SearchBrowseAboutContactDonate
Page Preview
Page 768
Loading...
Download File
Download File
Page Text
________________ पवज्जा 760- अभिधानराजेन्द्रः - भाग 5 पवज्जा त्मन इति प्रक्रमः। बन्धाऽऽदिभेदो बन्धमोक्षभेद इत्येतत्साधु प्रमाणोपपन्नम् / न खल्वन्ययोगवियोगी विहाय मुख्यः परिणामभेदः, भावाच मुक्तिरनादिमाँ च भव इति नीत्या। अत एवाऽऽह-सर्वनयविशुद्ध्या / अनन्तरोदितसाधुफलोपदर्शनायाऽऽह-निरुपचरितोभयभावेन प्रक्रमात मुख्यबन्धमोक्षभावेन, एवं द्रव्यास्तिकमतमधिकृत्य कृता निरूपणा / पर्यायास्तिकमतमधिकृत्याऽऽह-नाऽऽत्मभूतं कर्म, न बोधस्वलक्षणमेवेत्यर्थः / तथा न परिकल्पितमसदेवैतत्कर्मवासनाऽऽदिरूपम्। कुतः ? इत्याह-नैवं भवाऽऽदिभेदः / आत्मभूतेपरिकल्पिते वा कर्मणि बोधमात्राविशेषेण क्षणभेदेऽपि मुक्तक्षणभेदवन्न भवापवर्गविशेषः। तथा न भवाभाव एव सिद्धिः, सन्तानोच्छेदरूपा प्रध्यातप्रदीपोपमा। अत्र युक्तिमाह - न तदुच्छेदेणुप्पाओ।न एवं समंजसत्तं / नाऽणाइमंतभवो। न हेउफलभावो / तस्स तहा सहावकप्पणमजुत्तं निराहारन्नयकओ निओगेणं / तस्सेव तहाभावे जुत्तमेअं सुहुममट्ठपयमेअं। विचिंतिअव्वं महापण्णाए त्ति। न तदुच्छेदेऽनुत्पादः, न सन्तानोच्छेदेऽनुत्पादस्तस्यैव किं तर्जुत्पाद एव यथाऽसौ सन्नुच्छिद्यते, एवगसन्नप्पुत्पद्यतामिति को विरोधः ? यद्येवं ततः किम् ? इत्याह-नैवं समज्जसत्वं न्यायोपपन्नत्वम् / कथम् ?, इत्याह-एवं हि नानादिमान भवः संसारः कदाचिदेव सन्तानोत्पत्तेः / तथा न हेतुफलभावः। चरमाऽऽद्यक्षणयोरकारणकार्यत्वात्। पक्षान्तरनिरासायाऽऽह-तस्य तथास्वभावकल्पनमयुक्तम् / कुतः ? इत्याहनिराधारोऽन्वयः कृतो नियोगेन, अयमत्र भावाऽर्थः / स्वो भाव इत्यात्मीया सत्ता स्वभावः / एवं च स निवृत्तिस्वभाव इति स्वभाविकी आत्मीया सत्तेति निराधारत्वम्। यद्वा-अन्वयाभावस्तन्निवृत्तेस्तष्वादिति नियोगग्रहणमवश्यमिदमित्थमन्यथा शब्दार्थायोगादिति ख्यापनार्थम् , एवमाद्यक्षणेऽपि भावनीयम्। अत एवाऽऽह-तस्यैव तथाभावे युक्तमतत्तथास्वभावकल्पनमिति सूक्ष्ममर्थपदमेतद्भावगम्यत्वात, विचिन्तितव्यं महाप्रज्ञया, अन्यथा ज्ञातुमशक्यत्वादिति। आनुपनिकमभिधाय प्रकृतमाह - अपज्जवसिअमेव सिद्धसुक्खं / इत्तो चेवुत्तमं इमं / सव्वहा अणुस्सुगत्तेणंतभावाओ।लोगंतसिद्धिवासिणो एए / नत्थ य एगो तत्थ निअमा अणंता / निअमो अओ चेव अफुसमानगईए गमणं उक्करिसविसेसओ इअं / अव्वुच्छेओ भव्वाण अणंतभावेण / एअमणंताणंतयं समया इत्थ नायं / भव्वत्तं जोगयामित्तमेव केसिं चि पडिमाजुग्गदारुनिदसणेणं / ववहारमयमे। एसो-ऽवि तत्तंग पवित्तिविसोहणेण अणेगंतसिद्धीओ निच्छयंगभा-वेण / परिसुद्धो उ केवलं एसा आणा इह भगवओ समंतभद्दा तिकोडिपरिसुद्धीए अपुणबंधगाइगम्मा। अपर्यवसितमेवमुक्तेन विधिना सिद्धसौख्यम् / अत एव कारणादुत्तम- / मिदम्। एतदेव स्पष्टमभिधातुमाह-सर्वथाऽनुत्सुकत्वे सति अनन्तभावात्कारणात / का निवास एषाम् ? इत्याह-लोकान्तसिद्धिवासिन एते।। चतुर्दशरज्ज्वात्मकलोकान्ते या सिद्धिः प्रशस्तक्षेत्ररूपा तद्वासिन एते सिद्धाः। कथं व्यवस्थिताः? इत्याह-यत्रैकः सिद्धस्तत्र क्षेत्रे नियमान्नियोगेनानन्ताः सिद्धाः / उक्तं च- "जत्थ य एगो सिद्धो,तत्थ अणता भवक्खयविमुक्झा। अण्णोण्णमणावाह, चिट्ठति सुही सुहं पत्ता।।१।।" कथमिह कर्मक्षये लो कान्तगमनम् ? इत्याह-अकर्मणः सिद्धस्य गतिरितो लोकान्तं पूर्वप्रयोगेण हेतुना तत्स्वभाव्यात् / कथमेतदेवं प्रतिपत्तव्यम् ? इत्याह-अलावुप्रभृतिज्ञाततः, अष्टमृल्लेपलिप्तजलक्षिप्ताधोनिमगतदपगमोर्द्धगमनस्वभावाऽलाबुवत् प्रभृतिग्रहणादेरण्डफलाऽऽदिग्रहः / ऊर्द्धगमनं तत्रैव चासकृगमनागमनं किं न? इत्येतदाशइक्याऽऽह-नियमोऽत एवालाबुप्रभृतिज्ञाततः एकसमयाऽऽदिः, उत्पलपत्रशतव्यतिभेददृष्टान्तेन एकसमयेन तदतियुक्तत्याशङ्काऽषोहायाऽऽहअस्पृशगत्या गमनं सिद्धस्य सिद्धिक्षेत्र प्रतिस्पृशद्दतिमदपेक्षया चोत्पलपत्रशतव्यतिभेददृष्टान्तः। कथमियं सम्भवति ? इत्याह-उत्कर्षविशेषत इयं गत्युत्कर्षविशेषदर्शनादेवमस्पृशदतिः सम्भवतीति भावनीयम्। सिद्धस्यापुनरागमनात्कालस्य चानादिस्यात् , षण्मासान्तः प्रायोऽनेकसिद्धेभव्योच्छेदप्रसङ्ग इति विभ्रमनिरासार्थमाह-अव्यवच्छेदो भय्यानामनन्तभावेन, तथा सिद्धिगमनाऽऽदावपि वनस्पत्यादिषु कायस्थितिक्षयदर्शनादनन्तस्याऽपि राशेः क्षयोपपत्तेः पुनः संशय इति तद्व्यवच्छित्यर्थमाह-एतदनन्तानन्तकम् एतद्भव्यानन्तकमनन्तानन्तकं न युक्तानन्तकाऽऽदिसमया अत्र ज्ञातं, तेषां प्रतिक्षणमतिक्रमेऽनुच्छेदोऽनन्तत्वात्। कथं तर्खेतत् ?. उच्यते-"ऋतुर्व्यतीतः परिवर्त्तते पुनः, क्षयं प्रयातः पुनरेति चन्द्रमाः / गतं गतं नैव तु संनिवर्तते, जलं नदीनां च नृणां च जीवितम् / / 1 / / " इति / उच्यत एतद् व्यवहारतस्तूच्यते, अन्यथा तस्यैव परावृत्तौ बाल्याऽऽद्यनिवृत्तिः। तस्य तद्वालयाऽऽद्यापादनस्वभावत्यादिति परिभावनीयम् / अतो न क्षयो भव्यानामिति स्थितम् / एवं च सति भव्यत्वं योग्यतामात्रमेव सिद्धि प्रति के षाञ्चित्प्राणिनां ये न कदाचिदपि सेत्स्यन्ति। तथा चाऽऽगमः- " भव्या वि न सिज्झिस्संति केइ' इत्यादि। भव्यत्वं सिद्धगमनयोग्यत्वम् / फलगम्या च योग्यता। को वा एवमभव्येभ्यो विशेषो भव्यानाम् ? इत्याशङ्काव्यपोहायाऽऽहप्रतिमायोग्यदारुनिदर्शनन / तथाहि-तुल्यायां प्रतिनिष्पत्तौ तथाप्येक दारु प्रतिमायोग्यं ग्रन्थ्यादिशून्यतया न तदन्यद्युक्ततयेत्यादिविद्वदइनाऽऽदिसिद्धमेतत् / न चात्राऽपि तत्र स्वभावत्वाऽऽदिविकल्पचिन्ता कार्या / कुतः? इत्याह-व्यवहारमतमेतत् ,अयं चैव व्यवस्थितः, इति भावितमेव / न चायं संवृत्तिरूप इत्याह-एषोऽपि तत्त्वाङ्गमेषो-ऽपि व्यवहारनयः परमार्थाङ्गम इह प्रक्रमे, तथा योग्यताबुद्धेरपि सन्निबन्धनत्वात् / तत्स्वभावाविशेषे तु दार्वन्तरवदयोग्यदारुण्यपि, तथा बुद्ध्यसिद्धेरित्यादि निर्लोठितमन्यत्र। इत्यनुष्ठानमेवाधिकृत्याऽऽह-एषोऽपि तत्त्वाङ्गम् / यथोक्तम्-" जइ जिणमयं पवजह, ता मा ववहारनिच्छए मुयइ / ववहारणउच्छए, तित्थुच्छेओ जतोऽवस्सं / / 1 / / " अत एषोऽपि व्यवहारनयस्तत्त्वाङ्गम्, प्रवृत्तौ मोक्षाङ्गमित्यर्थः / कुतः ? इत्याह-प्रवृ
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy