________________ पवजा 764 - अभिधानराजेन्द्रः - भाग 5 पवज्जा तरदिति यदसंक्लेशेनैव च वेद्यते। इति गाथाऽर्थः / एवमनयोः स्वरूपे उक्ते सत्याह - जइ एवं किं गिहिणो, अत्थोवायाणपालणाईसु / विअणा ण संकिलिट्ठा, किं वा तीए सरूवंति ? / / 186 / / यद्येवं पुण्यपापयोः स्वरूपं यथाऽभ्यधायि भवता, नन्वेवं किं गृहिणः अर्थोपादानपालनाऽऽदिषु सत्सु आर्तध्यानाऽऽदिष्वादिशब्दान्नाशाऽऽदिपरिग्रहः / वेदना न संक्लिष्टा, संक्लिष्टवेत्यभिप्रायः। किंवा तस्याः संक्लिष्टाया वेदनायाः स्वरूपं, योषाऽपि संक्लिष्टा न भवतीति गाथाऽर्थः / पराभिप्रायमाशङ्कय परिहरन्नाह - गेहाईणमभावे, जातं रूवं इमइ अह इटुं / जुज्जइ अ तयभिसंगे, तदभावे सव्वहाऽजुत्तं / / 187 // गेहाऽऽदीनां गृहधनाऽऽदीनामभावे या वेदना, तद्रूपमस्याः संक्लिष्टाया वेदनायाः / अथेष्टमभ्युपगतं भवता / एतदाशयाऽऽह-युज्यते एतद्रूपं तस्याः तदभिष्वङ्ग गेहाऽऽदिष्वभिलाषे सति, तदभावेऽभिष्वङ्गाभावे | सर्वथा एकान्तेनायुक्तं तद्रूपमस्य निरभिष्वङ्गस्य संक्लेशयोगादिति गाथाऽर्थः एतदेव समर्थयतिजो एत्थ अभिस्संगो, संतासंतेसु पावहेउ त्ति / अट्टज्झाणविअप्पो, स इमीए संगओ रूवं / / 188 / / योऽत्र लोके अभिष्वङ्गो मूर्छालक्षणः सदसत्सु गेहाऽऽदिषु पापहेतुरिति पापकारणमार्तध्यानविकल्पः अशुभध्यानभेदोऽभिष्वङ्गः स खल्वस्या संक्लिष्टाया वेदनायाः संगतो रूपमिति गाथाऽर्थः / ततः किमित्याह - एसो अ जायइ दर्द, संतेसु वि अकुसलाणुबंधाओ। पुण्णाओ ता तं पिहु, नेअं परमत्थओ पावं / / 186 / / एषो वाऽभिष्वगोजायते दृढमत्यर्थं, सत्स्वपि गेहाऽऽदिष्विति गम्यते। कुत इत्याह-अकुशलानुबन्धिनः मिथ्यानुष्ठानोपात्तात्पुण्याद्यरमादेवं तत्तस्मात्तदप्यकुशलानुबन्धि पुण्यं ज्ञेयं परमार्थतः पापं संक्लेशहेतुस्वादिति गाथाऽर्थः। तथा च - कइया सिज्झइ दुग्गं, को वामो मज्झ वट्टए कहं वा? जायं इमं ति चिंता, पावा पावस्स य निदाणं / / 160 / / कदा सिध्यति दुर्ग बलदेवपुराऽऽदि, को वामः प्रतिकूलो मे नरपतिर्वर्तते, कथं वा जातनिटमस्थ वामत्वमिति / एवंभूता चिन्ता पापा संक्लिष्टाऽऽर्तध्यानत्वात्। पापस्य च निदानं कारणमार्त्तध्यानत्वादेवेति गाथाऽर्थः। इइ चिंताविसधारिअ देहो विसए वि सेवइ न जीवो। चिट्ठउ अताव धम्मोऽसंतेसु वि भावणा एवं / / 161 / / इति एवं चिन्ताविषधारितदेहो चिन्ताविषव्याप्तशरीरः सन् विषयानपि सेवते, न जीवः / तथा आकुलत्वात् तिष्ठतु च तावद्धर्मो विशिष्टाप्रमादसाध्यः असत्स्वपि, गेहाऽऽदिष्विति गम्यते / अभिष्वङ्गे सति भावना एवमिति अशुभचिन्ता धर्मविरोधिनी यायादेवेति गाथाऽर्थः। | एतदेवाऽऽह - दीणो जणपरिभूओ, असमत्थो उदरभरणमित्ते वि। वित्तेण पावकारी, तह वि हु पावस्स फलं एअं / / 192 / / दीनः कृपणः, जनपरिभूतो लोकगर्हितः, असमर्थ उदरभरणमात्रेऽपिआत्मभरिरपि न भवति। वित्ते न पापकारी तथापितु एवंभूतोऽपि सन्नसदिच्छया पापचित्त इत्यर्थः / पापफलमेतदितिजन्मान्तरकृतस्य कार्यभाविनश्च कारणमिति गाथाऽर्थः। यद्येवं किं विशिष्ट तर्हि पुण्यमित्यत्राऽऽह - संतेसु वि भोगेसुं , नाभिस्संगो दढं अणुट्ठाणं / अत्थि य परलोगम्मि वि, पुन्नं कुसलाणुबंधिमिणं / / 163 / / इह यदुदयात् सत्स्वपि भोगेषु शब्दाऽऽदिषु नाभिष्वङ्गो दृढमत्यर्थमनुष्ठानमस्ति च परलोकेऽपि दानध्यानाऽऽदि पुण्यं कुशलानुबन्धादि जन्मान्तरेऽपि कुशलकारणत्वादिति गाथाऽर्थः / परिसुद्धं पुण एयं, भवविडविनिबंधणेसु विसएसु / जायइ विरागहेऊ, धम्मज्झाणस्स य निमित्तं / / 164 / / परिशुद्ध पुनरेतदभ्यासवशेन कुशलानुबन्धि पुण्यं भवक्टिपिनिबन्धनेषु विषयेषु संसारवृक्षबीजभूतेष्वित्यर्थः / जायते विरागहेतुर्वैराग्यकारणं धर्मध्यानस्य च निमित्त महापुण्यवतां महापुरुषाणां तथोपलब्धेरिति गाथाऽर्थः। एतञ्च विषये विरागाऽऽदि महत्सुखमित्याह - जं विसयविरत्ताणं, सुक्खं सज्झायमाविअमईणं। तं मुणइ मुणिवरो चिअ, अणुहावओ पुण अन्नो वि / / 165 / / यद्विषयविरक्तानामसदिच्छारहितानां सौख्यं सद्ध्यानभावितमतीनां च धर्मध्यानाऽऽदिभावितचित्तानां तन्मनुते जानाति मुनिवर एव साधुरेवानुभावतोऽनुभवनेन पुनरन्योऽप्यसाधुः तथानुभवभावादिति गाथाऽर्थः / एतदेव समर्थयति - कंखिज्जइ जो अत्थो, संपत्तीए न तं सुहं तस्स। इच्छाविणिवित्तीए, जं खलु बुड्ढप्पवाओऽयं / / 166 / / काक्ष्यतेऽभिलष्यते योऽर्थः संप्राप्त्या न तत्सुखं तस्यार्थस्य इच्छाविनिवृत्त्या यत्खलु सुखं वृद्धप्रवादोऽयमाप्तप्रवादोऽयमिति गाथाऽर्थः / मुत्तीए वभिचारो, तं णो जंसा जिणेहिँपन्नत्ता। इच्छाविणिवित्तीए, चेव फलं पगरिसं पत्तं / / 167 / / मुक्त्या व्यभिचारस्तत्काङ्गणे तत्प्राप्त्यैव सुखभावादेतदाशङ्कयाऽऽहतन्न यद्यस्मादसौ मुक्तिर्जिनः प्रज्ञप्ता तीर्थकरैरुक्ता इच्छाविनिवृत्तेरेव फलं न पुनरिच्छापूर्वकमिति प्रकर्ष, प्राप्त सामायिक संयताऽऽदेरारभ्योत्कर्षण निष्ठाप्राप्तमिति गाथाऽर्थः। किं च - जस्सिच्छाए जायइ, संपत्ती तं पडुचिमं भणि। मुत्ती पुण तदभावे, जमणिच्छा केवली भणिया / / 198 / / यस्यार्थस्येच्छया प्रवृत्तिनिमित्तभूतया जायते संप्राप्तिस्तमर्थ विलयाऽऽदिकं प्रतीत्ये दं भणितं, कासयत इति / मुक्तिः पुनस्तदभावे इच्छाभावे जायते / क्तः? इत्याह-यद्यस्मादनि