऽऽनयनार्थमष्टादशभिः शतैस्त्रिंशदविकैर्गुणयितव्या इति गुणकारच्छेदराश्यारद्धेनापवर्तना जातो गुणकारराशिनवशतानि पञ्चदशोतराणि 615 / छैदराशिौषष्टिः 62, तत्र नवभिः शतैः पञ्चदशोत्तरेर्दश गुण्यन्ते, जातानि एकनवतिशतानि पञ्चाशतुत्तराणि 6150,