________________ पवज्जा 766 - अभिधानराजेन्द्रः - भाग 5 पवजा चेव मोक्रूफलया, आणा आराहिया जिणिंदाणं / संसारदुक्खफलया, तह चेव विराहिया होइ।।१॥" इति। परीक्षा तुषण्मासाऽऽदिकालमाना विनयाऽऽदिभिस्तद्योग्यतानिरूपणा / एतेषु पदेषु, हन्दीत्युपप्रदर्शने, दिशुद्धस्य निर्दोषतां गतस्य सकृत्सदा प्रयत्नेनाऽऽदरेण दातव्या देया, पव्रज्येति प्रकृतम् / गीतेन" पदैकदेशे पदसमुदायोपचारात्" गीतार्थेन सूत्रार्थविदा, नान्येनेति, भणितमुक्तमिदमेतत्सर्वदर्शिभिः केवलभिरिति माथाऽर्थः। पुनरपि सामान्यतोऽपि प्रव्रज्याग्रहणमस्तीति समर्थयन्नाह - तह तम्मि तम्मि जोए, सुत्तुवओगपरिसुद्धभावेणं / दरदिण्णाए विजओ, पडिसेहो वण्णिओ एत्थ / / 47 / / तथेति ज्ञापकान्तरसमुचयार्थः। तरिमस्तस्मिन् तत्र तत्र प्रव्राजनमुण्डनाऽऽदौ योगे प्रव्रज्यादानव्यापारे विषयभूते, प्रतिषेधो वर्णित इति योगः / सूत्रोपयोगेनाऽऽगमोपयुक्ततया परिशुद्धो विशुद्धो भावोऽध्यवसायो यस्य स तथा तेन, गुरुणा, किमित्याह-दरदत्तायामपीषद्वितीर्णायामपि, दीयमानायामित्यर्थः / आस्तामदत्तायां प्रव्रज्यायामिति प्रकृतम् / यतो यस्भात्कारणात् , प्रतिषेधो निषेधोऽयोग्यानाम् , वर्णित उक्तः, अत्रेति वक्ष्यमाणे प्रव्रज्याभिधानसूत्रे प्रव्रज्यायां चेति। अतो ज्ञायतेप्रतिमानुष्टानमन्तरेणाऽपि प्रव्रज्याभिधानमस्तीति गाथाऽर्थः।। अथ कथ सूत्रे प्रव्राजनायां प्रतियोगनिषेध उक्त इत्यवसि तमित्याह - पव्वाविओ सिय त्ति य, मुंडावेउमाइ जं भणियं / सव्वं च इमं सम्म, तप्परिणामे हवति पायं // 48 // प्रवाजितः स्यादिति च मुण्डापयितुमित्येतद्वाक्यमादिर्यस्य सूत्रस्य तत्तथा तत् यद्यस्माद्भणितमुक्तं कल्पभाष्ये, तस्मात्प्रतियोगं प्रव्रज्यायां निषेधो वर्णित इत्यवसीयते। तच्चेदं सूत्रम्- "पटवाविओ सिय तिय, मुडावेउं अणायरणजाग्गो / ते चिय मुंडावेंते. पुरिमपयनिवारिया दोसा / / 1 / / " तथा-" मुंडाविओ सिय त्तिय, सिक्खावेउं अणावरणजोग्गो। ते चिय सिक्खावेंते, पुरिमपयनिवारिया दोसा।। १।।""एवं उट्टावेउ, एवं भुंजावेउ, एवं संवासेउं, एवं संवाहेउं / " अयमर्थः-प्रताजितः प्रवाजयिष्यामस्त्वामित्येवमभ्युपगतो रजोहरणाऽऽदिसाधुवेषदानत इत्यन्ये / ततश्च प्रवाजित इति च एतदप्ययोग्यप्रव्राजनलक्षणमसंभाव्य वस्तु स्याद्भवेत् / छद्मस्थतयाऽनाभोगवशात् ततः किंमुचितमित्याहमुण्डापयितुमष्टाग्रहणतो लुश्चयितुम् / अनाचरणयोग्यः अनासेवनाहः, तथाऽपि मुण्डापयत्याचार्येत एवाऽऽज्ञाभङ्गाऽऽदयः। पूर्वपदस्य प्रव्राजनस्य संबन्धिनो दोषा अनिवारिता भवन्तीति। एवमन्यगाथाऽपि बोद्धव्या इति। अथ प्रस्तुतार्थं निगमयतिसर्वच समस्तं पुनरिदं पृच्छाऽऽदिविशुद्धस्य प्रव्रज्यादानाऽऽदिकभागमिकं वस्तु, सम्यग समोचीन भवति। अथवा- सम्यक्त्वपरिणामे यथावत्प्रव्रज्यापरिणतौ सत्यां भवति स्यात्, प्रायो बाहुल्येन / प्रायोग्रहणं चाङ्गारमर्दकाऽऽदिव्यभिचारपरिहारार्थमिति। ततः प्रतिमाकरणमन्तरेणाऽपि प्रतिमाकर्तुरिव प्रव्रज्या स्यादिति हृदयमिति गाथाऽर्थः। ननु यदि प्रतिमाकरणमन्तरेणाऽपि प्रव्रज्या सम्यग् भवति तदा किं तेनेत्यत आह - जुत्तो पुण एस कमो, ओहेणं संपयं विसेसेण / जम्हा असुहो कालो, दुरणुचरो संजमो एत्थ / / 46 || यद्यपि प्रक्रमान्तरेणाऽपि प्रव्रज्या स्यात्तथाऽपि युक्तः सङ्गतः। पुनरिति विशेषार्थः / एषोऽनन्तरोक्तः प्रतिमानुष्ठानाऽऽदिः, क्रमः प्रव्रज्याप्रतिपत्तो परिपाटिः / कथमित्याह-ओघेन सामान्येन, न तु सर्वथैव, तं विनाऽपि बहूनां प्रव्रज्याश्रवणात्। कालापेक्षया विशेषमाह-सांप्रतं वर्तमानकाले विशेषेण विशेषतो युक्त एष क्रमः / कुत एतदेवमित्याह-यस्मात्कारणाद् अशुभोऽशुभानुभावः कालो दुःषमालक्षणो वर्त्तते / ततश्च दुरनुचरो दुःखाऽऽसेव्यः, संयमः संयतत्वम्, अत्राऽशुभकाले, अतः प्रव्रजितुकामेन प्रतिमाऽभ्यासो विधेय इति भावः। इति गाथाऽर्थः / तन्त्रान्तरप्रसिद्ध्या प्रतिमापूर्वकत्वं प्रव्रज्याया योग्यत्वं स मर्थयन्नाहतंतंतरेसु वि इमो, आसमभेओ पसिद्धओ चेव / ता इय इह जाइयव्वं, भवविरह इच्छमाणेहिं / / 50 / / तन्त्रान्तरेष्वपि दर्शनान्तरेष्वपि, आस्तां जिनप्रवचने। अयमनन्तरोक्तः, आश्रमभेदो भूमिकाविशेषः, "ब्रह्मचारी गृहस्थश्च, वानप्रस्थो यतिस्तथा।" इत्यादिनोक्तस्वरूपः / " इओ' इति पाठान्तरम्। तत्र इतोऽशुभकालदुरनुचरसंयमलक्षणाद्धेतुद्वयात् . अथवा इतो जैनप्रवचनात्तन्त्रान्तरेष्विति / प्रसिद्धकश्चैव सिद्ध एव न तु साध्यः / यस्मादेवं तत्तरमाद् , इत्युक्तन्यायेन, इह प्रतिमापूर्वकप्रव्रज्यायां यतितव्यं यत्नो विधेयः, भवविरहं संसारवियोगम, इच्छद्भिर्वाञ्छद्भिनिखिलशासनप्रवरपारगताऽऽगमावलम्बिभिरिति गाथाऽर्थः / पञ्चा० 10 विव० / ('सेहभूमि' शब्दे जडस्यापरिणामस्य दीक्षा) (27) पण्डक-वातिक-क्लीवप्रव्रज्यानिषेधः - ततो नो कप्पंति पव्वावित्तए। तं जहा-पंडए, वाइए, कीवे।। 4 / / अस्य संबन्धमाह - न ठविजई वएसुं, सज्जं एएण होइ अणवट्ठो। दुविहम्मि विन ठविज्जइ, लिंगे अयमन्न जोगो उ।। 258 / / येन तद्दोघपरतोऽपि सद्यः तत्क्षणादेवानाचरिततपोविशिष्टो भावलिङ्गरूपेषु महाव्रतेषु न स्थाप्यते, एतेन कारणेनानवस्थाप्य इत्युच्यते। स चाऽनन्तरसूत्रे भणितः / अयं पुनरन्यः पण्डकाऽऽदिर्द्विविधेऽपि द्रव्यभावलिड़े यो न स्थाप्यते प्रतिपद्यते, एष योगः संबन्धः / अनेन संबन्धेनाऽऽयातस्यास्य सूत्रस्य (4) व्याख्यात्रयो नो कल्पन्ते प्रव्राजयितुम् / तद्यथा-पण्डको नपुंसको वातिको नाम-यदा स्वनिमित्ततोऽन्यथा वा मेहनं कषायित भवति तदा न शक्नोति वेदं धारयितुम्। क्लीवोऽसमर्थः, स च दृष्टिक्लीबाऽऽदिलक्षण एष सूत्रार्थः / अथ भाष्यविस्तरःवीसं तु अपव्वज्जा, निजुत्तीए उवन्निया पुट्विं / इह पुण तिहिँ अधिकारो, पंडे कीवे य वाई य / / 256 / / विशतिलिवृद्धाऽऽदिभेदादिशतिसंख्या अप्रव्राज्याः पूर्व