________________ पवज्जा 770 - अभिधानराजेन्द्रः - भाग 5 पवज्जा नामनिष्पन्न निक्षेपे नियुक्तौ पञ्चकल्पे सप्रपञ्च वर्णिताः / इह पुनरित्रभिरेवाधिकारः -पण्डकेन क्लीवेन वातिकेन चेति गुरुतरा दोषदुष्टा अमी इति कृत्वा। अथ प्रव्राजनाविधिमेव तावदाह - गीयत्थे पव्वावण, गीयत्थेऽपुच्छिऊण चउगुरुगा। तम्हा गीयत्थस्स उ, कप्पइ पव्वावणा पुच्छा / / 260 // गीतार्थनव प्रव्राजना कर्त्तव्या नागीतार्थन, यद्यगीतार्थः प्रव्राजयति तदा / चतुर्गुरुकम्। गीतार्थोऽपि यदि अपृष्ट्वा पृच्छामन्तरेण प्रव्राजयति तदा तस्यापि चतुर्गुरुकाः। तस्मात् गीतार्थस्य पृच्छा शुद्धं कृत्वा प्रव्राजना कर्तुं कल्पते / पृच्छाविधिश्चायम् कोऽसि त्वं को वा ते निर्वेदो येन प्रव्रजसि? एवं पृष्ट सति - सयमेव कोइ साहति, मित्तेहिँ व पुच्छिओ उवाएणं। अहवा वि लक्खणेहिं, इमेहिँ नाउं परिहरेज्जा / / 261 / / स्वयमेव कोऽपि पण्डकः कथयति-यथा सदृशे मनुष्यत्वे ममेदृशस्त्रैराशिके वेदः समुदीर्ण इति / यद्वा-मिस्तस्य निर्वेदकारणमभिधीयते / प्रव्राजकेन वा स एवोपायपूर्व पृष्टः कथयेत् / अथवालक्षणैर्महिलास्यभावाऽऽदिभिरभिर्वक्ष्यमाणैत्विा परिहरेत्। तत्रपृच्छां तावद्भावयति - नजंतमणज्जंते, निव्वेयमसढे पढमया पुच्छे। अन्नातो पुण भन्नइ, पंडाइ न कप्पई अम्हं / / 262 / / यः प्रव्रजितुमुपस्थितः स ज्ञायमानो वा स्यादज्ञायमानो वा। ज्ञायमानो नाम-अमुकोऽमुकपुत्रोऽयं , तद्विपरीतोऽज्ञायमानः ; स यदि श्राद्धः श्रावको न भवति, ततः प्रथमतस्तं निर्वेद पृच्छेत् / यः पुनरज्ञातः स समासेन भण्यते-न कल्पते अस्माकं पण्डकाऽऽदिः प्रव्रजयितुम् / सच यदि पण्डकस्तत एवं चिन्तयति - नाओ मि त्ति पणासइ, निव्वेयं पुच्छिया व मे मित्ता। साहंति एस पंडो, सयं व पंडो त्ति निव्वेयं / / 263 / / ज्ञातोऽस्म्यहममीभिरिति मत्वा प्रणस्यति। अथवा यानितस्य मित्राणि तानि पृच्छ्यन्ते एष तरुण ईश्वरो नीरोगश्च विद्यते. ततः केन निर्वेदन प्रव्रजति? एवं पृष्टानि तानि बुवते-एष पण्डक इति।स्वयंवा सपण्डकोऽस्म्यहमिति निर्वेदं कथयति। बृ० 4 उ० / दश०। (28) अथैतेषां प्रव्राजने प्रायश्चित्तमाह - दससु विमूलायरिए, वयमाणस्स वि हंवति चउगुरुगा। सेसाणं छह वी, आयरिए वदंति चउगुरुगा / / 278| पण्डकाऽऽदीन आसिक्तांस्तान् दशापि नपुंसकान् यः प्रव्राजयति तस्याऽऽचार्यस्य दशस्वपि प्रत्येकं मूलम् / तेष्वेव दशसु यो वदति प्रव्राजयति तस्याऽपि चतुर्गुरुका भवन्ति / शेषाणां बर्द्धिताऽऽदीनां षण्णामपि च प्रतिसेकानां प्रव्राजने आचार्यस्य चतुर्गुरुकं, यो वा प्रव्राजयति तस्याऽपि चतुर्गुरुकम्। अथ शिष्यः प्रश्नयति - थीपुरिसा जह उदयं, घरेंति झाणोववासणियमेहिं। एवमपुमं पि उदयं, धरिज जति को तहिं दोसो ? / / 276 / / यथा स्त्रीपुरुषा ध्यानोपवासनियमैरुपयुक्त चोदयं धारयन्ति, एवं नपुंसकोऽपि यदि धारयेत् , ततः प्रताजिते को दोषः स्यात् ? अहवा ततिए दोसो, जायइ इयरेसु किं न सो भवति? एवं खु नत्थि दिक्खा, सवेययाणं न वा तित्थी / / 280 / / अथवा युष्माकमभिप्रायो भवेत्-तृतीये नपुंसके वेदोदये चारित्रभइलक्षणो दोषो भवेत् , ततः स उच्यते, इतरयोः स्त्रीपुरुषयोरपि वेदोदये स दोषः किं न भवति? अपिच-क्षीणमोहाऽऽदीन् मुक्त्वा शेषाः सर्वेऽपि संसारस्था जीवाः सवेदकास्तेषां च दोषदर्शनादेव भवदुक्तनीत्या नास्ति दीक्षा, तदभावाचन तीर्थनस्तीर्थस्य संत-तिर्न वेति। सूरिराह - थीपुरिसा पत्तेयं, वसंति दोसरहिएस ठाणेसु। संवासें फासदिट्ठी, इयरे वच्छंबदिट्ठतो।। 281 / / स्त्री प्रव्रजितास्त्रीणां मध्ये निवसति, पुरुषः प्रव्राजितः पुरुषमध्ये वसति / एवं तौ प्रत्येक दोषरहितेषु स्थानेषु वसतः / इतरस्तु पण्डको यदि स्त्रीणां मध्ये वसति तदा संवासे स्पर्शतो दृष्टिश्च दोषा भवन्ति / एवं पुरुषेष्वपि संवसतस्तस्य दोषा भवन्ति। वत्साऽऽम्रदृष्टान्तश्चात्र भवतियथा वत्सो मातरं दृष्ट्वा खाद्यमानं दृष्ट्वा यथा मुखं क्लिन्ति, एवं तस्य संवासाऽऽदिना वेदोदयेनाभिलाष उत्पद्यते, भुक्ताभुक्तभोगिनः साधवस्तमभिलषेयुः / यत एवमतः पण्डकौ न दीक्षणीयः / द्वितीयपदे एतैः कारणैः प्रव्राजयेदपि - असिवे ओमोयरिए, रायडुढे भए आगाढे। गेलन्ने उत्तमढे, नाणे तवदसणचरित्ते / / 282 / / स प्रवाजितः सन् अशिवमुपशमयिष्यति, अशिवगृहीतानां वा प्रतितर्पणं करिष्यति / एवमवमौदर्ये राजद्विष्टे बोधिकाऽऽदिभये वा आगाढे ग्लानत्वे उत्तमार्थे वा ज्ञाने दश्रने चारित्रे वा सहाय करिष्यति / एतैः कारणैः पण्डकं प्रव्राजयेत्। अथैनामेव गाथा व्याख्याति - रायट्ठभयेसुं, ताणट्ठ निवस्स चेव गमणट्ठा। विजो व सयं तस्स उ, तप्पिस्सति वा गिलाणस्स / / 283 // गुरुणो व अप्पणो वा, नाणादी गिण्हमाणे तप्पिहिति। चरणा देसावक्कमि, तप्पे ओमासिदेहिं वा / / 284 / / राजद्विष्ट बोधिकाऽऽदिभये च त्राणार्थ, नृपस्य वा अभिगमनार्थम् / किमुक्तं भवति? राजद्विष्ट समापतिते देशान्तरं गच्छतां तन्निस्तारणक्षम भक्तपानाऽऽद्युपष्टम्भं करिष्यति; राजवल्लभो वा स पण्डकस्ततो राजानमनुकूलयिष्यति, बोधिकाऽऽदिभये वा स बलवान् गच्छस्य परित्राणं विधास्यति / ग्लानत्वद्वारे स पण्डकः स्वयमेव वैद्यो भवति, ततो ग्लानस्य चिकित्सा करिष्यति / यद्वा-स तस्य ग्लानस्य वा वेतनभेषजाऽऽदिना प्रतितर्पिष्यति उपकरिष्यति, वाशब्दादुत्तमार्थ प्रतिपात्रस्य वा मम साहाय्यं करिष्यति, स्वयमेव वाऽसावुत्तमार्थ प्रतिपत्स्यति। तथा गुरोरात्मनो वा ज्ञानम् आदिशब्दादर्शनप्रभावकानि शास्त्राणि गृहृतोऽसौ भक्तपानाऽऽदिभिर्वस्वाऽऽदिभिश्वोपकरिष्यति / चरणात् , चारित्रं पालयितुं न शक्यते ततो देशादपक्रमणं कुर्वतां मार्गा