________________ पवज्जा 768 - अभिधानराजेन्द्रः - भाग 5 पवज्जा त्सर्गः। स इति श्रावकः। पश्चात्प्रतिमाऽनुष्ठानामन्तरम्। अथवेति प्रकारान्तरद्योतनार्थः / गृहस्थभावं गृहित्वमेवोपैतीति वर्तते। किं कृत्वेत्याहउचितत्वं योग्यता गृहिभावस्यैवाऽऽत्मनः स्वस्य ज्ञात्वाऽवगम्येति गाथाऽर्थः। अथ कस्मात्प्रतिमाभिर्भावयित्वैवाऽऽत्मानमुपैति प्रव्रज्यामित्याशयाऽऽहगहणं पव्वजाए, जओ अजोग्गाण णियमतोऽणत्थो। तो तुलिऊणऽप्पाणं, धीरा एवं पवजंति / / 40 / / ग्रहणं स्वीकरणं प्रव्रज्यायाः श्रामण्यस्य यस्मादयोग्यानामनुचिताना नियमतोऽवश्यमेवानर्थोऽपायस्तस्मात्तुलयित्वा भावनया परीक्ष्य, योग्यतां निश्चित्येत्यर्थः / आत्मानं स्वं धीरा धीमन्तः एता प्रतिषद्यन्तेऽङ्गीकुर्वन्तीति गाथाऽर्थः। तुलयित्वाऽऽत्मानमित्युक्तमथ तुलनैव कथमित्यत आह - तुलणा इमेव विहिणा, एतीय हंदि नियमतो णेया। णो देसविरइकंडयपत्तीए विणा जमेस त्ति / / 41 // तुलना आत्मनो योग्यता परीताऽनेनानन्तरोक्तेन विधिना विधानेन प्रतिमाऽनुष्ठानलक्षणेन एतस्याः प्रव्रज्यायाः हन्दीत्युपप्रदर्शन, नियमतो नियोगेन विज्ञेया अवसेया / अथ कस्मादेवमित्याह-(नो) नैव देशविरतिरणुव्रताऽऽदिप्रतिपत्तिपरिणामस्तस्य कण्डकान्यध्यवसायस्थानानि, तेषां या प्राप्तिाभः सा तथा तया देशविरतिकण्डकप्राप्त्या, विना तदभावे, यद्यस्मात्कारणादेषा प्रव्रज्या भवति / इतिशब्दो वाक्यार्थसमाप्तौ। प्रायिक चैतत्-यतोऽसंख्याततमो भागः सिद्धानामप्राप्तदेशविरतिकोऽपि सिद्धत्वमुपगतोऽभिधीयते / यदाह- " भागेहि असंखेजेहिं फासिया देसविरईउत्ति" तथा तुलनाऽनेन विधिनेत्यपि प्रायिकम्। एतच स्वयमेवाग्रे दर्शयिष्यतीति गाथाऽर्थः / एवं तुलनापूर्वक प्रव्रज्याया सत्यां यद्भवति तद्दर्शयितुमाह - तीए य अविगलाए, वज्झा चेट्ठा जहोदिया पायं। होति णवरं विसेसा, कत्थति लक्खिज्जए ण तहा / / 42 / / तस्यामुक्ततुलनापुरस्सरप्रव्रज्यायां, चशब्दः पुनरर्थः / अविक-लायां परिपूर्णायां तद्योग्यतानिश्चयपूर्वकत्वेन प्रतिपन्नत्वात् , बाह्या बहिर्वर्तिनी, चेष्टा प्रत्युपेक्षणाऽऽदिसामाचार्यनुपालनारूपा, यथोदिताऽऽगमोक्ता, प्रायो बाहुल्येन, प्रायोग्रहण चोक्तविपरीतकारिभिगुरुकर्मप्राणिभिर्व्यभिचारोऽभिहितार्थस्यमा भूदिति कृतमिति भवति स्यात् ननु कदाचित ग्लानत्वाऽऽदौ तथा प्रव्रज्यायामप्यसौ न दृश्यते इत्याशङ्कयाऽऽह-नवर केवलं भवत्यपि सामान्येन सा विशेषतो विशेषेण क्वचिद्देशे काले पुरुष वा पुष्टाऽऽलम्बनादाश्रिता-पवादे लक्ष्यते निश्चीयते स्थूलदृष्टिभिर्न नैव तथा तद्वद्यथा स्वस्थावस्थायां बाह्यचेष्टति प्रकृतमिति गर्दभिल्लराजगृहीतसाध्वीविमोचनार्थमुजयिन्यामानीतषण्णवतिसामन्तकटककालिकाऽऽचार्य-श्वेहोदाहरणमिति गाथाऽर्थः / (कालिकाचार्यवृत्तम् कालगज 'शब्दे तृतीयभागे 460 पृष्ठे विरतरतो गतम्) अथ करमादिह यथोक्तैव चेष्टा स्यादित्याह - भवणिव्वेयाउ जतो, मोक्खे रागाउ णाणपुवाओ। सुद्धासयस्स एसा, ओहेण विवणिया समए।। 43 / / भवनिर्वेदात्संसारविरागाद्यतो यस्मात्कारणात्तथा मोक्षे निर्वाण रागादभिलाषात् / किं भूतात् ? ज्ञानपूर्वात् सम्यक्ज्ञानपुरस्सरात् न तु मिथ्याज्ञानपूर्वकात् शुद्धाऽऽशयस्य निर्मलाध्यवसायस्य जीवस्य एषा प्रव्रज्या ओघेनाऽपि सामान्यतोऽपि सामायिकमात्रप्रतिपत्त्यपेक्षयाऽप्यास्ता विशेषतोऽप्रमत्ताऽऽदिसामायिकप्रतिपत्तितो वर्णिता भणिता समये सिद्धान्ते, अतः कथमस्यामयथोक्तार्था चेष्टा / इति गाथाऽर्थः। येन वचनेन समये सा तथा वर्णिता तद्दर्शयन्नाह - तो समणो जह सुमणो, भावेण य जइण होइ पावमणो। सयणे य जणे य समो, समो य माणावमाणेसु / / 44 / / इह प्राकृतशैल्यपेक्षया श्रमणशब्द व्युत्पादयति-(तो इति) ततस्तस्माद्धेतोः "सह मणेण चित्तेण वद्दइ ति" समणो, न चेह मनोमानास्तित्वं विवक्षितशब्दस्य सामायिकविशेषप्रतिपादनार्थस्य व्युत्पत्तिनिमित्ततया विवक्षितं, सकलसंज्ञिसाधारणत्वात् तस्येत्यतस्तद्विशेषणार्थमाह यदीत्यभ्युपगमे, शोभनं धर्मध्यानाऽऽदिप्रवृत्ततया मनश्चित्तं यस्य स सुमनाः / अनेन सद्गुणान्वितमनस्कत्वं विवक्षितशब्दव्युत्पत्तिनिमित्तत्वेनोक्तम्। अथ दोषरहितमनस्कतामाह-भावेनाऽऽत्मपरिणामेन तत्त्वतो वा निरुपचरितत्वेन, चशब्दः समुच्चये, यदीत्यभ्युपगमे, न भवति नैव स्यात् पापं प्राणातिपाताऽऽदिमत्सनिदानं वा मनो यस्य स पापमनाः, तथा स्वजने च पुत्राऽऽदिके जने चान्यस्मिन् समस्तुल्यः प्रेमाप्रेमयजनन / तथा समश्च तुल्य एव मानापमानयोः पूजेतरयोरिति उत्तरार्धापेक्षया त्वेवं व्युत्पत्तिः-समः सन् सम्यग् वा अणति वर्तते योऽसौ निरुक्तविधिना ' समण इति स्यादित्येवं शुद्धाऽऽशयस्यैवा वर्णितेति गाथाऽर्थः। अथ कस्याऽपि प्रतिमाऽनुष्ठानं विनाऽपि प्रव्रज्या यथोदि तैव स्यादिति दर्शयन्नाह - ता कम्मखओवसमा, जो एयपगारमंतरेणावि। जायति जहोइयगुणो, तस्स वि एसा तहा णेया।। 45 / / (ता इति) यस्माद्भवनिर्देदाऽऽदेः सकाशाद्विशुद्धाऽऽशयस्यैषा वर्णिता तस्मात्कारणात् क्षयोपशमात् ज्ञानाऽऽवरणाऽऽदिकर्मविगमविशेषात् कारणाद्यः प्राण्येतत्प्रकारमन्तरेणाऽपि बालत्वाऽऽदिकारणात्प्रतिमाऽऽनुष्ठानव्यतिरेकेणाऽपि एतत्प्रकारेण तावज्जायत एवेत्यपिशब्दार्थः, जायते संपद्यते यथोदितगुणः प्रव्रज्योचितगुणस्तस्याऽपि प्राणिनो, न केवलं प्रतिमाकारिण एव, एषा प्रव्रज्या, तथा तद्वत् प्रतिमाकारिण इव जेयाऽवशेया, कर्मक्षयोपशमादेवेति गाथाऽर्थः / प्रतिमाप्रतिपत्तिव्यतिरेकेणाऽपि प्रव्रज्या जायते इत्येत स्यैव समर्थनार्थमाह - एत्तो चिय पुच्छाऽऽदिसु, हंदि विसुद्धस्स सति पयत्तेणं / दायव्वा गीतेणं, भणियमिणं सव्वदंसीहिं।। 46 // (एतो चिय ति) यत एतत्प्रकारमन्तरेणाऽपि उचितगुणस्य प्रव्रज्याप्रतिमाकर्तुरिव यथोक्ता भवति, अत एव कारणात पृच्छाऽऽदिषु पृच्छाकथनापरीक्षासु / तत्र पृच्छा- 'कोऽसि तुम, कत्तो वा, पव्वयसि वा किंनिमित्तं ति / एवमादिरूपा। कथना पुनः प्रविव्रजिषोः प्रव्रज्यास्वरूपकथनम् / यथा-"जह