________________ पवजा 761 - अभिधानराजेन्द्रः - भाग 5 पवज्जा त्तिविशोधनेन तन्मतेन प्रव्रज्याऽऽदिप्रदानात्परलोकप्रवृत्तिविशोधनेन, इत्थमनेकान्तसिद्धितः सन्नीत्या, तथा निश्चयाङ्गभावेन / एवं प्रवृत्त्याऽपूर्वकरणाऽऽदिप्राप्तेः / परिशुद्धस्तु केवलमाज्ञाऽपेक्षी पुष्टाऽऽलम्बनः / एषाऽऽज्ञह भगवत उभयनयगर्भा / अथवा-सर्वैव पञ्चसूत्रोक्ता / किंविशिष्टा ?, इत्याह-समन्तभद्रा, सर्वतो निर्दोषा / कथम् ?. इत्याहत्रिकोटिपरिशुद्ध्या कपच्छेदतापपरिशुद्ध्या। इयं च भागवती सदाज्ञा सर्वच अपुनर्बन्धकाऽऽदिगम्या। अपुनर्बन्धकाऽऽदयो ये सत्त्वा उत्कृष्टा कर्मस्थिति, तया अपुनर्बन्धकत्वेन ये क्षपयन्ति ते खल्वपुनर्बन्धकाः। आदिशब्दान्मार्गाभिमुखमार्गपतिताऽऽदयः परिगृह्यन्ते। दृढप्रतिज्ञाऽऽलोचकाऽऽदिलिङ्गा एतद्गम्येयं न संसाराभिनन्दिगम्या, तेषां ह्यतो विषयप्रतिभासमात्रं ज्ञानमुदेति न तदद्वेषत्वाऽऽदिवेदकमिति। उक्तं च'न यथाऽवस्थितं शास्त्रं, खल्वडो वेत्ति जातुचित् / ध्यामलादपि बिम्बात्तु, निर्मलः स्यात्स्वहेतुतः / / 1 / / " अपुनर्बन्धकत्वाऽऽदिलिङ्गमाह एअप्पिअत्तं खलु इत्थ लिगं ओचित्तपवित्तिविन्नेअं संवेगसाहगं निअमा। न एसा अन्नेसिं देआ। लिंगविवजयाओ तप्परिण्णा। तयणुग्गहट्टयाए आमकुंभोदगनासनाएणं एसा करुण त्ति वुचई, एगंतपरिसुद्धा अविराहणाफला तिलोगनाहबहुमाणेणं निस्सेअससाहिग त्ति पव्वजाफलसुत्तं। एतत्प्रियत्वं खल्वपत्र लिङ्गम। आज्ञाप्रियत्वमपुनर्बन्धकाऽऽदिलिङ्गम् / प्रियत्वमुपलक्षणं, श्रवणाभ्यासाऽऽदेः / एतदप्यौचित्यप्रवृत्तिविज्ञेय, तदाराधनेन तद्बहुमानात्। औचित्यवाधया तु प्रवृत्तौ न तत्प्रियत्वं मोह एवासामिति / एतत्प्रियत्वमेव विशेष्यते-संवेगसाधकं नियमात् / यरय भागवती सदाज्ञा प्रिया तस्य नियमतः संवेग इति / यत एवमतो नैषा अन्येभ्यो देया / नैषा भागवती सदाज्ञा, अन्येभ्योऽपुनर्बन्धकाऽऽदिव्यतिरिक्तेभ्यः संसाराभिनन्दिभ्यो देया। कथं ते ज्ञायन्ते?. इत्याहलिङ्गविपर्ययात्तत्परिज्ञा। प्रक्रमादपुनर्बन्धकाऽऽदिलिङ्गविपर्ययात् संज्ञा, न द्वेषाऽऽदिलक्षणात्तत्परिज्ञा संसाराऽभिनन्दिपरिज्ञा। उक्तं च- " क्षुद्रो लोभरतिर्दीनो, मत्सरी भयवान् शठः / अज्ञो भवाभिनन्दी स्यात्, निष्फलाऽऽरम्भसङ्गतः॥ 1 // " किमिति न तेभ्यो देया ?, इत्याहतदनुग्रहार्थ संसाराभिनन्दिसत्त्वानुग्रहार्थम्। उक्तंच-" अप्रशान्तमती शास्त्र-सद्भावप्रतिपादनम् / दोषायाभिनवोदीणे, शमनीयमिव ज्वरे / / १॥"इहैव निदर्शनमाह-आमकुम्भोदकन्यासज्ञातेन / उक्तं च-" आमे घडे, निहत्त, जहा जलं तं घड विणासेइ / इय सिद्धतरहस्स, अप्पाहारं विणासेइ।।१॥" एषा करुणोच्यते, अयोग्येभ्यः सदाज्ञाऽप्रदानरूपा। कि विशिष्टा?.इत्याह एकान्तपरिशुद्धा, तदपायपरिहारेण / अत एवेयमविराधनाफला, सम्यगोलोचनेन। न पुनलानापथ्यप्रदानेन निबन्धनकराणाबत्तदाभासेति / इयं चैव-भूता त्रिलोकनाथबहुमानेन हेतुना निः श्रेयससाधिकेति। किमुक्तं भवति ? नानागमिकस्येयं भवति, किं तु परिणताऽऽगमिकस्य / अस्य च भगवत्येवं बहुमानः / एवं चेय मोक्षसाधिकैव सानुबन्धसुप्रवृत्तिभावेन / पं० सू०५ सूत्र। (24) प्रव्रजितस्यार्यिकाभिर्वन्दनम् - वंदंति अजियाओ, विहिणा सङ्घा य सावियाओ य। आयरियसमीवम्मी, अनुपविसइ तओं असंभंतो / / 15 / / ततस्तं प्रव्रजितं वन्दन्ते आर्यिकाः, पुरुषोत्तमो धर्म इति कृत्वा / कथमित्याह-विधिना प्रवचनोक्तेन, किं ता एव, नेत्याह-श्रावकाः श्राविकाश्च वन्दन्ते आचार्य समीपे चोपविशति / ततस्तदुत्तरकालं, किंविशिष्टः सन्नित्याह-असंभ्रान्तः अनन्यचित्त इति गाथाऽर्थः / प्रव्रजितं प्रति तथोपदेशो यथाऽन्यः प्रव्रजेत्। ततश्च - भवजलहिपोअभूअं, आयरिओ तह कहेइ से धम्म / जह संसारविरत्तो, अन्नो वि पवजए दिक्खं / / 155 / / भवजलधिपोतभूतं संसारसमुद्रबोहित्थकल्पमाचार्यस्तथा कथयति, तस्य प्रव्रजितस्य धर्म यथा संवेगातिशयात्संसारविरक्तः सन्नन्योऽपि तत्पर्षदन्तर्वर्ती सत्त्वः प्रपद्यते दीक्षां प्रव्रज्यामिति गाथाऽर्थः / भूतेसु जंगमत्तं, तेसु वि पंचिंदिअत्तमुक्कोसं। तेसु वि अ माणुसत्तं, माणुस्से आरिओ देसो।। 156 / / भूतेषु प्राणिषु जङ्गमत्वं द्वीन्द्रियाऽऽदित्वं, तेष्वपि जङ्गमेषु पञ्चेन्द्रियत्वमुत्कृष्ट प्रधान, तेष्वपि पञ्चेन्द्रियेषु मानुषत्वमुत्कृष्टमिति वर्तते। मनुजत्वे आर्यो देश उत्कृष्ट इति गाथाऽर्थः / देसे कुलं पहाणं, कुले पहाणे अ जाइमुक्कोसा। तीए रूवसमिद्धी, रूवे अ बलं पहाणयरं / / 157 / / देशे आयें कुलं प्रधानमुप्राऽऽदि कुले प्रधाने च जातिरुत्कृष्टा मातृसमुत्था, तस्यामपिजातौ रूपसमृद्धिमत्कृष्टा सकलाङ्गनिष्पत्तिरित्यर्थः / रूपे च सति बल प्रधानतरं सामर्थ्यमिति गाथाऽर्थः / होइ बले वि अ जी, जीए वि पहाणयं तु विण्णाणं। विण्णाणे सम्मत्तं, सम्मत्ते सीलसंपत्ती।। 158 / / भवति बलेऽपि च जीवितं प्रधानमिति योगः, जीवितेऽपि प्रधानतरं विज्ञान, विज्ञाने सम्यक्त्वं, क्रिया पूर्ववत् / सम्यक्त्वे शीलसंप्राप्तिः प्रधानतरेति गाथाऽर्थः। सीले खइअभावो, खाइअभावे वि केवलं नाणं / केवल्ले पडिपुन्ने, पत्ते परमक्खरे मोक्खे / / 156 // शीले क्षायिकभावः प्रधानः, क्षायिकभावे च केवलं ज्ञानं, प्रतिपक्षयोजना सर्वत्र कार्येति / कैवल्ये प्रतिपूणे प्राप्ते परमाक्षरे मोक्ष इति गाथाऽर्थः। पण्णरसंगो एसो, समासओ मोक्खसाहणोवाओ। एत्थ बहु पत्तं ते, थोवं संपावियव्वं ति / / 160 / / पञ्चदशाङ्गः पञ्चदशभेद एष अनन्तरोदितः समासतः संक्षेपेण मोक्षसाधनोपायः सिद्धिसाधनमार्गः / अत्र मोक्षसाधनोपाये बहप्राप्त त्वया शीलं यावदित्यर्थः स्तोक संप्राप्तव्यंक्षायिकभावः केवलज्ञानद्वयमिति गाथाऽर्थः। ता तह कायव्वं ते, जह तं पावेसि थोवकालेणं / सीलस्स नत्थिऽसज्झं, जयम्मि तं पावितुमए।। 161 / /