________________ पव्व 501 - अभिधानराजेन्द्रः - भाग 5 पव्व द्वादशे अयने त्रयोदशे मण्डले त्रयोदशस्य मण्डस्य सप्तचत्वारिंशति सप्तषष्टिभागेष्वेकस्य च सप्तषष्टिभागस्य षट्सु एकत्रिंशद्भागेषु द्वादशंपर्व, चतुर्दशे अयने प्रथम मण्डले प्रथमस्य च मण्डलस्याष्टाविंशत्सप्तषष्टिभागेष्वेकस्य च सप्तषष्टिभागस्य पञ्चदशस्वेकत्रिंशद्भागेषु त्रयोदशं पर्व, पञ्चदशे अयने द्वितीये मण्डले द्वितीयस्य मण्डलस्य द्वाचत्वारिंशति सप्टषष्टिभागेष्वेकस्य च सप्तषष्टिभागस्य चतुर्विंशतौ एकत्रिंशद्भागेषु चतुर्दश पर्व, षोडशे अयने तृतीये मण्डले तृतीयस्य मण्डलस्य सप्तचत्वारिंशति सप्तषष्टिभागेष्वेकस्य च सप्तषष्टिभागस्य द्वयोरेकत्रिंशद्भागयोः पञ्चदशंपर्व, सप्तदशे अयने चतुर्थे मण्डले चतुर्थस्य मण्डलस्य एकपञ्चाशति सप्तषष्टिभागेष्वेकस्य च सप्तषष्टिभागस्य एकादशस्वेकत्रिंशद्भागेषु / एवं शेषेष्वपि पर्वस्वयनमण्डलप्रस्तारो भावनीयः। ग्रन्थगौरवभयात्तु न लिख्यते। अथ किं पर्व कस्मिन् चन्द्रनक्षत्रयोगे परिसमाप्तिमुपयातीति चिन्तायां पूर्वाऽऽचार्यः करणमुपदर्शितम्। संप्रति तदप्युदर्शाते"चउदीससय काऊ-ण पमाणं सत्तसट्ठिमेव फलं। इच्छापब्वेहिँ गुणं, काऊण पञ्जया लद्धा / / 1 / / अट्ठार सहिँ सएहिं, तीसेहिं सेसगम्मि गुणियम्मि। तेरस विउत्तरेहिं सएहिँ अभिइम्मि सुद्धम्मि।।२।। सत्तट्ठिविसट्टीणं, सव्वग्गेण तओ उजं सेसं। तं रिक्खं नायव्यं, जत्थ समत्तं हवइ पव्वं // 3 // " त्रैराशि कविधौ चतुर्विशत्यधिक शतं प्रमाण प्रमाणराशिं कृत्वा सप्तषष्टिरूपं फलं फलराशिं कुर्यात्, कृत्वा च ईप्सितैः पर्वभिर्गुणकारं विदध्यात्, विधाय चाऽऽद्येन राशिना चतुर्विशत्यधिकशतेन भागे हृते यल्लभ्यते पर्याया ज्ञातव्याः, यत्पुनः शेषमवतिष्ठते तदष्टादशभिः शतैः त्रिंशदधिकः संगुण्यते, संगुणिते च तस्मिन् ततस्त्रयोदशभिः शतैर्युत्तरै-- रभिजित् शोधनीयः, अभिजिभोग्यानामेकविंशतेः सप्तषष्टिभागानां द्वाषष्ट्या गुणने एतावत्शोधनकस्य लभ्यमानत्वात् ततस्तस्मिन् शोधने सप्तषष्टिसंख्याया द्वाषष्ट्यस्तासां सर्वाग्रेण यद्भवति। किमुक्तं भवति?सप्तषष्ट्या द्वाषष्टौ गुणितायां यद्भवति तेन भागे हृतेयल्लब्धंतावन्ति नक्षत्राणि शुद्धानि, यत्पुनस्ततोऽपि भागहारणादपि शेषमवतिष्ठते तादृशं नक्षत्र ज्ञातव्यं यत्र विवक्षितं पर्व समाप्तमिति। एष करणगाथात्रयाक्षरार्थः / भावना त्वियम्यदि चतुर्विशत्यधिकेन पर्वशतेन सप्तषष्टिपर्याया लभ्यन्ते, तत एकेन पर्वणा किं लभामहे?| राशित्रयस्थापना-१२४।६७ ।१अत्र चतुर्विशत्यधिकशतरूपो राशिः प्रमाणभूतः, सप्तषष्टिरूपं फलं, तत्रान्त्येन राशिना मध्यराशि ण्यते, जातस्तावानेव / तस्याऽऽद्येन राशिना चतुर्विशत्यधिकेन शतेन भागहरणम्, स च स्तोकत्वाद्भागं न प्रयच्छति, ततो नक्षत्राऽऽनयनार्थमष्टादशभिः शतैस्त्रिंशदधिकैः सप्तषष्टिभागरूपैर्गुणयिष्यामः / इति गुणकारच्छेदराश्योरर्द्धनापवर्त्तना, जातो गुणकारराशिनवशतानि पञ्चदशोत्तराणि 615, छेदराशिषिष्टिः 62 // तत्र सप्तषष्टिर्नवशतैः पञ्चदशोत्तरैर्गुण्यते, जातान्येकषष्टिसहस्राणि त्रीणि शतानि पञ्चोत्तराणि 61305 / एतस्मादभिजितस्त्रयोदश शतानि द्व्युत्तराणि शुद्धानि स्थितानि, शेषाणि षष्टिसहस्राणि व्युत्तराणि 60003 / तत्र छेदराशि षिष्टिरूपः सप्तषष्ट्या गुण्यते, जातान्येकचत्वारिंशच्छतानि चतुःपञ्चाशदधिकानि 4154, तैर्भागो हियते लब्धाश्चतुर्दश 14 / तेन श्रवणाऽऽदीनि पुष्यपर्यन्तानि चतुर्दश नक्षत्राणि शुद्धानि, शेषाणि तिष्ठन्ति अष्टादश शतानि सप्तचत्वारिंशदधिकानि 1847 / एतानि मुहूर्ताऽऽनयनार्थ त्रिंशता गुण्यन्ते, जातानि पञ्चपञ्चाशत्सहस्त्राणि चत्वारि शतानि दशोत्तराणि 55410, तेषां भागे हृते लब्धास्त्रयोदश मुहूर्ताः, शेषाणि तिष्ठन्ति चतुर्दश शतानि अष्टोत्तराणि 1408 / एतानि द्वाषष्टिभागाऽऽनयनार्थद्वाषष्ट्या गुणयितव्यानीति गुणकारच्छेदराश्यो षष्ट्याऽपवर्तना क्रियते, तत्र गुणकारराशिर्जातम् एककश्छेदराशिः सप्तषष्टिः, एकेन च गुणित उपरितनो राशिर्जातस्तावानेव ततस्तस्य सप्तषष्ट्या भागे हृते लब्धा एकविंशतिः 21 / पश्चादवतिष्ठते एकः सप्तषष्टिभागः, एकस्य च द्वाषष्टिभागस्य आगतं प्रथमं पर्व, अश्लेषयोस्त्रयोदश मुहूर्तान एकस्य च मुहूर्त्तस्य एकविंशतिषिष्टिभागान् एकस्य च द्वाषष्टिभागस्यैकसप्तषष्टिभाग भुक्त्वा समाप्तमिति। तथा यदि चतुर्विशत्यधिकेन पर्वशतेन सप्तषष्टिः पर्याया लभ्यन्ते ततो द्वाभ्यां पर्वाभ्यां किं लभामहे? राशित्रयस्थापना-१२४।६७।२। अत्रान्त्येन राशिना मध्यराशिगुण्यते, जातं चतुस्विशदधिकशतम् 134 / तस्याऽऽद्येन राशिना चतुर्विशत्यधिकशतरूपेण भागो हियते, लब्धा एको नक्षत्रपर्यायः स्थितः, शेषा दश, तत एतान् नक्षत्रानयनायाऽष्टादशभिः शतैः त्रिंशदधिकैः सप्तषष्टिभागर्गुणयिष्याम इति गुणकारच्छेदराश्योरर्द्धनापवर्तना, जातो गुणकारराशिनवशतानि पञ्चदशोत्तराणि 615 / छेदराशिषिष्टिः 6 // तत्र दश नवभिः शतैः पञ्चदशोत्तरैर्गुण्यन्ते, जातान्येकनवतिशतानि पञ्चाशदधिकानि 6150 / तेभ्यस्त्रयोदश शतानि दव्युत्तराण्यभिजितः शुद्धानि स्थितानि पश्वादष्टसप्ततिशतानि अष्टाचत्वारिंशदधिकानि 7848 / तत्र द्वाषष्टिरूपश्छेदराशिः सप्तषष्ट्या गुण्यते, जातायेकचत्वारिंशच्छतानि चतुःपञ्चाशदधिकानि 4154 / तैर्भागो हियते, लब्धमेकं श्रवणरूपं नक्षत्रं, शेषाणि तिष्ठन्ति षट्त्रिंशच्छतानि चतुर्नवत्यधिकानि 3664 / एतानि मुहू-र्ताऽऽनयनार्थं त्रिंशता गुण्यन्ते, जातमेकं लक्षं दश सहस्राणि अष्टौ शतानि विंशत्युत्तराणि 110820 / तेषां छेदराशिना भागे हृते लब्धाः षड्रिंशतिर्मुहूर्ताः 26 शेषाणि तिष्ठन्ति षोडशोत्तराणि अष्टाविंशतिशतानि 2816 / एतानि द्वाषष्टिभागाऽऽनयनार्थ द्वाषष्ट्या गुणयितव्यानि, तत्र गुणकारच्छेदराश्योषिष्ट्याऽपवर्त्तना / तत्र गुणकारराशिरेककरूपो जातश्छेदराशिः सप्तषष्टिः, तत्रैकेन उपरितनो राशिगुणिता जातस्तावानेव, तस्य सप्तषष्ट्या भागे हृते लब्धा द्वाचत्वारिंशत् द्वाषष्टिभागाः, एकस्य च द्वाषष्टिभागस्य द्वौ सप्तषष्टिभागौ, आगतं द्वितीयं पर्व, धनिष्ठानक्षत्रस्य षड्विंशतिमुहूर्तान्, एकस्य च मुहूर्तस्य द्वाचत्वारिंशतं द्वाषष्टिभागानेकस्य च द्वाषष्टिभागस्य द्वौ सप्तषष्टिभागौ मुक्त्वा समाप्तिमुपगच्छति। एवं शेषेष्वपि पर्वसु सप्तापि नक्षत्राणि भावनीयानि।