SearchBrowseAboutContactDonate
Page Preview
Page 808
Loading...
Download File
Download File
Page Text
________________ पव्व 800 - अभिधानराजेन्द्रः - भाग 5 पव्व दक्षिणायनमिति। द्वितीये अभ्यन्तरवर्तिनस्तृतीयस्य मण्डलस्येत्युक्तम्। तथा कोऽपि पृच्छतिद्वितीय पर्व कस्मिन्नयने कस्मिन् वा मण्डले समाप्तिमधिगच्छतीति ? तत्र द्वितीयं पर्व पृष्टमिति स एव प्रागुक्तो धुवराशिः समस्तोऽपि द्वाभ्यां गुण्यते, ततोजाते द्वे अयने द्वे मण्डले अष्टौ सप्तषष्टिभागा अष्टादश एकत्रिंशद्भागाः," ततोऽयनं रूपाधिकं कर्त्तव्यम।" इति वचनात् अयने रूपं प्रक्षिप्यते, मण्डलराशी चाऽयनं न शुद्ध्यति, ततो" दो य हॉति भिन्नम्मि' इति वचनात् मण्डलराशौ द्वे प्रक्षिप्येते, तत आगतं द्वितीयं पर्व तृतीये अयने चतुर्थस्य मण्डलस्य '' जुगमम्मि व गुणकारे, बहिरगे मण्डले हवइ आई।" इति वचनाद् बाह्यमण्डलाद ग्विर्तिनोऽष्टसु सप्तषष्टिभागेष्वेकस्य च सप्तषष्टिभागस्याष्टादशस्वेकत्रिंशदागेषु अतिक्रान्तेषु परिसमाप्तिमुपैति / तथा कोऽपि प्रनयतिचतुर्दशं पर्व कतिसङ्ख्येष्वयनेषु मण्डलेषु वा समाप्तिं गच्छतीति? स एव प्रागुक्तो धुवराशिः समस्तोऽपि चतुर्दशभिर्गुण्यते, जातान्ययनानि चतुर्दश मण्डलान्यपि चतुर्दश चत्वारः सप्तषष्टिभागाश्वतुर्दशभिर्गुणिता जाताः षट्पञ्चाशत् 56 नव एकत्रिंशद्भागाः चतुर्दशभिर्गुणिता जातं षड्विशत्यधिकं शतम् 126 // तत्रषड्विशत्यधिकस्य शतस्य एकविंशता भागो हियते, लब्धाः चत्वारः सप्तषष्टिभागा द्वौ चूर्णिणकाभागौ तिष्ठतः चत्वारश्च सप्तषष्टिभागा उपरितने (सप्तषष्टिभागराशी प्रक्षिप्यन्ते, जाताः षष्टिः सप्तषष्टिभागाः)६०/६७। चतुर्दशभ्यश्च मण्डलेभ्यस्त्रयोदशभिर्मण्डलैखयोदशभिश्च सप्तषष्टिभागैरयन शुद्धं, तेन सण्पियनानि चतुर्दशसङ्ख्यायुतानि क्रियन्ते, ततोऽयनं रूपाधिकं कर्तव्यमिति वचनात् भूयोऽपि तत्रैक रूपं प्रक्षिप्यते, जातानि षोडश अयनानि सप्तसटिभागाश्च चतुःपञ्चाशत्संख्यामण्डलराशाबुद्धरितास्तिष्ठन्ति, ते सप्तषष्टिभागराशी षष्टिरूपे प्रक्षिप्यन्ते, जातं चतुर्दशोत्तरं शतम् 114 / तस्य सप्तषष्ट्या भागो हियते, लब्धमेक मण्डलं पश्चादवतिष्ठते सप्तचत्वारिंशत्सप्तषष्टिभागाः, ततो" दोय होंति भिन्नम्मि" इति वचनात् मण्डलराशौ द्वे रूपे प्रक्षिप्येते, जातानित्रीणि मण्डलानि चतुर्दशभिश्वात्र गुणितं कृतं, चतुर्दशराशिश्च यद्यपि युग्मरूपस्तथाऽप्यत्र मण्डलराशेरेकमयनमधिकं प्रविष्टमिति त्रीणि मण्डलानि अभ्यन्तरमण्डलादारभ्य द्रष्टव्यानि, नत आगत चतुर्दशंपर्व, षोडशे अयने अभ्यन्तरमण्डलादारभ्य तृतीये मण्डले सप्तचत्वारिंशतिसप्तषष्टिभागेषु गतेष्वेकस्य च सप्तषष्टिभागस्यद्वयोरेकत्रिंशदा- | गयोर्गतयोः परिसमाप्नोतीति। यथा द्वाषष्टितमपर्वजिज्ञासायां स पूर्वोक्तो ध्रुवराशिौषष्ट्या गुण्यते, जातानि द्वाषष्टिरयनानि द्वाषष्टिमण्डलानि द्वे शते अष्टाचत्वारिंशदधिके सप्तषष्टिभागानां 248/558 पञ्चशतानि अष्टापञ्चाशदधिकानिएकत्रिशद्भागानाम् तेषामेकत्रिंशता भागे हृते लब्धाः परिपूर्णा अष्टादश सप्तषष्टिभागास्ते उपरितने सप्तषष्टिभागराशी प्रक्षिप्यन्ते, जाते द्वेशतेषट्षष्ट्यधिके 266 उपरिच द्वाषष्टिमण्डलानि, तेभ्यो द्विपञ्चाशता मण्डलैर्द्विपञ्चाशता च एकस्य मण्डस्य सप्तषष्टिभागैश्वत्वारि अयनानि लब्धानि, तानि अयनराशौ प्रक्षिप्यन्ते, जातानिषट्षष्टिस्यनानि 66 / पश्चादवतिष्ठन्ते नव मण्डलानि, पञ्चदश च सप्तषष्टिभागा मण्डलस्य, तत्र पञ्चदश सप्तषष्टिभागाः सप्तषष्टिभागराशिमध्ये प्रक्षिप्यन्ते, जाते द्वे शते एकाशीत्यधिक 281 / तयोः सप्तषष्ट्या भागो हियते, लब्धानि चत्वारि मण्डलानि, शेषा अवतिष्ठन्ते त्रयोदश सप्तषष्टिभागा मण्डलानि च मण्डलराशौ प्रक्षिप्यन्ते जातानि त्रयोदश मण्डलानि त्रयोदशभिर्मण्डलै खयोदशभिश्च सप्तषष्टिभागैः परिपूर्णमेकमयनं लब्धमिति तदयनराशौ प्रक्षिप्यन्ते, जातानि सप्तषष्टिरयनानि। " नत्थि निरंसम्मि रूवजुय। " इति वचनाद् अयनराशौ रूपं न प्रक्षिप्यते, केवलं " किसणमि होइ रूवं पक्खेवो " इति वचनात् मण्डलस्थाने एक रूप न्यस्यते, द्वाषष्ट्या चात्र गुणकारः कृतो द्वाषष्टिरूपश्च राशियुग्मो, यानि अपि च चत्वार्ययनानि प्रविष्टानितान्यपि युग्मरूपाणि, रूपं चात्राधिकमेक न प्रक्षिप्तमिति पञ्चममयनं तत्स्थाने द्रष्टव्यमिति बाह्यमण्डलमादिष्टव्यं, तत आगतं द्वाषष्टितमं पर्व सर्वसप्तषष्टावयनेषु परिपूर्णेषु जातेषु बाह्यमण्डले प्रथमरूपे परिसमाप्ति गतमिति / एवं सर्वाण्यपि पर्वाणि भावनीयानि। केवल विनेयजनानुग्रहाय पर्वायनप्रस्तारो लेशतो क्षरताडित उपदर्श्यतेतत्र प्रथमं पर्व द्वितीये अयने तृतीये मण्डले तृतीयस्य मण्डलस्य चतुर्दा सप्तषष्टिभागेषु एकस्य च सप्तषष्टिभागस्य नवस्वेकत्रिंशद्भागेषु गतेषु समाप्तमिति धुवराशि कृत्वा पर्वाऽऽयनमण्डलेषु प्रत्येकमेकैकं रूपं प्रक्षेप्तव्यं, भागेषु च तावत्संख्यका भागा मण्डले चायनक्षेत्रे परिपूर्णानि त्रयोदश मण्डलानि, एकस्यच मण्डलस्य त्रयोदश सप्तपष्टिभागा इत्येतावत्प्रमाणमयनक्षेत्रं शोधयित्वाऽयनं प्रक्षेप्तव्यम् / अनेन क्रमेण वक्ष्यमाणः प्रस्तारः सम्यक्परिभावनीयः / स च प्रस्तारोऽयम्- प्रथम पर्व द्वितीयेऽयने तृतीये मण्डले तृतीयस्य मण्डलस्य चतुषु सप्तषष्टिभागेषु एकस्य च सप्तषष्टिभागस्य नवस्वेकत्रिंशद्भागेषु गतेषु समाप्तं द्वितीयं पर्व, तृतीयेऽयने चतुर्थ मण्डले चतुर्थमण्डलस्याष्टासु सप्तषष्टिभागेषु एकस्य च सपषष्टिभागस्याष्टादशस्वेकत्रिंशद्भागेषु तृतीय पर्व, चतुर्थेऽयने पञ्चमे मण्डले पञ्चमस्य मण्डलस्य द्वादशसु सप्तषष्टिभागेषु एकस्य च सपषष्टिभागस्य सप्तविंशतौ एकत्रिंशद्धागेषु चतुर्थे पर्व, पञ्चमे अयने षष्ठे मण्डले षष्ठस्य मण्डलस्य सप्तदशसु सप्तषष्टिभागेषु एकस्य सप्तषष्टिभागस्य पञ्चस्वेकत्रिंशद्भागेषु पञ्चमं पर्व, षष्ठेऽयने सप्तमे मण्डले सप्तमस्य मण्डलस्य एकविंशती सप्तषष्टिभागेषु एकस्य च सप्तषष्टिभागस्य चतुर्दशस्वेकः त्रिंशद्भागेषु षष्ठं पर्व, सप्तमेऽयने अष्टमे मण्डले अष्टमस्य मण्डलस्य पञ्चविंशती सप्तषष्टिभागेषु एकस्य च सप्तषष्टिभागस्य त्रयोविंशती एकत्रिशद्भागेषु सप्तमं पर्व, अष्टमे अयने नवमे मण्डले नवमस्य मण्डलस्य त्रिंशति सप्तषष्टिभागेष्वेकस्य च सप्तषष्टिभागस्य एकस्मिन्नेकत्रिंशद्भागे अष्टम पर्व, नवमे अयने दशमे मण्डले दशमस्य मण्डलस्य चतुस्विंशतिसप्तषष्टिभागेष्वेकस्य च सप्तषष्टिभागस्य एकस्मिन्नेकत्रिंशद्भागेषु नवम पर्व, दशमे अयने एकादशे मण्डले एकादशस्यमण्डलस्याष्टाविंशतिसप्तषष्टि-भागेष्वेकस्य च सप्तषष्टिभागस्य एकोनविंशतावेकत्रिंशद्भागेषु दशमं पर्व, एकादशेऽयने द्वादशे मण्डले द्वादशस्य च मण्डलस्य वाचत्वारिंशतिसप्तषष्टिभागेषु एकस्य च सप्तषष्टिभागस्याष्टाविंशती एकत्रिंशद्भागेषु एकादशं पर्व,
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy