________________ पव्व 802 - अभिधानराजेन्द्रः - भाग 5 पव्व तत्संग्राहिकाश्चेमाः पूर्वाऽऽचार्यप्रदर्शिताः पञ्च गाथाः“सप्प धणिट्ठा अञ्जम, अभिवुड्डी चित्त आस इंदग्गी। रोहिणि जिट्टा मिगसिर, विस्सादिति सवण पिउदेवा / / 1 / / अज अज्जम अभिवुड्डी, चित्ता आसो तहा विसाहो उ। रोहिणि मूलो अद्दा, वीस पुस्सो धणिवा य / / 2 / / भग अज अज्जम पूसो, साई अग्गी य मित्तदेवा य। रोहिणि पुख्वासाढा, पुणव्वसू वीसदेवा य॥३|| अहि वसु भगाभिवुड्डी, हत्थऽस्स विसाह कत्तिया जिट्ठा। सोमाऽऽउरवी सवणो, पिउ वरुण भगोऽभिवड्डी य // 4 // चित्ताऽसविसाहऽग्गी, मूलो अद्दा य विस्स पुस्सो अ। एए जुगपुव्वद्धे, विसट्ठिपवेसु नक्खत्ता / / 5 / / एतासां व्याख्या-प्रथमस्य पर्वणः समाप्तौ सर्पाः सर्पदेवतोपलक्षित नक्षत्रम् अश्लेषानक्षत्रम् १द्वितीयस्य धनिष्ठा 2, तृतीयस्थार्यमा अर्थमदेवतोपलक्षिता उत्तरफाल्गुन्यः 3, चतुर्थस्याभिवृद्धिदेवतोपलक्षिता उत्तरभद्र पदा४, पञ्चमस्य चित्रा 5, षष्ठस्याऽश्वः अश्वदेवतोपलक्षिता अश्विनी 6, सप्तमस्य इन्द्राग्निरिन्द्राग्निदेवतोपलक्षिता विशाखा 7, अष्टमस्य रोहिणी 8, नवमस्य ज्येष्ठाह, दशमस्य मृगशिरम् 10, एकादशस्य विश्वग्देवतोपलक्षिता उत्तराषाढा 11, द्वादशस्यादितिः अदितिदेवतोपलक्षितं पुनर्वसु 12, त्रयोदशस्य श्रवणः 13, चतुर्दशस्य पितृदेवता मघा 14, पञ्चदशस्याजः अजादेवोपलक्षिता पूर्वभद्रपदा 15, षोडशास्यार्यमा अर्यमदेवतोपलक्षिता उत्तरफाल्गुन्यः१६, सप्तदशस्याभिवृद्धिरभिवृद्धिदेवतोपलक्षिता उत्तरभद्रपदा 17, अष्टादशस्य चित्रा 16, एकोनविंशतितमस्याश्वोऽश्वदेवतोपलक्षिता अश्विनी 16, विंशतितमस्य विशाखा 20, एकविंशतितमस्य रोहिणी 21, द्वाविंशतितमस्य मूलम् 22, त्रयोविंशतितमस्य आर्द्रा 23, चतुर्विंशतितमस्य विष्वग् विष्वग्देवतोपलक्षिता उत्तराषाढाः 24, पञ्चविंशतितमस्य पुष्यः 25, षइविंशतितमस्य धनिष्ठा 26, सप्तविंशतितमस्य भगो भगदेवतोपलक्षिताः पूर्वफाल्गुन्यः 27, अष्टाविंशतितमस्याऽजो अजदेवतोपलक्षिताः पूर्वभद्रपदाः 28, एकोनत्रिंशत्तमस्यार्यमा अर्यमादेवता उत्तरफाल्गुन्यः 26, त्रिशत्तमस्य पुष्यः, पुष्पदेवताका रेवती 30, एकत्रिंशत्तमस्य स्वातिः 31, द्वाविंशत्तमस्याग्निरग्निदेवतोपलक्षिता कृत्तिकाः 32, त्रयस्त्रिंशतमस्य मित्रदेवा मित्रनामा देवो यस्याः सा तथा अनुराधा इत्यर्थः 33, चतुस्त्रिंशत्तमस्य रोहिणी 34, पञ्चत्रिंशत्तमस्य पूर्वाषाढा 35, षट्त्रिंशत्तमस्य पुनर्वसुः 36, सप्तत्रिशत्तमस्य विष्वग्देवा उत्तराषाढा 37. अष्टात्रिंशत्तमस्योऽहिरहिदेवतोफ्लक्षिता अश्लेषा 38, एकोनचत्वारिंशत्तमस्य वसुर्वसुदेवोपलक्षिता धनिष्ठा 26, चत्वारिंशत्तमस्य भगो भगदेवाः पूर्वफाल्गुन्यः 40 एकचत्वारिंशत्तमस्याभिवृद्धिरभिवृद्धिदेवतोपलक्षिता उत्तरभद्रपदा 41, द्वाचत्वारिंशत्तमस्य हस्तः 42, त्रिचत्वारिंशत्तमस्थाश्वोऽश्वदेवा अश्विनी 43, चतुश्चत्वारिंशत्तमस्य विशाखा 44, पञ्चचत्वारिंशत्तमस्य कृत्तिका 45, षट्चत्वारिंशत्तमस्य ज्येष्ठाः 46, सप्तचत्वारिंशत्तमः सोमदेवोलक्षित मृगशिरोनक्षत्रम् 47, अष्टाचत्वारिंशत्तम स्याऽऽयुरायुर्देवा पूर्वाषाढाः 48, एकोनपञ्चाशत्तमस्य रवि रविनामकदेवोपलक्षितं पुनर्वसुनक्षत्रम् 46, पञ्चाशत्तमस्य श्रवणः 50. एकोनपञ्चाशत्तमस्य पिता पितृदेवा मघाः 51, द्विपञ्चाशत्तमस्य वरुणदेवोपलक्षितं शतभिषक्नक्षत्रम् 52, त्रिपञ्चाशत्तमस्य भगो भगदेवाः पूर्वफाल्गुन्यः 53, चतुःपञ्चाशत्तमस्याभिवृद्धिदेवा उत्तरभद्रपदा 54, पञ्चपञ्चाशत्तमस्यचित्रा 55, षट्पञ्चाशत्तमस्याश्योऽश्वदेवा अश्विनी 56, सप्तपशाशत्तमस्य विशाखा 57, अष्टपञ्चाशत्तमस्याग्निदेवोफ्लक्षिता कृत्तिकाः 58, एकोनषष्टित्तमस्य मूलम् 56, षष्टितमस्य आर्द्रा ६०एकषष्टितमस्य विष्वक् विष्वग्देवा उत्तराषाढाः 61, द्वाषष्टितमस्य पुष्यः 62 / एतदुपसंहारमाह-एतानि नक्षत्राणि युगस्य पूर्वार्द्ध यानि द्वाषष्टिसंख्यानि पर्वाणि तेषु क्रमेण वेदितव्यानि। एवं प्रागुक्तकरणवशादुत्तरार्द्धऽपि द्वाषष्टिसंख्येषु पर्वस्ववगन्तव्यानि। संप्रति करिगन् सूर्यमण्डले किं पव समाप्ति यातीति चिन्तायां यत्पूर्वा - ऽऽचार्यरुपदर्शित करणं तदभिधीयते"सूरस्स वि नायव्यो,सगेण अयण मंडलविभागो। अयणम्मि य जे दिवसा, रूवहिए मंडले हवइ / / 1 / / " अस्या व्याख्या- सूर्यस्याऽपि पर्वविषयो मण्डलविभागो ज्ञातव्यः द्रष्टव्यः स्वकीयेनायनेन किमुक्तं भवति?सूर्यस्य स्वकीयमयनमपेक्ष्य तस्मिस्तस्मिन्मण्डले तस्य पर्वणः परिसमाप्तिरवधारणीयेति / ताऽयने शोधिते सति ये दिवसा उद्वरिता वर्तन्ते तत्संख्ये रूपाधिके मण्डले तदीप्सितं परिसमाप्तं भवतीति वेदितव्यम्। एषा करणगाथाऽक्षरघटना। भावार्थस्त्वयम्-इह यत्पर्व कस्मिन्मण्डले समाप्तमिति ज्ञातुमिष्यते तत्संख्या ध्रियते, धृत्वा च पञ्चदशमिर्गुण्यते, गुणयित्वा च रूपाधिका क्रियते, ततः संभवतोऽवमराश्यः पात्यन्ते, ततो यदि त्र्यशीत्यधिकेन शतेन भागः पतति तर्हि भागे हृतेयल्लब्धं तान्ययनानि ज्ञातव्यानि, कवलं या पश्चादिवससंख्याऽवतिष्ठते, तदन्तिमे मण्डले विवक्षित पर्व समाप्तमित्यवसेयम् / उत्तरायणे वर्तमाने बाह्यमण्डमादिः कर्त्तव्य, दक्षिणायने च सर्वाभ्यन्तरमिति संप्रति भावना क्रियते तत्र कोऽपि पृच्छतिकस्मिन् मण्डले स्थितः सूर्यो युगे प्रथम पर्व समापयतीति? इह प्रथमपर्व पृष्टमित्येकको ध्रियते, स पञ्चदशभिर्गुण्यते,जाताः पञ्चदश अत्रैकोऽप्यवमरात्रो न संभवतीति तत् किमपि पात्यते, तेच पञ्चदश रूपाधिकाः क्रियन्ते, जाताः षोडश युगाऽऽदौ च प्रथमं पर्व दक्षिणायने तत् आगतं सर्वाभ्यन्तरमण्डलमादिं कृत्वा षोडशमण्डले प्रथम पर्व परिसमातामति / तथाऽपरः पृच्छतिचतुर्थं पर्व कस्मिन् मण्डले परिसमाप्नोतीति तत्र चतुष्को ध्रियते, धृत्वा च पञ्चदशभिर्गुण्यते, जाता षष्टिः, अत्रैकोऽवमरात्रः संभवतीत्येकः पात्यते, जाता एकोनपष्टिः 56 / सा भूयोऽप्येकरूपयुता क्रियते, जाता षष्टिः, आगतं सर्वाभ्यन्तरमण्डलमादिं कृत्वा षष्टितमे मण्डले चतुर्थ पर्व समाप्तमिति। तथा पञ्चविंशतितमपर्वजिज्ञासायां पञ्चविंशतिः स्थाप्यते, सा पञ्चदशभिर्गुण्यते, जातानि त्रीणि शतानि पञ्चसप्तत्यधिकानि 375 / अत्र षडवमरात्रा जाता इति षट् शोध्यन्ते,जातानि त्रीणि शतानि एकोनसप्तत्यधिकानि 366, तेषां त्र्यशीत्यधिकेन शतेन भागो व्हियते, लब्धौ पश्वात्ति