SearchBrowseAboutContactDonate
Page Preview
Page 779
Loading...
Download File
Download File
Page Text
________________ पवज्जा 771 - अभिधानराजेन्द्रः - भाग 5 पवञ्जा ऽऽदिषु स्वजनाऽऽदिबलाद्भक्तपानाऽऽदिभिस्तस्कराऽऽदिभिः रक्षणतश्वोपकरिष्यते। अवमाशिवयोर्वा प्रतितर्पिष्यति / अत्र च नानुपूर्व्या, अपितु वस्तुत्वख्यापनार्थमवमाशिषद्वारयोः पर्यन्ते व्याख्यानम्। एएहिँ कारणे हिं, आगाढेहिं तु जो उ पव्वावे। पंडाईसोलसगं, कए उ कज्जे विगिचणया / / 285 / / एतरागाद्वैः समुपस्थितैः कारणैः यः पण्डकाऽऽदिषोडशकस्यान्यतरं नपुंसक प्रव्राजयति, तेनाऽऽचार्येण कृते समापिते कार्ये तस्य नपुंसकस्य विवेचन परिष्ठापन कर्तव्यम्। तत्र प्रव्राजनायां तावद्विधिमाह - दुविहो जाणमजाणी, अजाणगं पन्नति उ इमेहिं। जणपच्चयट्ठयाए, नजंतमणजमाणे वि // 286 // 'द्वविधो नपुंसको-ज्ञायकोऽज्ञायकश्च / तत्र यो जानाति-साधूनां राशिकः प्रनाजयितुन कल्पते स ज्ञायकः, तद्विपरीतोऽज्ञायकः / तत्र ज्ञायकमुपस्थितं प्रज्ञापयन्तिभवान् दीक्षाया अ, योग्यः, ततोऽवक्तवेषधारी श्रावकधर्म प्रतिपद्यस्व, अन्यथा ज्ञानाऽऽदीनां विराधना ते भविष्यति। अज्ञायकमप्येवमेव प्रज्ञापयन्ति। अथैनां नेच्छति, प्रव्रज्यामेवाभिलषति, आत्मनश्च किश्चिदशिवाऽऽदिकं कारणमुपस्थित, ततस्तमज्ञायकं जनप्रत्ययार्थममीभिः कटीपट्टकाऽऽदिभिः प्रज्ञापयन्ति / स चाज्ञायकस्तत्र जनेन ज्ञायमानोऽज्ञायमानो वा स्यादुभयत्राप्ययं विधि: कर्तव्यःकडिपट्टए य छिहली, कत्तरिया मुंड लोय पाढे ऽय। वन्यकह सन्नि राउलववहार विगिचणा विहिणा / / 287 / / कटीपट्टकं स परिधाप्यः, छिहली शिखा तस्य शिरसि धारणीया; अथ नेच्छति ततः कर्तर्या क्षुरेण वा मुण्डन विधेयं, लोचो वा विधातव्यः / (पाढि त्ति) परतीर्थिकमताऽऽदीनि स पाठनीयः / कृते कार्ये धर्मकथा कर्तव्या येन लिङ्गपरित्यज्य गच्छति। अथैव लिङ्गं न मुञ्चति ततः संज्ञिभिः श्रावकैः प्रज्ञापनीयः / अथ राजकुलं गत्वा कथयति ततो व्यवहारोऽपि कर्त्तव्यः / एवं तस्य विगिञ्चना परिस्थापना विधिना वक्ष्यमाणनीत्या विधेया। एष द्वारगाथासमासार्थः। साम्प्रतमेनामेव विवृणोतिकडिपट्टओ अभिनवे, कीरइ छिहली य अम्ह चेवाऽऽसी। कत्तरिया मुंडं वा, अणिच्छे एक्कक्कपरिहाणी॥ 288 || कटीपट्टकोऽभिनवप्रव्रजितस्य तस्य क्रियते, नपुनरग्रावपूरकः शिरसि च छिहली शिखा घ्रियते। यदि ब्रूयात्-किं मम अग्रावपूरक, सर्वमुण्डन वा न कुरुत? ततो वृषभा भणन्ति अस्माकमपि प्रथममेवं कृतमासीत् , ततश्च मुण्डनं कर्ता कर्त्तव्यम् / अथ नेच्छति ततो क्षुरेण, क्षुरमप्यनिच्छतो लोचः कर्त्तव्यः / एवमेकैकपरिहाणिर्मन्तव्या, शेषा तु सर्वत्रापि धारणीया। छिंहलि तु अणिच्छंते, भिक्खुगमादी मतं पि णेच्छंते। परतित्थियवत्तव्यं, उक्कमदाणं ससमए वि।। 286 / / अथ शिखामपि नेच्छति ततः सर्वमुण्डनमपि विधीयते। सा च द्विविधा शिक्षाग्रहणे, आसेवन च। आसेवनाशिक्षायां क्रियाकलापमसौन ग्राह्यते। ग्रहणशिक्षायां भिक्षुकाः सौगतास्तेषामादिशब्दात्कापिलाऽऽदीनां च परतीथिकानां मतमध्याप्यत / अथ तदपि नेच्छति ततः शृङ्गारकाव्यं पाठ्यते, तदप्यनिच्छन्तं द्वादशाहै यानि परतीर्थिकवक्तव्यतानिबद्धानि सूत्राणि तानि पाठयन्ति / तान्यप्यनिच्छतः स्वसमयस्याऽऽलापका उत्क्रमेण विलुप्ता दीयन्ते। आसेवनाशिक्षायां विधिमाह - वीयारगोयरे थेरसंजुओ रत्ति दूरे तरुणाणं / गाहेण ममं पि ततो, थेरा गाहेंति जत्तेणं / / 260 / / विचारभूमि गच्छन् गोचरं वा पर्यटन स्थविरसाधुसयुक्तो हिण्डाप्यते, रात्रौ तरुणाना दूरे क्रियते, ते च साधवो न पाठयन्ति / ततो यदि ब्रूतेमामपि पाट ग्राहयत, ततः स्थविराः साधवो यत्रेन ग्राह्यन्ति। किं तदित्याह - वेरग्गकहा विसयाण जिंदणा उट्ठनिसीयणे गुत्ता। चुक्खलिए य बहुसो, सरोसमिव नोदए तरुणा।। 261 // यानि सूत्राणि वैराग्यकथायां विषयनिन्दायां च निबद्धानि तानि ग्राह्यन्ते। अथवा-बैराग्यकथा विषयनिन्दा च तस्य पुरतः कथनीया, उत्तिष्ठन्तो निषीदन्तश्च साधवो गुक्ताः संवृता भवन्ति, यथा-ऽङ्गादानं स न पश्यति, तस्य यदि सामाचार्यां चुक्कस्खलितानि भवन्ति / चुकं नाम विस्मृतं किं चित्कार्य, स्खलितं तदेव विनष्ट, ततो ये तरुणास्ते तं सरोषमिव परुषं वचोभिर्बहुशो नोदयन्ति येन तरुणेषु नानुबन्धं गच्छति। अथधर्मकथापदं व्याचष्टे - धम्मकहा पाढिजति, कयकजो वा से धम्ममक्खंति। मा हण परं पिलोगे, अणुध्वता दिक्ख नो तुज्झं / / 262 / / धर्मकथा वा सपाट्यते कृतकार्यो वा सपठ्यते, ततः कार्येण दीक्षितस्तत् समाप्यते, तस्य धर्ममारख्यान्ति, यथा मर्दितो न रजोहरणाऽऽदिलिङ्ग धारयेत् / तदभावे बोधनमपघातकरणाय त्वं वर्तसे, ततो मा परमपि लोकं हन विनाशय मुञ्च रजोहरणाऽऽदिलिङ्गम्। तवाणुव्रतीनि धारयितुं युज्यन्ते, न दीक्षा / एवं प्रज्ञापितो यदि मुञ्चति तदा लष्टम्। ___ अथ न मुञ्चति ततः - सन्नि खरकम्मिओ वा, मेसेति कतो इहेस कंचिक्को। णिदसिटे वा दिक्खितों, एतेहिंअणातें पडिसेहो। 263 / / यः खरकर्मिकः संज्ञी स पूर्वप्रज्ञाप्यते-अस्माभिः कारणैः त्रैराशिकः प्रव्राजितः, स इदानीं लिङ्गं नेच्छति परित्यक्तं ततो यूयं प्रज्ञापयत / एवमुक्तो असावागत्य गुरून् वन्दित्वा सर्वान् साधून निरीक्षते। ततः तं पण्डकं पूर्वकथितचिह्ररुपलक्ष्य भूमितलस्फालनशिर कम्पनखरदृष्टिनिरीक्षणपरुषवचनैर्भेषयति। कुत एव इह युष्माकमध्ये कश्चित्को नपुंसक इति / तं च ब्रवीति अपसर साम्प्रतमितः, अन्यथा व्यपरोपयिष्यामि भवन्तम् / एवमुक्तोऽपि यदि न मुञ्चति, खरकर्मिकस्य वा श्रावकस्याभावे यदि नृपस्य कथयतिअहमेतैर्दीक्षितः, सांप्रतं पुनः परित्यजन्ति / ततो व्यवहारेण जेतव्यः, कथमित्याह-यद्यसौ जनेनाज्ञातो दीक्षितस्ततः प्रतिषेधः क्रियते, नास्माभिर्दीक्षित इति अपलप्यत इत्यर्थः / ___ अथाऽसौ ब्रूयात् - अज्झाविओ मि एतेहिँ चेव पडिसेधों किं वऽधीयंते। छलियादिकहा ककृति, कत्थ जती कत्थ छलियाई ? || 264 / /
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy