________________ पवजा 772 - अभिधानराजेन्द्रः - भाग 5 पवजा - अहमेतैरेवाध्यापितस्ततोऽत्रापि प्रतिषेधः कार्यो, न किमप्यस्माभिरध्यासित इत्यर्थः / अथवा व्यक्तव्यम्-किं त्वया अधीतम? ततोऽसौ छलितकाव्याऽऽदिकथामाकर्षेत्। तत्र वक्तव्यम्-कुत्र यत-यः, कुत्र च छलिताऽऽदि काव्यकथा ? साधवो वैराग्यमार्गस्थिताः शृङ्गारकथां न पाठयन्ति। पठामो वयमीदृशं सर्वज्ञभाषितं सूत्रम् - पुव्वावरसंजुत्तं, वेरग्गकरं सतंतमविरुद्धं / पोराणमद्धमागधभासानियतं हवति सुत्तं / / 265 / / यत्र पूर्वसूत्रनिबन्धः पाश्चात्यसूत्रेण न व्याहन्यते तत्पूर्वापरसंयुक्तं, वैराग्यकर विषयसुखवैमुख्यजनक, स्वतन्त्रेण स्वसिद्धान्तेन सहाविरुद्धं, सर्वथा सर्वकालं सर्वत्र नास्त्यस्मा इत्यादिस्वसिद्धान्तविरोधरहितमित्यर्थः। पौराणं नाम पुराणैस्तीर्थकरगणधरलक्षणैः पूर्वपुरुषैः प्रणीतम् अर्द्धमागधभाषानियतमिति प्रकटार्थम् / एवंविधमस्मदीयं सूत्रं भवति। किंच - जे सुत्तगुणा भणिया, तव्विवरीयाइँ गाहए पुट्विं / नित्थिन्नकारणेणं, सा चेव विगिचणे जयणा / / 266 / / ये सूत्रस्य गुणाः पीठिकायां भणितास्तद्विपरीतानि वर्णविकलानि सूत्राणि तंग्राहयेत्। ततो निस्तीर्णकारणेन मया पूर्व विवक्षितप्रयोजनाभावतः सैविकथापरिष्ठापने यतना भवति / एवं व्यवहारेण परिष्ठापनविधिरुक्तः। येषु व्यवहारेण न शक्यते परित्यक्तं तस्याऽयं विधिः - कावालिए सरक्खे, तव्वण्णियवेसलिंगरूवेणं / कोडुंवग पव्वइए, कायव्वॉ विहीऍ वोसिरणं // 267 / / गीतार्था हि विकर्षणाद् वृषभा उच्यन्ते, ते कापालिकसरजस्कास्तद्वर्णिकवेषग्रहणेन तं परिष्ठापयन्ति / यो वा कोम्बिको बहुस्वजन: प्रवाजितस्तस्य संबन्धिनो विधिना व्युत्सर्जन कर्त्तव्यम्। एतदेव भावयति - निववल्लहें बहुपक्खम्मि यावि तरुणवसमा इमं विति। भिन्नकहाओभट्ठा, न घडइ इह वच्च परतिव्थं // 298 // यो नृपस्य वल्लभो बहुपाक्षिको वा प्रभूतस्वजनमित्रवर्यस्तयोरयं परिष्ठापने विधिः। यदा नपुंसको रहसि तरुण भिक्षुमवभाषते, भि-नकथां वा करोति, तदा ते तरुणवृषभा इदं बुवते-इह यतीनां मध्ये ईदृशं न घटते, यदि त्वमीदृशं कर्तुकामोऽसि ततः निष्क्रमण कुरा, परतीर्थिकषु वा व्रज। ततो यदि ब्रूयात् - तुमए समगं आमं, ति निग्गओ भिक्खमाइलक्खेणं। नासति भिक्खुगमादिसु, छोडण तत्तो वि हि पलाइ / / 266 // | त्वया सममह परतीर्थकेषु गमिष्यामि-एवमुक्तः सतरुण वृषभ आममिति भणित्था निर्गच्छति, निर्गतश्च भिक्षुकादिवेषेण गत्वा तेषु भिक्षुकाऽऽदिषु प्रक्षिप्य नश्यति, यः पुनस्तत्र नाभिप्रैति, तं साधुं न मुञ्चति, तं रात्रौ सुप्तं मत्वा पलायते, भिक्षाऽऽदिलक्ष्येण चा निर्गतो नश्यति। सूत्रम् __ एवं मुंडावित्तए सिक्खावितए उवट्ठावित्तए संभुंजित्तए संवसित्तह।। 5 यथा एते पण्डकाऽऽदयः प्रव्राजयितुं न कल्पन्ते / एवमेत एव कथचिच्छलितेन प्रवाजिता अपि सन्तो मुण्डापयितुं शिरोलोचने लुश्चितुंन कल्पते / एवं शिक्षापयितुं प्रत्युपेक्षणाऽऽदिसामाचारी ग्राहयितुम्, उपस्थापयितुं महाव्रतेषु व्यवस्थापयितु, संभोक्तुमेकमण्डलीसमुद्देशाऽऽदिनाऽभ्यवहारयितु, संवासयितुमेकत्र समीपे आसयितुमिति सूत्रार्थः / अथ भाष्यम् - पव्वाविओ सिय त्ति उ, सेसं पणगं अणायरणजोग्गो। अहवा समायरंते, पुरिमपदणिवारिता दोसा॥ 300 // स पण्डकश्चेत्कदाचिदनाभोगाऽऽदिना प्रव्राजितो भवेत्। इति-शब्दः स्वरूपपरामर्शार्थः / एवं प्रवाजितोऽपि यदि पश्चात् ज्ञातस्तदा (सेसंपणगं ति) विभक्तिव्यत्ययात् शेषपञ्चकस्य मुण्डापनाऽऽदिलक्षणस्याऽऽचरणयोग्येन तदाचरणीयमिति भावः। अथलोभाऽऽद्यभिभूततया तदपि समाचरति ततः पूर्वपददोषाः पूर्वस्मिन् प्रवचनाऽऽख्यपदे ये प्रवचनापयशः प्रवादादयो दोषा उक्तास्ते अनिवारितास्तदवस्था एव मन्तव्या इति भावः। मुंडाविओ सिय त्ती, सेसचउक्कं अणायरणजोग्गो। अहवा समायरंते, पुरिमपदनिवारिया दोसा / / 301 / / अनाभोगाऽऽदिना मुण्डापितोऽपि स्यात्ततः शेषचतुर्धाऽस्य शिक्षापनादिलक्षणस्याऽऽचरणेऽयोग्यः / अथ समाचरति ततः पूर्वपददोषा अनिवारिताः। एवं तिस्त्रो गाथा वक्तव्याः। यथासिक्खाविओ सियत्ती, सेसतिगस्सा अणायरणजोग्गो। अहवा समायरंते, पुरिमपदनिवारिया दोसा / / 302 / / उवठाविओ सियत्ती, सेसदुगस्सा अणायरणजोग्गो। अहवा समायरंते, पुरिमपदनिवारिया दोसा / / 303 / / संभुंजिओ सियत्ती, संवासेउं अणायरणजोग्गो। अहवा संवासित्ते, पुरिमपदनिवारिया दोसा।। 304 / / एवं षड्विधसचित्तद्रव्यकल्पसूत्राणि क्रमेण भवन्ति / तथा चात्रामी दृष्टान्ताः - मूलातो कंदादी, उच्छुविकारा य जह रसा वीय। मिप्पिंडगोरसाण य, होति विकारा जहकमेणं / / 305 / / जह वा णिसेगमादी, गब्भे जातस्स णाममादीया / होंति कमा लोगम्मी, तह छव्विहकप्पसुत्ताओ / / 306 / / यथा मूलात् कन्दस्कन्धशाखाऽऽदयो भेदाः क्रमेण भवन्ति / इक्षविकाराश्च रसकक्काऽऽदयो यथाक्रमेण जायन्ते। मृत्पिण्डस्य वा यथा स्थासकोशकुशूलाऽऽदयो, गोरसस्य च दधिनवनीताऽऽदयो विकारा यथाक्रमेण भवन्ति / यथा वा गर्ने प्रविष्टस्य जीवस्य निषेक ओजःशुक्रपुद्गलाऽऽहरणलक्षणस्तदादयः, आदिशब्दात्कललावुदपेशीप्रभृतयः पर्याया भवन्ति, जातस्य वा तस्यैव नामाऽऽदयो नामकरणचूडाकरणप्रभृतयः क्रमाद्यथा लोके भवन्ति तथा षविधकल्पसूत्राणि यथा क्रमभाविप्रताजिताऽऽदिषविषयाणि क्रमेण भवन्ति / बृ०४ उ० / स्था०। ग०। पं० भा०। 50 चू० / नि० चू०। आव० / पं०व० / (परिष्ठापना पण्डकाऽऽदीनां परिझवणा 'शब्देऽस्मिन्नेव भागे 575 पृष्ठे विस्तरत उक्ता)