SearchBrowseAboutContactDonate
Page Preview
Page 784
Loading...
Download File
Download File
Page Text
________________ पवजा 776 - अभिधानराजेन्द्रः - भाग 5 पवज्जा बालकः सयतीनेपथ्येन परिधाप्यते, तत उच्यते-एवमायें ! त्वमपि परिधान कुर्याः / तथा भिक्षाटनसामाचारी संक्षेपेण कथयति / तत इत्वरदिक्करणम्-यावदाचार्यसकाशं नव्रजामितावदहमेव ते आचार्योsहमेव च प्रवर्तिनी, आचार्यसमीपं गतातां त्वाचार्या ज्ञातारः / ततो वक्ष्यमाणविधिना गुरुसमीपे नयनम् / एष नियुक्तिगाथा समासार्थः।। साम्प्रतमेनामेव विवरीषुर्भाष्यकारः प्रथमत रन्तस्या द्रव्याऽऽदिमिस्तुलनामाह - पेज्जादि पायरासा, सयणासणवत्थपाउरण दव्ये। दोसीण दुव्वलाणि य, सयणादि असक्कया एम्हि / / 106 / / गृहस्थावस्थायां प्रातराशा प्रथमालिका पेयाऽऽदिरूपा पेया प्रतीता, आदिशब्दान्मण्डकमोदकाऽऽदिपरिग्रहः / तथा शयनाऽऽसनवस्त्राणि शोभनानि प्रावरणानि कालोचितान्यासीरन, इदार्नी तु व्रतप्रतिपत्ती प्रथमालिकायां भक्तं (दोसीणमिति) पर्युषित भविष्यति, दुर्बलानि च शयनाऽऽदीनि शयनाऽऽसनवस्त्राणि प्रावरणानि च, एतेषां कर्तुमशक्यता, इयं द्रव्ये द्रव्यविषया प्रतिपृच्छा। पुनरपि द्रव्यविषयामेव तामाह - पडिकारा य बहुविहा, विसयमुहा आसि भे ण पुण इहि। वत्थाणि ण्हाणधूवा-विलेवणा ओसहाइं च / / 110 / / तथा (मे) भगवतीनां गृहस्थावस्थायां व्याधेः प्रतीकारा बहुविधा आसीरन्, विषयसुखानि च बहुविधानि / तथाहि-गृहस्थावस्थायां मनोज्ञानि वस्त्राणि, शरीरमनःप्रहत्तिकरं स्नान, प्राणमनोनिवृतिकरा घृणाः, शरीरसुभगानि विलेपनानि, एतेन विषयसुखानि भावितानि / तथा औषधानि गृहस्थावस्थायां नानाप्रकारसंगृहीतानि, इदानीं पुनर्न विषयसुखानि, नापि प्रतीकारा बहुविधाः, ततः परं दुष्करं व्रतमेतदिति। क्षेत्रतः प्रतिपृच्छामाह - अद्धाण दुक्ख सेजा, करेणु तमसा य वसहिओ खेत्ता। परपाएहिँ गयाणं, उसियाण य उउसुहघरेसुं / / 111 / / युष्माक सदैव परपादैर्गतानां सदैव च ऋतुसुखेषु गृहेषूषितानां प्रव्रज्याप्रतिपत्त्यनन्तरमध्वनि स्वपादाभ्यां गमने महद् दुःखं भविष्यति, शप्या वसतिः, करेणुका तथा दीपो रात्रौ न प्रज्वाल्यते, वसतयो वसनानि तमसा कष्टानि भविष्यन्ति, एषा क्षेत्रे प्रतिपृच्छा। कालत आह - आहाराउवओगो, जोग्गो जो जम्मि होइ कालम्मि। सो अन्नहा न य निसिं, अकालेऽजोग्गो य हीणो य / / 112 // योयस्मिन्काले योग्य आहाराऽऽधुपयोगः स गृहस्थावस्थायां समपद्यत, व्रतप्रतिपत्त्यनन्तरं तु स आहाराऽऽधुपयोगोऽन्यथा भवति, तथा न रात्रावाहाराऽऽधुपयोगो, न च कालेऽपि च, कदाचिदयोग्यो भवति, सोऽपि च न परिपूर्णः, किं तु हीनः / इति गतः कालः। प्रतिपृच्छामाह - सव्वस्स पुच्छणिज्जा, न य पडिकूलेन सइरमुदिताऽसि / खुड्डा वि पुच्छणिज्जा, चोयण फरुसा गिरा भावे / / 113 / / ) गृहस्थावस्थायां त्वं सर्वस्य प्रच्छनीया वर्तसे, तत्रापि न प्रतिकूलेन, तथा स्वैर स्वेच्छाया मुदिता प्रमोदवती गृहस्थावस्थायामसि भवसि / व्रतप्रतिपत्त्यनन्तरं तुक्षुल्लिकाऽपि त्वया प्रच्छनीया, तथा चोदना शिक्षणं परुषया गिरा भविष्यति। एतच्च परमदुस्सहमित्येषा भावे भावविषया प्रतिपृच्छा। जइ जेण वएण तहा, व लालिता तं तदनहा भणति। सोयादिकसायाण य, जोगाण य निग्गहो समिती॥ 114 / / या यस्मिन्वयसि, गाथायां तृतीया सप्तम्यर्थे प्राकृतत्वात्, यथा येन प्रकारेण लालिता, वाशब्दो भावविषयप्रतिपच्छाप्रकारान्तरोपदर्शने, तां तदन्यथा इदं व्यक्ति, श्रोत्रादीनामिन्द्रियाणां कषायाणां योगानां च कायप्रभृतीनां निग्रहः कर्त्तव्यः, समितयश्च ईर्यासमित्यादयः पञ्चपरिपालनीयाः। तदेवं तस्या द्रव्याऽऽदिभिस्तुलनोक्ता। संप्रति कायानां च दर्शनमाह - आलिहणसिंचणतावण-वीयणदंतधुवणादिकज्जेसु। कायाण अणुवभोगो, फासुयभोगो परिमितो वा / / 115 / / पृथिव्याः काष्ठाऽऽदिना आलिखनमुदकेन सेचनमनिना तापन वायोर्वीजनं दन्तप्रक्षालनमित्यादिकार्येषु कायानामनुपभोगः / यदि पुनः कायैः प्रयोजनमुपजायते तदा प्रासुकेन परिभोगः कर्त्तव्यः, सोऽपि च परिमित इति। संप्रति दीक्षाऽऽदिद्वारप्रतिपादनार्थमाह - अब्भुवगयाएँ लोओ, कप्पट्टगलिंगकरणदंसणया। भिक्खग्गहणं कहती, तावदहं ते दिसं तिण्णि / / 116 // पूर्वोक्तं सर्व यद्यभ्युपगतवती भवति, तदा तस्या अभ्युपगताया अभ्युपगमवत्या लोचः कर्तव्यी, यदातु निवसनविधिमुपादेष्टुमुपक्रान्तो भवति तदा कल्पस्थकस्य बालकस्य संयतीनेपथ्यपरिधापनेन निवसनस्य दर्शनं कर्त्तव्यम्। तथा भिक्षःग्रहण भिक्षाऽटनसामाचारी कथयति, वदति च यावदाचार्यसमीपं न व्रजामि तावदह ते तवं तिस्त्रो दिशः / अहमेव तवाऽऽचार्योऽहतेवोपाध्याया अद्धमेव प्रवर्तिनीति। आचार्यपादमूल गतानां त्वाचार्याः प्रमाणम्। नयनविधिमाह - माऊण एक्कियाए, संबंधीइत्थिषुरिससत्थे य। एमेव संयतीण वि, लिंगकरणें मोत्तु वितियपदं / / 117 // एकस्था मातुः, उपलक्षणमेतत्, भगिन्या वा-नयनं नालबद्धवासंबन्धिना पुरुषसार्थेन, तस्याप्यभावेऽन्येन भद्रकेन सार्थेन सह, गाथायां सप्तमी तृतीयार्थे प्राकृतत्वात् / सूत्रम्" नो कप्पइ निग्गंथीणं निग्गथं अप्प० / / 6 / / कप्यति निग्गथीणं अप्प० / / 7 / / "इत्यादिसूत्रद्वयम्। अस्याक्षरगमनिका प्राग्वत्। अत्र भाष्यकारः प्राह- ''एमेव'' इत्यादिगाथापश्वार्द्धम् / एवमेव अनेनेव प्रकारेण, संयतीनामपि संयतं प्रव्राजयन्तीनां निरवशेषं वक्तव्यम्। नवरंलिङ्गकरणे द्वितीयपद मुक्त्वा लिङ्गकरणे द्वितीयपदमधिकं वाऽऽसेवनीयमिति भावः / एतदेव दर्शयतिउटुंत निवेसंते, सइ करणादी य लज्जनासे य / तम्हा उसकडिपट्ट, गाहें ति तयं विहसिक्खं / / 11 / /
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy