SearchBrowseAboutContactDonate
Page Preview
Page 783
Loading...
Download File
Download File
Page Text
________________ पवजा 775 - अभिधानराजेन्द्रः - भाग 5 पवज्जा किं तत्कारणमत आह - कारणमेगमडवे, खंतियमादीसु मेलणा होइ। पव्वज्जमब्भुवगए, अप्पाण चउव्विहा तुलणा।। 102 / / कारणमशिवाऽऽदिलक्षणमधिकृत्य कोऽपि साधुरेकाकी जातः, कथमप्येकमडम्बे गतः। एकमडम्बं नाम यस्य निवेशस्य सर्वासु दिक्षु च नास्ति कोऽप्यन्यो ग्रामो नगरं वातस्मिन्नेकमडम्बे गतस्तत्र च संयत्यो न विद्यन्ते / अथ च तम्मिन्नेकमरुम्बे तस्य साधोर्माता भगिनी अन्या वा काचन नालसंबद्धा स्वजनाऽस्ति, कोऽप्यन्योतासां मात्रादीनां मेलापकः साधोर्भवति। सच मात्रादिकः स्त्रीजनोधर्मे कथिते अकथिते वा प्रव्रज्या प्रतिपतुमभ्युपगतः। यथा वयं प्रव्रज्या प्रतिपद्यामहे-एवं प्रव्रज्यामभ्युपगते मात्रादावशङ्कनीय स्त्रीवर्गे यतना कर्तव्या। सा चेयम्-तेन साधुना च चलनया तोस-यितव्यः। तद्यथा-द्रव्यतः, क्षेत्रतः, कालतो, भावतश्च। तत्र द्रव्यतो यदि समर्थ आहारमुपधि भेषजाऽऽदिकं चोत्पादयितं समर्थः / तथा कस्याप्येवं स्वभावो भवति यथा न शक्नोति स्थातुं प्रथमालिका विना, चतुर्थरसिकाऽऽदिकं वा पानकं न शक्रोति पातुं, ततस्तद्योग्य पानकं प्रथमालिकां वा नेतुं समर्थः। तथा कस्याप्येवं स्वभावो भवति क्षेत्रतो यदि शक्नोति पथि पादाभ्यां गन्तुमध्वनि वा यदि शक्नोति आहाराऽऽदिमुत्यादयितुं, कालतो ग्रीष्मकाले पानक, शीतकाले तत्कालप्रयोग्यमाहाराऽऽदिकं तदुत्पादयितुं समर्थः, रात्री मध्याह्ने यदि गन्तुं प्रभुर्भावतो यदि क्रोधाऽऽदीनां दहनं कर्त्त क्षमा, ज्ञानदर्शनचारित्राणि सामाचारी च ग्राहयितुमास्ते, ततो या-वदाचार्याणां प्रवर्त्तिन्या वा मूलं न प्राप्नोति तावदनया चतुर्विधया तुलनयाऽऽत्मानं तुलयित्वा यदि समर्थो जातस्ततः प्रव्राजयति। एतदेवाऽऽह - असिवाऽऽदिकारणगतो, वोच्छिन्नमडंव संजतीरहिते। कहियाकहिएँ उवट्ठिएँ, असंक इत्थीसिमा जयणा / / 103 / / अशिवाऽऽदिभिः कारणैरेकाको, व्यवच्छिन्ना ग्रामनगराऽऽदयो दिक्षु विदिक्षु च यस्मात्तस्मिन्थ्यच्छिन्ने संयतीरहिते प्रडम्बे गतस्तत्र च धर्मे कथिते अकथिते वा मात्रादयो व्रतग्रहणार्थमुपस्थितास्तासु अशङ्कासु अशङ्कनीयास्वियं वक्ष्यमाणा यतना। तामेवाऽऽह - आहारादुप्पायण, दव्वे समुइंच जाणते तीसे। जइ तरइ गंतु खेत्ते, आहारादीणि अद्धाणे ! 104 / / द्रव्ये द्रव्यतो यद्याहाराऽऽदीनाम् / आदिशब्दादुपघ्यादिपरिग्रहः / उत्पादने समर्थः। 'समुइ 'नामस्वभावः,ततस्य जानीति यथा प्रथमालिकां विना न शक्नोति चतुर्थराशिकाऽऽदिकं च पानीयं पातुं न शक्नोति, ततस्तद्योग्य पानं प्रथमालिकां चोत्पादयितुं क्षमः / तथा क्षेत्रतो यदि पथि पादाभ्यां गन्तुं तरति, अध्वनि चाऽऽहाराऽऽदिकमुत्पादयितुम्। गिम्हाइकाले पाणग, निसिगमणोमेसु वा वि जइ सत्तो। भावे कोहाइजओ, गहणे णाणे य चरणे य / / 105 / / काले ग्रीष्माऽऽदौ यदि पानकमुत्पादयितुं शक्तः / उपलक्षणमेतत्शीतकाले च प्रायोग्यं तत्संपादयितुं शक्तः / मावे यदि क्रोधाऽऽदि जयः | कर्तुं शक्यते, ज्ञाने चरणे च तस्या ग्रहणे समर्थस्तदा यावदाचार्यमूलं प्रवर्तिनीमलं च न प्राप्नोति तावदेतया चतुर्विधयाऽऽत्मानं तोलयित्वा यद्यात्मनः समर्थता मम्यते तदा प्रव्राजयति, यावत्कथासमर्थो वा प्रव्राजयति। अत्रेयं मार्गणा-यो यावत्कथं परिपालयितुं समर्थः स नियमात्प्रवाजयति, इतरस्मिस्तु भजना / तथाहि-यो यावत्कथं परिपालयितुं समर्थस्तस्य यद्याचार्यः सलब्धिकः परिपालने समर्थोऽन्यो वा स्वगणसक्तः परिपालयितुं क्षमस्ततः प्रव्रज्य तस्य समर्पयति / अथाऽऽचार्योऽन्यो वा स्वगणसक्तस्ता परिपालयितुं न समर्थस्तदा न प्रव्राजयति। इयमितरस्मिन् भजना - अब्भुञ्जयमेगयरं, पडिवञ्जिउकामों जो उ पव्वावे। गुरुगा अविजमाणे, अन्ने गणधारणसमत्वे / / 106 / / योऽभ्युद्यतमेकतरं नाम लब्धिक आर्यिकाणां परिपालने च समर्थस्तस्य मात्रादिका वनग्रहणार्थमुपस्थिताः, स यद्युद्यतविहारं मरणं या प्रतिपत्तुकामस्तर्हि यदि तस्याऽऽचार्योऽन्यो वा स्वगणसक्तः परिपालने समर्थस्तदाताः परिव्राज्य तस्य समर्पयति, समर्प चाऽभ्युद्यतविहारं मरणं वा प्रतिपद्यते। अथ नास्त्याचार्यः स्वगणसक्तो वा तासां परिपालकस्तदा अन्यस्मिन् गणधारणसमर्थे अविद्यमाने योऽभ्युद्यतमेकतरं विहारं मरण वा प्रतिपत्तुकामः प्रव्राजयति तस्य प्रायश्चित्तं चत्वारो गुरुकाः। जो वि य अलद्धिजुत्तो, पव्वावे तस्य होंति गुरुगा उ। तम्हा जो उ समत्थो, सो पव्वावेइ ताओ वा / / 107 / / योऽप्पलब्धियुक्तो न तत्प्रायोग्यमाहारयितुमीशस्तस्याऽपि प्रव्राजयतो भवन्ति चत्वारो गुरुकाः प्रायश्चित्तं, यत एवमसमर्थतायां प्रायश्चित्तं तस्माद्यः समर्थः स ता मात्रादिकाः स्त्रीः प्रव्राजयति। एवं तुलेउणऽप्पं, सा वि तुलिज्जइ उ दव्वमाईहिं। कायाण दंसणं दिक्ख सिक्ख इतरदिसा नयणं / / 108 / / एवमुक्तेन प्रकारेणाऽऽत्मानं द्रव्याऽऽदिरूपया चतुर्विधया तुलनया तोलयित्वा याऽसौ प्रव्राजनीया साऽपि द्रव्याऽऽदिभिस्तोलयितव्या / सा च तुलनाऽगे भणिष्यते / यदि तुलनायामुक्तायां सा व्रतेसर्वमह कर्तुं समर्था इति / तदा सा दीक्षणीया। सा च तुलना तस्याः कर्त्तव्या यस्याः स्वभावो न ज्ञायते / यस्याः पुनः स्वभावो ज्ञातो वर्त्तते तत्राऽऽत्मतुलनैव प्रागुक्ता कर्तव्या। अथ यदि तस्य माता भगिनी वा ततः कथं तस्याः स्वभावोन ज्ञायते? उच्यते-सलघुक एव नष्टः प्रव्रजितो वा ततः स्वभावापरिज्ञानम्। (कायाण दंसणमिति) कायानां पृथिवीकायाऽऽदीना दर्शनं कर्त्तव्यम् / यथा- एष पृथिवीकाय उच्यतेऽयमप्कायोऽयं तेंजस्काय एव वायुकायोऽयं वनस्पतिकाय एव चलनधर्मा द्वीन्द्रियाऽऽदिवसकायः / तत्र प्रथिव्याम आलिखनाऽऽदिनकर्त्तव्यमा अप्कायेन स्वमात्रसेवनादि, तेजस्कायेन प्रतापनाऽऽदि, वनस्पतिकायेन दन्तधावनाऽऽदि, उसकायस्य परितापनाऽऽदि। यदि पुनः कायैः कार्यमुपजायते तदा उत्कारणे प्रासुकेन परिमितैन कर्त्तव्यम् / एवमभ्युपगते तस्या दीक्षा दातव्या, तदनन्तरं ग्रहणशिक्षा, आसेवनाशिक्षा च शिक्षणीया। तत्र ग्रहणशिक्षासा दशबैकालिकाऽऽदिसूत्र पाठनीया। आसेवनाशिक्षायत् परिधापनाऽऽदिशिक्षा; तत्तत्र परिधापनविधिमुपदर्शयित्रुकामेन पूर्व लघु
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy