________________ पवज्जा 763 - अभिधानराजेन्द्रः - भाग 5 पवज्जा व्यवहारप्रवृत्त्याऽपि चैत्यवन्दनाऽदिविधिना प्रव्रजितोऽहमित्या - दिलक्षणो यः शुभपरिणामो भवति, ततश्च शुभपरिणामात्कर्मणः ज्ञानाऽ5 - वरणीयाऽऽदेर्नियमेनोपशमाऽऽदयो भवन्ति। आदिशब्दात क्षयक्षयोपशमाऽऽदिपरिग्रहः / निश्वयनयसम्मतं तत इति तत उपशमाऽऽदेर्विरतिपरिणामो भवतीति गाथाऽर्थः / यचोक्तं सति तस्मिन्निदं च फलमित्यादि, तन्निराकरणार्थमाह - होति वि तस्सिं विहलं, न खलु इमं होइ एत्थऽणुट्ठाणं / सेसाणुढाणं पि अ, आणाआराहणाए उ॥ 174 / / भवत्यपि तरिमन्विरतिपरिणामे विफलं न खल्विति चैत्यवन्दनं चेदं चैत्यवन्दनाऽऽदि भवत्यत्र प्रक्रमेऽनुष्ठानं, किंतुसफलमेव शेषानुष्ठानमिवोपाधिप्रत्युपेक्षणाऽऽदिवत् / कुत इत्याह-आज्ञाऽऽराधनात एव तीर्थकरोपदेशानुपालनादेव, भगवदुपदेशश्चाग्रज्ञानमिति गाथाऽर्थः / द्वितीयं पक्षमधिकृत्याऽऽह - असह मुसावाओ वि अ, इसिं पिन जायते तहा गुरुणो। विहिकारगस्स आणा-आराहणभावओ चेव / / 175 / / असति विरतिपरिणामे मृषावादोऽपि ईषदपि मनागपि न ज्ञायते गुरोरुक्तलक्षणस्य / किंविशिष्टस्येत्यत्राऽऽह-विधिकारकस्य सूत्राऽऽज्ञासंपादकस्येति / कुत इत्याह-आज्ञाऽऽराधनभावत एव भगवदाज्ञासंपादनादेवेति गाथाऽर्थः। विधिप्रव्राजने गुणानाह - होंति गुणा निअमेणं, आसंसाईहिँ विप्पमुकस्स। परिणामविसुद्धीओ, अजुत्तकारिम्मि वि तयम्मि / / 176 / / भवन्ति गुणा नियमेन कर्मक्षयाऽऽदयो विधिप्रव्राजने सति आसंसाऽऽदिभिर्विप्रसुक्तस्य गुरोरादिशब्दात्संपूर्णपर्षदादिपरिग्रहः / कुतो भवन्तिपरिणामविशुद्धः सांसारिकदुःखेभ्यो मुच्यतेऽयमित्यध्यवसायादयुक्तकारिण्यपि कुतश्चित्कर्मोदयात् तस्मिन् शिष्ये / इति गाथाऽर्थः। तम्हा न जुत्तमेअं, पव्वजाए विहाणकरणं तु। गुणभावओ अकरणे, तित्थुच्छे आइसा दोसा / / 177 / / यस्मादेवं तस्मान्न युक्तमेतदनन्तरोदितं प्रव्रज्यायाः विधानकारण तु चैत्यवन्दनाऽऽदि / कुत इत्याह-गुणभावत उक्तन्यायात्कर्मक्षयाऽऽदिगुणभावादकारणे प्रस्तुतविधानस्य तीर्थाच्छेदाऽऽदयो दोषाः, तीर्थोच्छेदसत्त्वे प्रव्रज्या न कल्पते इतिं गाथाऽर्थः। एतदेव भावयतिछउमत्थो परिणाम, सम्मं नो मुणइ ताण देइ तओ। न य अइसओ वि तीए, विणा कहं धम्मचरणं तु / / 178 / / छास्थसत्त्वः परिणाम विनेयसंबन्धिनं सम्यक् न मनुते न जानाति, ततो न ददात्यसौ दीक्षा परदर्शनेन, ततोऽतिशयी दास्यतीति चेदत्राऽऽहंन चातिशयोऽप्यवध्यादिः, तया भावतो दीक्षया विनैव कथं धर्मचरणमिति सामान्येनैव धर्मचरणाभावः / इति गाथाऽर्थः / " यच्चाओ' भरताऽऽद्युदाहरणमुक्तं तदङ्गीकृत्याऽऽह - आहचभावकहणं, तं पि हु तप्पुव्वयं जिणा बिति। तयभाये ण य जुत्तं,तयं पि एसो विही तेणं / / 176 / / कादाचित्कभावकथनं भरताऽऽदीनामतिशयाऽऽदिरूपं यत्तदपि तरपूर्वक जन्मान्तराभ्यस्तप्रव्रज्याविधानपूर्वकं जिना बुवते। तदभावे च जन्मान्तराभ्यस्तप्रव्रज्याविधानाभावे च, न युक्तं, तदपि कादाचित्कभावकथन यत एवमेष विधिरनन्तरोदितः प्रव्रज्यायाः ततोऽन्याय्या। इति गाथाऽर्थः। अण्णे अगारवासं, पावाओ परिचयंति इह बिंति। सीओदगाइभोगं, अदिन्नठाण त्ति न करिति / / 180 / / अन्ये वादिन इति ब्रुवत इति संबन्धः। किमित्याह-अगारवासं गृहवासं पापात्परित्यजन्ति, पापोदयेन तत्परित्यागबुद्धिरुत्पद्यते। ........(?) इति गाथाऽर्थः। एतदेव समर्थयति - बहुदुक्खसंविढत्तो, नासइ अत्थो जहा अभव्वाणं / इअ पुन्नेहिँवि पत्तो, अगारवासो वि पायाणं / / 181 // (बहुदुक्खस विढत्तो त्ति) बहुदुःखसमर्जितः सन्नश्यत्यर्थो यथा अभव्यानामपुण्यवताम्। (इय) एव पुण्यैरपि प्राप्तः अगारवासोऽपि पापानां नश्यति, क्षुद्रपुण्योपात्तत्वादिति गाथाऽर्थः। चत्तम्मि घरावासे, ओआसविवजिओ पिवासत्तो। खुहिओ अपरिअडतो, कहं न पावस्स विसउत्ति? || 182 // त्यक्त गृहाऽऽवासे प्रव्रजितः सन्नित्यर्थः / अवकाशविवर्जितः आश्रयरहितः पिपासाऽऽर्त तृट्परीतः क्षुधार्तश्च पर्यटन् कथन पापस्य विषय इति पापे येन सर्वमतद्भवतीत गाथाऽर्थः। तथा चाऽऽह - सुहझाणाओ धम्मो, सव्वविहीणस्सतं कओ तस्स ? / अण्णं पि जस्स निच्चं, नत्थि उवटुंभहेउ त्ति / / 183 / / शुगध्यानात धर्मध्यानाऽऽदेधर्म इति सर्वतन्त्रप्रसिद्धः, सर्वविहीनस्य सर्वोपकरणरहितस्य तच्छुभध्यानं कुतस्तस्य प्रव्रजितस्य, अन्नमपि भोजनमपि, आस्ता शीतत्राणाऽऽदि, यस्य नित्यं सदोचितकालं, नास्त्युपष्टम्भहेतुः शुभध्यानाऽऽश्रयस्य कायस्येति गाथाऽर्थः / तम्हा गिहासमरओ, संतुट्ठमणो अणाउलो धीम। परहिअकरणेकरई, धम्म साहेइ मज्झत्थो / / 184 / / यस्मादेवं तस्माद गृहाश्रमरतः सन् संतुष्टमना न तु लोभाभिभूतः, अनाकुलो न तु सदा गृहकर्तव्यतामूढः, बुद्धिमान तत्त्वज्ञः, परहितकरणकरतिर्न त्वात्मभरिधर्म साधयति मध्यस्थो न तु क्वचिद्रक्तो द्विष्टो वति गाथाऽर्थः / एष पूर्वपक्षः। अत्रोत्तरमाह - किं पावस्स सरूवं, किं वा पुन्नस्स संकिलिटुं जं। वेइज्ज य तेणेव य, तं पावं पुण्णमिअरं ति / / 185 / / पापात्परित्यजन्ति पुण्योपात्त गृहाश्रममिति परमतम् / आचार्यरत्वाह-किं पापस्य स्वरूप किं वा पुण्यस्येति पुण्यपापयोर्यथा सम्यग्लक्षणं तथा कुशलानुबन्धिनः पुण्यात्परित्यजन्ति पुण्योपात्त गृहाश्रममिति परमकुशलानुबन्धिनः पापात् परित्यजन्ति गृहवास - मित्येतच वक्ष्यति / परमस्तु तयोः स्वरूपमाह-संक्लिष्ट मलिनं यत्स्वरूप तद् वेद्यते चानुभूयते तेनैव संक्लेशेन तल्पापम्। पुण्यमि