________________ पवज्जा 756 - अभिधानराजेन्द्रः - भाग 5 पवज्जा सव्वसत्तुक्खए सव्ववाहिविगमे सव्विच्छासंजोगेणं सच्चिच्छासंपत्तीए जारिसमेअं, इत्तोऽणंतगुणं तं तु भावसत्तुक्खयादितो। रागादओ भावसत्तू , कम्मोदयावाहिणो, परमलद्धीओ उ अट्ठा, अणिच्छेच्छा इच्छा। एवं सुहुममेअंन तत्तओ इयरेण गम्मइ / जह सुहं व अजइणा / आरुग्गसोहं व रोगिण त्ति विभासा। अचिंतमेअं सरूवेणं / साइअपञ्जवसिअं एगसिद्धाविक्खाए। पवाहओ अणाई। ते विभगवंतो एवं / तहा भव्वत्ताइभावओ। विचित्तमेअंतहाफलभेएण। नाविचित्ते सहकारिभेओ तदवि-क्खो तओ त्ति अणेगंतवाओ तत्तवाओ / स खलु एवं इहरहेगतो मिच्छत्तमेसो न इत्तो ववत्था / अणारिहमेअं। संसारिणो उ सिद्धत्तं / नाबद्धस्स मुत्ती सहत्थरहिआ / अणाइमं बंधो पवाहेणं अईअकालतुल्लो / अवद्धबंधणे वा मुत्ती पुणो बंघपसंगओ अविसेसो अबुद्धमुक्काणं / अणाइजोगे विविओगो कंचणोवलनाएणं। न दिदिक्खा अकरणस्स।नयादिट्ठम्मि एसा। न सहजाए निवित्ती।न निवित्तीए आयट्ठाणं। सर्वशत्रुक्षये सति तथा सर्वव्याधिविगमे, एवं सर्वार्थसंयोगेन सता तथा सर्वेच्छासप्राप्त्या यादृशमेतत्सुखं भवति, अतोऽनन्तगुणमेव सिद्धसुखम्। कुतः ?, इत्याह-भावशत्रुक्षयाऽऽदितः / आदिशब्दाद्भावव्याधिविगमाऽऽदयो गृह्यन्ते। तथा चाऽऽह-रागाऽऽदयो भावशत्रवः रागद्वेषमोहाः, जीवापकारित्वात्। कर्मोदया व्याधयः, तथा जीवपीडनात्। परमलब्धरास्त्वर्थाः, परार्थहेतुत्वेन। अनिच्छेच्छा इच्छा सर्वथा तन्निवृत्या। एवं सूक्ष्ममेतत्सुखं न तत्त्वतः परमार्थेन इतरेण गम्यते / असिद्धन निदर्शनमाह-यतिसुखमिवाऽयतिना विशिष्टक्षायोपशमिकभाववेद्यत्वादस्य, एवमारोग्यसुखमिव रोगिणेति। उक्तंच-" रागाईणमभावे, जं होइ सुह तयं जिणो मुणइ / ण हि सण्णिवायगहिओ, जाणइ तदभावज सोक्खं // 1 // " इति विभावा कर्त्तव्या। सर्वथाचिन्त्यमेतत्स्वरूपेणा सिद्धसुखं न तत्त्वतो मतेरविषयत्वात्। साद्यपर्यवसितं प्रमाणत एकसिद्धापेक्षया न तु तत्प्रवाहमधिकृत्य, प्रवाहतस्त्वनादितदोघमाश्रित्य / तथा चाऽऽ३-तेऽपि भगवन्तः सिद्धा एवं एकसिद्धापेक्षया साद्यपर्यवसिताः प्रवाहापेक्षया अनाद्यपर्यवसिता इति / समाने भव्यत्वाऽऽदौ कथमेतदेवम् ?, इत्याह-तथाभव्यत्वाऽऽदिभावात् तथाफलपरिपाकीह तथाभव्यत्वम्। अतएवाऽऽह-विचित्रमेतत्तथाभव्यत्वाऽऽदि कुतः?, इत्याहतथा फलभेदेन कालाऽऽदिभेदभाविफलभेदेनेत्यर्थः / समाने भव्यत्वे सहकारिभेदात्फलभेद इत्याशङ्काऽपोहायाऽऽह-नाविचित्रे तथाभव्यत्वाऽऽदौ सहकारिभेदः / किमिति ?, इत्याह-तदपेक्षस्तक इति तदतत्स्वभावत्ये तदुपनिपाताभादिति / अनेकान्तवादस्तत्त्ववादः सर्वकारणसामर्थ्याऽऽपादनात् स खल्वनेकान्तवाद एवम्। तथाभव्यत्वाऽऽदिभावे इतरथैकान्तः सर्वथा भव्यत्वाऽऽदेस्तुल्यतायाम्। ततः किम् ?, इत्याह मिथ्यात्वमेष एकान्तः / कुतः ?, इत्याह-नातो व्यवस्था एकान्तात् भव्यत्वाभेदे सहकारिभदेस्यायोगात् तत्कर्मताभावात् / कर्मणोऽपि कारकत्वात् अतत्स्वभावस्य च कारकत्वासम्भवादिति भावनीयम् / अत एवाऽऽह-अनार्हतमेतदेकान्ताऽऽश्रयणम् / प्रस्तुतप्रसाधकमेव न्यायान्तर-माह-संसारिण एव सिद्धत्वं, नान्यस्य / कोऽयं नियमः?, इत्याह-नाबद्धस्य मुक्तिः तात्त्विकी, इत्याह-शब्दार्थरहिताबन्धाभावेन। अयं चानादिमान् बन्धःप्रवाहेण संतत्या। कथं युक्तिसङ्गतोऽभूतिभावेन इत्याह-अतीतकालतुल्यः स हि प्रवाहणानादिमाननुभूतवर्तमानभावश्च / यथोक्तम्-" भवति स नामातीतः, प्राप्तो यो नाम वर्तमानत्वम्। एष्यंश्च नाम स भवति, यः प्राप्स्यति वर्तमानत्वम्॥१॥" किं वाऽबद्धबन्धने प्रथम अमुक्तिर्मुक्क्यभावः / कुतः?, इत्याह-पुनर्बन्धप्रसङ्गात् अबद्धत्येन हेतुना / तथा चाऽऽह-अविशेषो बद्धमुक्तयोरिति / अनादिमति बन्धे मोक्षाभावः। तत्स्वाभाविकत्वेनेत्याशङ्कानिराशायाऽऽह-अनादियोगेऽपि सति वियोगोऽविरुद्ध एव काञ्चनोपलज्ञातेन लोके तथादर्शनात, योगो बन्ध इत्यनान्तरम्। आदावबद्धस्य दिदृक्षा, बद्धमुक्तस्य तु न सेति दोषाभावादादिमानेव बन्धोऽस्त्वित्याशङ्काव्यपोहायाऽऽह-न दिदृक्षाऽकरणस्येन्द्रियरहितस्याऽबद्धस्य चैतानि। तथा नचादृष्ट एषा दिदृक्षा, द्रष्टुमिच्छा दिदृक्षेति कृत्वा सहजैवैषेत्यारेकानिराकरणायाऽऽह-न सहजाया निवृत्तिर्दिदृक्षायाश्चैतन्यवत्। अस्तु वेयमित्यभ्युपेत्य दोषमाहन निवृत्तौ दिदृक्षाया आत्मनः स्थानं, तदव्यतिरेकात्। तथा चाऽऽह - न यऽण्णहा तस्सेसा, न भव्यत्ततुल्ला, नाएणं, न केवबलजीवरूवमेअं, न भाविजोगाविक्खाए तुल्लत्तं, तया केवलत्तेणं सया विसेसओ, तहा सहावकप्पणमप्पमाणमेव / एसेव दोसो परिकप्पिआए, परिणामभेआ बंधाइभेउ त्ति साहू / सव्वनयविसुद्धिए निरुवचरिओभयभावेणं / न अप्प भूअंकम्मं न परिकप्पिअमेअं। न एवं भदादिभेओ। न भवाभादो उ सिद्धी / / नान्यथा तन्यैषा आत्मनो दिदृक्षायोगात्। तदव्यतिरेकेऽपि भव्यत्वस्यैव तन्निवृत्तौ दोषाभाव इत्याशङ्काऽपोहायाऽऽह-न भव्यत्वतुल्या न्यायेन दिदृक्षा। कुतः?, इत्याह-न केवलजीवरूपमेत-द्रव्यत्वम्। दिदृक्षा तु केवलजीवरूपेत्यर्थः / न भावियोगापेक्षया महदादिभावे तदा केवलत्वेन तुल्यत्व दिदृक्षाया भव्यत्वेन / अत्र युक्तिमाह-तदा केवलत्वेन भावियोगाभावे सदा अविशेषात्तथा सांसिद्धिकत्वेन तदूर्ध्वमपि दिदृक्षाऽऽपतिरिति हृदयम् / एवं स्वभावैवेयं दिदृक्षा या महदादिभावाद्विकारदर्शने केवलावस्थायां निवर्तते, इत्येतदाशङ्कयाऽऽह-तथा स्वभावकल्पनं कैवल्याविशेष प्रक्रमादिदृक्षाया भावाभावस्वभावकल्पनमप्रमाणमेव / आत्मनस्तद्भेदाऽऽपत्तेः प्रकृतेः पुरुषाधिकत्वेन तद्भावापत्त्येति गर्भः / अत एवाऽऽह-एष एव दोषः प्रमाणाभावलक्षणः परिकल्पितायां दिदृक्षायामभ्युपगम्यमानाया तथाहि परिकल्पिता न किञ्चित्, कथं तत्र प्रमाणवृत्तिरिति / तदेवं व्यवस्थिते सति परिणामभेदादा