________________ पवयण 783 - अभिधानराजेन्द्रः - भाग 5 पवयण पवयण नक(प्रवचन) प्रोच्यतेऽनेनास्मादस्मिन् वा जीवाऽऽदयः पदार्था इति प्रवचनम् / अथवा-प्रशब्दस्याव्ययत्वेनानेकार्थद्योतकत्वात् प्रगतं जीवाऽऽदिपदार्थव्यापकं प्रशस्तमादौ वा वचनं प्रवचनम् / द्वादशाङ्गे गणिपिटके, आदित्वं चास्य विवक्षिततीर्थकरापेक्षया द्रष्टव्यम् / "नमस्तीर्थाय" इति वचनात् तीर्थकरेणाऽपि तन्नमस्करणादिति / अथवा-जीवाऽऽदितत्त्वं प्रवक्तीति व्युत्पत्तेदशाङ्गे, गणिपिटकानन्यत्वाद्वा चतुर्विधश्रमणसड्डे च / विशे०। पा० / उत्तः / पञ्चा० / आ० म० / स्था० / ज्ञा० / अनु० / व्य० / औ० / स० / नि० चूछ / प्रकर्षण परसमयायथावस्थितभूरिभेदप्रभेदैरुच्यन्ते जीवाजीवाऽऽदयः पदार्था अनेनास्मिन्निति वा प्रवचनम् / जीत० / प्रशस्तं प्रगतमवगाद वा वचनं प्रवचनं, प्रकृष्ट वा वचनं शेषाऽऽगमापेक्षया प्रवचनं सूत्रतोऽर्थतश्च / द्वादशाते. षो०१६ विव० / पं०५०। विशे०। शासने, औ० / विशे०। उत्त०। तं नागकुसुमवुद्धिं, घेत्तुं वीयाइबुद्धओ सव्वं / गंथंति पवयणट्ठा, माला इव चित्तकुसुमाणं // 1111 / / पगतं वयणं पवयणमिह सुयनाणं कहं तयं होजा? पवयणमहवा संघो, गंथंति तयणुग्गहट्ठाए।। 1112 / / ता तीर्थकरमुक्ता ज्ञानकुसुमपृष्टिं गृहीत्वा बीजाऽऽदिबुद्धयो गणधराः। यः पदादप्यनेकानि पदशतानि गृह्णाति, असौ बीजबुद्धिः, आदिशब्दात् कोष्टबुद्ध्यादिपरिग्रहः। कोष्ठकप्रक्षिप्त धान्यमिव यस्य सूत्रार्था सुश्विरमपि तिष्ठतः स कोष्ठबुद्धिः। सर्वं तीर्थकरभाषितं, चिवकुसुममालाभिव प्रवचनार्थ प्रश्नन्ति / प्रवचनशब्दार्थमेव कथयति-प्रगतं प्रधान प्रशस्तमादौ वा वचनम् , अत्र श्रुतज्ञानं द्वादशाङ्गम् , ' तत् कथं न नाम भवेद् निष्पद्यते ?' इत्येवं संप्रधारयन्तस्तदर्थ ग्रथ्नन्ति / अथवा-प्रवक्तीति प्रवचन संघः / तदनुग्रहार्थ ग्रथ्नन्ति / विशे० / आगमे, भ०। प्रवचनम् - पवयणं भंते ! पवयणं, पावयणी पवयणं? गोयमा ! अरहा ताव णियमं पावयणी। पवयणं पुण दुवालसंगे गणिपिडगे। तं जहा-आयारो०जाव दिट्ठिवाओ। प्रकर्षणोच्यते अभिधेयमनेनेति प्रवचनमागमस्तत् भदन्त ! प्रवचन प्रवचनशब्दवाच्य काक्वाऽध्येतव्यम् , उत प्रवचनी प्रवचन-प्रणेता जिनः प्रवचन ? दीर्घता च प्राकृतत्वात् / भ० 2008 उ० / सू० प्र०। विशे०। दर्शन प्रवचननिक्षेपाऽभिधानायाऽऽह नियुक्तिकृत् - निक्खेवो पवयणम्मी, चउव्विहो दुविहो य होइ दव्वम्मि। आगम नोआगमतो, नोआगमतो य सो तिविहो / / 455 / / जाणगसरीर भविए, तव्वइरित्ते कुतित्थमाईसुं। भावे दुवालसंग, गणिपिडगं होइ नायव्वं / / 456 / / निक्षेपः प्रवचने चतुर्विधो नामाऽऽदिः / तत्र नामस्थापने क्षुण्णे एवेत्यनादृत्य द्रव्यनिक्षेपमाह-द्विविधो भवति द्रव्ये विचार्ये, निक्षेप इति गम्यते। वैविध्यमेवाऽऽह-आगमतो, नोआगमतश्च। तत्राऽऽगमतो ज्ञाता, तत्र चानुपयोगवान् नोआगमतस्तुः स त्रिविधः। कथमित्याह-(जाणगसरीरभविए तव्वइरिते ति) ज्ञशरीरभव्यशरीरे प्रक्रमात्प्रवचने, तव्यतिरिक्तम् -(कुत्थिमाईसु त्ति) कुतीर्थ्यादिषु प्रवचनम् / आदिशब्दात सुतीर्थषु च। ऋषभाऽऽदिसंबन्धिषु पुस्तकाऽऽदिन्यस्त, भाष्यमाणं वा। भावे द्वादशाङ्गम-आचाराऽऽदि दृष्टिवादपर्यन्तम् / गणिन आचार्यास्तेषां पिटकमिव पिटक सर्वस्वाऽऽधारो गणिपिटकं भवति ज्ञातव्यं प्रवचनम्। नन्वेवं दृष्टिवादान्तर्गतत्वात्सकलकुदृष्टीनामपि भावप्रवचनतैव प्राप्ता / उच्यते-अस्त्येतत् , किंत्वेकपक्षावधारणपरतयाऽसदृष्टित्वाद् द्रव्यप्रवचनतैवाऽऽसामिति नोक्तदोषाऽऽपत्तिः / उत्त० 24 अ०। प्रवचनैकार्थिकानि - जमिह पगयं पसत्थं, पहाणवयणं च पवयणं तं च। सामन्न सुयनाणं, विसेसओ सुत्तमत्थो य / / 1367 / / गताऽर्था / विशे०। सूत्रार्थयोः प्रवचनेन सहकार्थता युक्ता, तयोस्तद्विषयत्वात्। सूत्रार्थी तु परस्परं विभिन्नौ / तथाहि-सूत्रं व्याख्येयम् , अर्थस्तु तद्व्याख्यान - मिति / अथवा- त्रयाणामप्येषां भिन्नार्थतैव युक्त्युपपन्ना, प्रत्येकमेकार्थिकविभागसद्भावात् , घटपटशकटवत्। अन्यथा एकार्थतायां सत्यां भेदेनैकार्थिकाऽभिधानमयुक्तम् , घटकुम्भयोरिवेति / अत्रोच्यते-इह यथा मुकुलविकसितयोः पद्मविशेषयोः संकोचविकाशरूपपर्यायभेदेऽपि कमलसामान्यरूपत्वेनाऽभेदः, तथा सूत्रार्थयोरपि प्रवचनाऽपेक्षया परस्परतवाभेदः / तथाहि-अविवृतं मुकुलतुल्यं सूत्र, तदेव विवृतं प्रबोधितं विकचकल्पमर्थः, प्रवचन तूभयमपि, यथा च तेषां कमलसंको चविकाशानामेकार्थिक विभाग उपलभ्यते, कमलम् अरविन्द पङ्कजम् इत्यादि पौकार्थिकानि, यथा मुकुलं वृन्दं संकुचितमित्यादीनि मुकुलकार्थिकानि, तथा विकचं फुल्ल विबुद्धमित्यादीनि विकसितैकार्थिकानि / तथा प्रवचनसूत्रार्थानामपि पद्ममुकुलविकसितकल्पानामेकार्थिकविभागो न विरुद्ध इति / अथवा अन्यथा व्याख्यायतेएकार्थिकानि वीण्येवाऽऽश्रित्य वक्तव्यानि / तद्यथा-प्रवचनमेकार्थिकगोचरः, तथा सूत्रमर्थश्च, शेषं पूर्ववत्। आह-यद्येवं द्वारगाथायां यदुक्तं प्रवचनकार्थिकानि इति तद् व्याहन्यते, सूत्रार्थयोरप्येकार्थिकाऽभिधानात् / नैष दोषः / प्रवचनरय सामान्यविशेषरूपतया सूत्रार्थयोरपि प्रवचनविशेषरूपत्वेन प्रवचनत्वोपपत्तेः। आह-पोवंतर्हि विभागश्चेति पृथग्द्वाराऽभिधानमनर्थकम् / तदसम्यक् / विभागश्चेति / किमुक्तं भवति ? नाविशेषेण सामान्यविशेषरूपस्य प्रवचनस्य पञ्चदशैकार्थिकानिनीति, किं तर्हि विभागश्च वक्तव्यः, विशेषगोचराऽभिधानपर्यायाणां सामान्यगोचराऽभिधानपर्यायत्वानुपपत्तेः / न हि चूतसहकाराऽऽदयो वृक्षाऽऽदिशब्दपर्याया भवन्ति, लोके तथाव्यवहाराभावादिति।