________________ पव्व 796 - अभिधानराजेन्द्रः - भाग 5 पव्व तत्र पर्वाणि चैवमूचुः - अट्ठमि चउद्दसी पुण्णिमा य तहऽमावसा हवइ पव्वं / मासम्मि पवछक्क, तिन्नि अपव्वाइँ पवखम्मि॥१॥ " चाउद्दसऽहमुद्दिपुण्णमासीसु त्ति " सूत्रप्रामाण्यात् / महानिशीथे तु ज्ञानपञ्चम्यपि पर्वत्वेन विश्रुता-" अट्टमिचउद्दसीसु. नाणपंचमीसु उपवास / न करेइ पच्छित्त, ..................... / " इत्यादिवचनात्। तथाऽन्यत्रच - " वीआ पंचमि अट्ठनि, एगारसि चउद्दसी पणतिहीओ एआओ सुअलिहीओ, गोअम ! गणहारिणा भणिआ॥ 1 // वीआ दुविहे धम्मे, पंचमि नाणेसु अट्टमी कम्मे एगारसि अंगाणं, चउद्दसी चउदपुव्वाणं // 2 // " एवं पञ्चपर्वी पूर्णिमाऽमावास्याभ्यां सह षट्पर्वी श प्रतिपक्षमुत्कृष्टतः स्यात् / एषु च पर्वसु कृत्यानि यथा पौषधकरणं, प्रतिपर्व तत्करणाऽऽशक्ती तु अष्टम्यादिषु नियमेना यदागमः- "सव्वेसुकालपव्वेसुपसत्थो जिणनए हवइ जोगो। अहमिचउद्दसीसु अ,निअमेण हविज पोसाहिओ" // 1 // इति / यथाशक्तिग्रहणादष्टम्यादिष्वपि पौषधकरणाऽशक्ती द्विष्प्रतिक्रमणबहुबहुतरसामायिक करणबहुसंक्षेपदेशावकाशिकव्रतस्वीकरणाऽऽदि कार्यम्। ध०२ अधि० / कौमुदीप्रभृतिषु लौकिकोत्सवतिथिषु, ज्ञा० 1 श्रु०२ अ०। प्रतिवर्षपर्वसंख्यामाह - ता पढमस्स णं चंदस्स संवच्छरस्स चउव्वीसं पव्या पण्णत्ता। दोचस्स णं चंदसंवच्छरस्स चउव्वीसं पव्या पण्णत्ता / तचस्स णं अभिवहितसंवच्छरस्स छव्वीसं पव्वा पण्णत्ता। चउत्थस्स णं चंदसंवच्छरस्स चउवीसं पव्वा पण्णत्ता / पंचमस्स णं अभिवड्डियसंवच्छरस्स छव्वीसं पव्वा पण्णत्ता। एवामेव सपुव्वावरेणं पंचसंवच्छरिए जुगे एगे चउव्वीसे पव्वसते भवतीति मक्खायं। (ता पढमस्स णं इत्यादि)' ता' इति / तत्र युगे प्रथमस्य, णमिति वाक्यालंकृती। चान्द्रस्य संवत्सरस्य चतुर्विशतिः पाणि प्रज्ञप्तानि। द्वादशमासात्मको हि चान्द्रसंवत्सरः, एकैकस्मिश्च मासे द्वे द्वे पर्वणी, ततः सर्वसंख्यया चान्द्रसंवत्सरे चतुर्विशतिपर्वाणि भवन्ति। द्वितीयस्याऽपि चान्दसंवत्सरे चतुर्विशतिपर्वाणि भवन्ति / अभिवर्द्धितसंवत्सरस्य पड़िवशतिः पर्वाणि, तस्य त्रयोदशमासाऽऽत्मकत्वात् / चतुर्थस्य चान्द्रसंवत्सरस्य चतुर्विशतिः पर्वाणि / पञ्चमस्य अभिवर्द्धितसंवत्सरस्य षड्विशतिः पर्वाणि। कारणमनन्तरमेवोक्तं, तत एवमेव उक्तेन च प्रकारेणेव (सपुव्वावरेण ति) पूर्वापरगणितमीलनेन पञ्चसांवत्सरिके युगे चतुर्विशत्यधिक पर्वशतं भवतीत्याख्यातं सर्वैरपि तीर्थकृद्धिर्मया च। इह कस्मिन्नयने करिमन्चा मण्डले किं पर्व समाप्तिमुपयातीति चिन्ताया पूर्वाऽऽचार्यः पर्वकरणगाथा अभिहिताः। ततस्ता विनेय-जनानुग्रहार्थमुपदय॑न्ते" इच्छा पटवेहिं गुण, अयणं रूवाहिअं सोज्झंच हवइ तत्तो, अयणक्खित्तं उड्डवइस्स / / 1 / / जइ अयणा सुज्झती, तइ पंचजुया उ रूवसंजुत्ता। तावइयं तं अयणं, नत्थि निरस हि रूवजुयं / / 2 / / करिणम्मि होइ रूव, पक्खेवो दो य होति भिन्नम्मि। जावइया तावइया, एते ससिमंडला होति // 3 // ओयम्मि तु गुणकारे, अभिंतरमंडले हवइ आई। जुम्मम्मि य गुणकारे, बाहिरगे मंडले आई॥४॥" आसां क्रमेण व्याख्या-यस्मिन् पर्वणि अयनमण्डलाऽऽदिविषया ज्ञातुमिच्छा, तैर्धवराशिर्गुण्यते अथ कोऽसौ ध्रुवराशिः? उच्यते- इह ध्रुवराशिप्रतिपादिकथं पूर्वाऽऽचार्योपदर्शिता गाथा-"एणं च मंडलं नण्डलस्स सत्तट्ठिभाग चत्तारि। नव चेव चुणियाओ, इगतीसकएण छेपण ॥१॥"अस्या अक्षरयोजना-एकं मण्डलमेकरयच मण्डलस्य सप्तषष्टिभागाश्चत्वारः, एकस्य च सप्तषष्टिभागस्य एकत्रिंशत्कृतेन छेदेन ये चूर्णिका भागास्तेन च एतावत्प्रमाणो ध्रुवराशिः। अयं च पर्वगतक्षेत्रादयनगतक्षेत्रापगमे शेषीभूत एकस्य चोत्पत्तिमात्रं भावयिष्यामः॥१॥ तत एवंभूतं धुवराशिमीप्सितपर्वभिर्गुणयित्वा तदनन्तरमयनं रूपाधिकं कर्त्तव्यं, तथा गुणितस्य मण्डलराशेर्यदि चन्द्रमसोऽयनक्षेत्रं भवति, शोधयन्ति च, यावत्सङ्ख्यानि चायनानि शुद्ध्यन्ति ततिभिर्युक्तानि पर्वाणि अयनानि क्रियन्ते, कृत्वा च भूयो रूपसंयुक्तानि विधेयानि। यदि पुनः परिपूर्णानि मण्डलानि शुद्ध्यन्ति राशिश्च पश्चामिलेंपो जायते तदा तदयनसंख्यातैर्निरशं सद्रूपयुक्तं नास्ति, न तत्रायनराशौ रूपं प्रक्षिप्यते इति भावः / तथा कृत्रने परिपूणे राशौ भवत्येक रूप मण्डलराशी प्रक्षेपणीयं भिन्ने खण्डे अंशसहिते राशावित्यर्थः / द्वे रूपे मण्डलराशी प्रक्षेपणीये, प्रक्षेपे च कृते सति यावान्मण्डलराशिर्भवति तावन्ति मण्डलानि तावत्तिथे ईप्सिते पर्वणि भवन्ति / तथा यदि ईप्सितेन पर्वणा ओजोरूपेण विषमलक्षणेन गुणकारो भवति, तत आदिरभ्यन्तरे मण्डले द्रष्टव्यः, युग्मे तु समे तु गुणकारे आदिर्बाह्य मण्डलेऽवरोयः / एष करणगाथासमूहाक्षरार्थः। भावना त्वियम्-कोऽपि पृच्छति-युगाऽऽदौ प्रथमं पर्व कस्मिन्नयने कस्मिन्वा मण्डले समाप्तिमुपयाति ? तत्र प्रथमं पर्व पृष्टमिति वामपार्थे पर्वसूचक एककः स्थाप्यते, ततस्तस्यां तु श्रेणिदक्षिणपार्वे एकमयनं, तस्य चानुश्रेणि एक मण्डलं तस्य च मण्डलस्याऽधस्ताचत्वारः सप्तषष्टिभागास्तेषामप्यधस्तान्नय एकत्रिंशद्भागाः / एष सर्वोऽपि राशिधुव-राशिः स ईप्सितेन एकेन पर्वणा गुण्यते, एकेन च गुणित तदेव भवतीति जातस्तावानेव राशिः।" ततोऽयन रूपाधिकं च कर्त्तव्यम्।" इति वचनादेकं रूपमयने प्रक्षिप्यते, मण्डलराशौ चायनं न शुध्यति, ततो " दो य होंति भिन्नम्मि" इति वचनात् मण्डलराशी द्वे रूपे प्रक्षिप्येते, तत आगतमिदं प्रथम पर्व द्वितीये अयने तृतीयस्य मण्डलस्य"ओयम्मि य गुणकारे, अभिंतर मण्डले हवइ आई" इति वचनात्। अभ्यन्तर-वर्तिनश्चतुर्ष सप्तषष्टिभागेषु एकस्य च सप्तषष्टिभागस्य नवस्वेकत्रिशद्भागेषु गतेषु समाप्तिमुपयातीति, अयन चेह चन्द्रायणमवसे यम् / चन्द्रायणं च युगस्याऽदौ प्रथममुत्तरायण, द्वितीयं