________________ पवज्जा 762 - अभिधानराजेन्द्रः - भाग 5 पवज्जा तत्तथा कर्त्तव्यं त्वया यथा तच्छेषं प्राप्नोषि स्तोक कालेन। किमित्यत आह शीलस्य नारन्यसाध्यं जगति तत्प्राप्तं त्वया, प्रव्रज्या प्रतिपन्नेति गाथाऽर्थः। लझूण सीलमेअं, चिंतामणिकप्पपायमभहि। इह परलोए अतहा, सुहावह परममुणिचरिअं। 162 // लब्ध्वा शीलमेतत्किविशिष्टमित्याह-चिन्तामणिकल्पपादपाभ्यधिक निर्वाणहेतुत्वेन / एतदेवाऽऽह-इहलोके परलोके च तथा सुखावह परममुनिभिश्चरितमासेवितमिति गाथाऽर्थः / एअम्मि अप्पमाओ, कायव्वो सइ जिणिंदपन्नत्ते। भावेअव्वं च तहा, विरसं संसारणेगुण्णं / / 163 // एतस्मिन् शीले अप्रभादो यत्नातिशयः कर्तव्यः सदा सर्वकालं जिनेन्द्रप्रज्ञप्ते तीर्थकरप्रणीते अप्रमादोपायमेवाऽऽह-भावयितव्यं च तथा शुभान्तःकरणेन विरसं संसारनैर्गुण्यं वैराग्यसाधनमिति गाथाऽर्थः / आह विरइपरिणामो, पव्वज्जा भावओ जिणाएसो। जंता तह जइअव्वं, जह सो होइ त्ति किमणेणं ? / / 164 / / आह परः, किमाह-विरतिपरिणामः सकलसावद्ययोगविनिवृत्तिरूपः प्रव्रज्ज्या भावतः परमार्थतो जिनाऽऽदेशः अर्हद्ववनमित्थं व्यवस्थितमिति यद्यस्मादेवं तत्तस्मात्तथा यतितव्यम् तथा प्रयत्नः कार्यो यथाऽसी विरतिपरिणामो भवतीति किमनेन चैत्यवन्दनाऽऽदिक्रियाकलापेनेति गाथाऽर्थः! परश्य स्वपक्षं समर्थयन्नाह - सुव्वइ अ एअवइअरविरहेणं भरहमाईणं / तयभावम्मि अभाओ, जं भणिओ केवलस्स सुए। 165 / / श्रूयते च एतद्यतिकरविरहेणाऽपि चैत्यवन्दनाऽऽदिसंबन्धमन्तरेणापि स विरतिरूपपरिणाम इह जिनशासने भरताऽऽदीनां महासत्पुरुषा- | णामिति / कथमिति चेदुच्यते-तदभावे विरतिपरिणामाभाये भावतः अभावोऽसंभवः यहारमाणित उक्तः केवलस्य श्रुते प्रवचन इति गाथाऽर्थः। संपादिए वि अतहा, इमम्मि सो होइ नत्थि एअंपि। अंगारमद्दगाई, जेण पवजंत अभव्वा वि // 166 // संपादितेऽपि च तथा तस्मिँ श्वेत्यवन्दनाऽऽदौ व्यतिकरे सति स विरतिपरिणामो भवति। नास्त्येतदप्यत्राप्यनियम एवेति। एतदेवाऽऽहअङ्गारमईकाऽऽदयो येन कारणेन प्रतिपाद्यन्ते अधिकृत्य व्यतिकरमभव्या अपि आसतां तावदन्य इति गाथाऽर्थः। किंच-तचैत्यचन्दनाऽऽदि विधिना सामायिकाऽऽरोपणे सति वा विरतिपरिणामे क्रियेत नेति वा, उराथाऽपि दोषमाहसइ तम्मि इमं विहलं, असइ मुसावायगो गुरुस्सावि। तम्हा न जुत्तमेअं, पव्वजाए विहाणं तु / / 167 / / सति तस्मिन्विरतिपरिणाम, इदं वेत्यवन्दनाऽऽदि विधिना सामायिकाऽरोपणं, विफलं, भावत एवं रिय विद्यमानत्वादन्यथा ताविव असत्यविद्यमाने विरतिपरिणामे सामायिकाऽऽरोपणं कुर्वतः मृषावाद एव गुरोरपि असदभ्यारोपणादपिशब्दाच्छिपस्यापि। अयताविव प्रतिपत्ते- / र्यस्मादेवंतस्मान्न युक्तमेतचैत्यवन्दनाऽदि विधिना सामायिकाऽऽरोपणरूपं प्रव्रज्याया विधानमेवमुभयथाऽपि दोषदर्शनादिति गाथाऽर्थः / एष पूर्वपक्षः। अत्रोत्तरमाहसच्चं खु जिणाएसो, विरईपरिणामओ उ पव्वज्जा। एसो तस्स उवाओ, पायं ता कीरइ इमं तु / / 168 / / सत्यमेव जिनाऽऽदेशो जिनवचनमित्यंभूतमेव, यदुत विरतिपरिणाम एव प्रव्रज्या नाऽन्यथाभावः / तथाऽप्यधिकृतविधानमवन्ध्यमेवेत्येतदाह-एष पुनश्चैत्यवन्दनाऽऽदिविधिना सामायिकाऽऽरोपणव्यतिकरस्तस्य विरतिपरिणामस्यापायो हेतुःप्रायोबाहुल्येन यद्यस्मात् तस्मात्क्रियत एवेद चैत्यवन्दनाऽऽदिप्रव्रज्याविधानमिति गाथाऽर्थः / उपायतामाह - जिणपण्णत्तं लिंगं, एसो उ विही इमस्स गहणम्मि। पत्तो मए त्ति सम्म, चिंतेंतस्सा तओ होइ।। 166 / / जिनप्रज्ञप्त लिङ्ग तीर्थकरप्रणीतमेव तत्साधुविहं रजोहरणमिति / एष च चैत्यवन्दनाऽऽदिलक्षणो विधिरस्य लिङ्गस्य ग्रहणे अङ्गीकरणे प्राप्तो मयाऽत्यन्तदुराप इत्येवं चिन्तयतः सतः शुभभावत्वादसौ विरतिपरिणामो भवतीति गाथाऽर्थः। कथं गम्यत इति चेदुच्यते - लक्खिजइ कज्जेणं, जम्हा तं पाविऊण सप्पुरिसा। नो सेवंति अकज, दीसइ थोवं पि पाएणं / / 170 / / लक्ष्यते गम्यते कार्येणाऽसौ विरतिपरिणामः, कथमित्याह-यस्मात्त चैत्यवन्दनपुरस्सरं सामायिकाऽऽरोपणविधिं संप्राप्य सत्पुरुषाः महासत्त्वाः प्रव्रजिताः, वयमिति, न सेवन्ते अकार्य परलोकविरुद्ध किशित दृश्येतत्प्रक्षेपेणैवोपलभ्यत एतत् स्तोकमप्यकार्य प्रायशो बाहुल्येन न सेवन्ते, अतो विपरिणामसामर्थ्यमेतदिति गाथाऽर्थः / साम्प्रतं यदुक्तं श्रूयते चैतद्यतिकरविरहेणापि स इह भ रताऽऽदीनामित्येतत्परिजिहीषुराह - आहच भावकहणं, नय पाओ जुज्जए इहं काउं। ववहारनिच्छया जं, दोनि वि सुत्ते समा भणिया / / 171 / / कदाचित्कभावकथनं भरताऽऽदिलक्षणं न च प्रायो युत्यते इह विचारे कर्तुम् किमित्यत आह-व्यवहारनिश्चयौ यतो नयौ द्वावपि सूत्रेसमौ भणितौ प्रतिपादितौ भगवद्भिरिति गाथाऽर्थः। एतदेवाऽऽहजइ जिणमयं पवजह, तो मा ववहारणिच्छए मुयह। ववहारणउच्छेए, तित्थुच्छेओ जओऽवस्सं / / 172 / / यदि जिनमतं प्रपद्यध्वं यूयं ततो मा व्यवहारनिश्चयौ मुश्चत महाशिष्टाः / किमित्याह-व्यवहारनयोच्छेदे तीर्थोच्छेदो यतोऽवश्यमतो व्यवहारतोऽपि प्रव्रजित एव गाथाऽर्थः। ___एतदेव समर्थयति - ववहारपवत्तीअवि, सुहपरिणामो तओ अ कम्मस्स। निअमेणमुवसमाई, णिच्छयणयसम्मयं तत्तो।। 173 / /