________________ पवज्जा 758 - अभिधानराजेन्द्रः - भाग 5 पवज्जा रित्याह-सकृदेकदा न पुनरपि बन्धो मोहनीयकर्मोत्कृष्टस्थितिबन्धनं ययोस्ती सकृदपुनर्बन्धको तयोः, सकृद्वन्धकस्यापुनर्बन्धकस्य चेत्यर्थः / तत्र यो यथाप्रवृत्तकरणेन ग्रन्थिप्रदेशमागतोऽभिन्नग्रन्थिः सकृदेवोत्कृष्टा सागरोपमकोटीकोटीसप्ततिलक्षणां स्थिति भन्त्स्यत्यसौ सकृद्भन्धक उच्यते / यस्तु ता तथैव क्षपयन् ग्रन्थिप्रदेशमागतः पुनर्नता भन्त्स्यति भेत्स्यति च ग्रन्थि सोऽपुनर्बन्धक उच्यते। एतयोश्चाभिन्नग्रन्थित्वेन कुग्रहः सम्भवति, न पुनरविरतसम्यग्दृष्ट्यादीनां, मार्गाभिमुखमार्गपतितयोस्तु कुग्रहसंभवेऽपि तत्त्याग एव तद्भावनामात्रसाध्य इत्यत उक्त सकृद्वन्धकापुनर्बन्धकयोरिति। एतयोश्च भावसम्यक्त्वाभावादीक्षाया द्रव्यसम्यक्त्वमेवमारोप्यत इति / कुग्रहविरहमसदभिनिवेशविशेषवियोग, लघु शीघ्रं, करोति विघत्ते। इह विरहशब्देन हरिभद्राऽऽचार्यकृतत्वं प्रकरणस्यास्याऽऽवेदितं विरहाङ्कत्वात्तस्यत्येवं सर्वत्र / इति गाथाऽर्थः / / 44 / / पञ्चा०२ विव०। (23) इह तु परं तत्फलमभिधातुमाह - स एवममिसिद्धे परमवंभे मंगलालए जम्मजरामरणरहिए पहीणासुहे अणुबंधसत्तिवजिए संपत्तनिअसरूवे अकिरिए सहावसंठिए अणंतनाणे अणंतदंसणे।। स प्रक्रान्तः प्रव्रज्याकारी, एवमुक्तेन सुखपरम्पराप्रकारेणाभिसिद्धः सन / किम्भत इत्याह-परमब्रह्म, सदाशिवत्वेन / मङ्गलाऽऽलयः, गुणोत्कर्षयोगेन / जन्मजरामरणरहितो निमित्ताभावेन / यथोक्तम् - "दग्धे बीजे यथाऽत्यन्तं, प्रादुर्भवति नाङ्करः / कर्मबीज तथा दग्घे, न रोहति भवाडुरः।। 1 / / " इति। प्रक्षीणाशुभ एकान्तेन अनुबन्धशक्तिवर्जितः अशुभमङ्गीकृत्याऽत एव संप्राप्तनिजस्वरूपः केवलो जीवः, अक्रियो गमनाऽऽदिशून्यः, स्वभावसंस्थितः सांसद्धिकधर्मवान् / अत एवाऽऽह-अनन्तज्ञानोऽनन्तदर्शनः, ज्ञेयानन्तत्वात्। स्वभावश्चास्यायमेव / यथोक्तम्-'" स्थितः शीता-शुवजीवः, प्रकृत्या भावशुद्धया। चन्द्रिकावच विज्ञानं, तदावरणमभवत्।।१।।" अथ कीदृशोऽसौ वर्णरूपाभ्याम् ?, इत्याशङ्काऽपोहायाऽऽह - से न सद्दे, न रूवे, न गंधे, न रसे, न फासे, अरूवी सत्ता अणित्थंथसंठाणा अणंतविरिआ कयकिच्चा सव्वाबाहविवजिआ सव्वहा निरविक्खा थिमिआपसंता। असंजोगिए एसाणंदे अओ चेव परे मए / अविक्खा अणाणंदे, संजोगो विओगकारणं, अफलं फलमेआओ विणिवायपरं खु तं, बहुमयं मोहाओ अबुहाणं, जमित्तो विवज्जओ, तओ अणत्था अपज्जवसिआ, एस भावरिऊ परे। अओ वुत्ते उ भगवया / नागासेण जोगो ए-अस्स। से सरूवसंठिए। नागासमण्णत्थ। न सत्ता सदंतरमुवेइ / अचिंतमेअं के वलिगम्मं तत्तं निच्छयमयमेअं / विजागवं च जोगो त्ति | न एस जोगो भिण्णं लक्खणमेअस्स / न इत्याविक्खा सहावो खु एसो अणंतसुहसहावकप्पो / उवगा इत्थ न विजइ / तब्भावेऽणुभवो परं तस्सेव / आणा एसा जिणाणं सवण्णूणं | अवितहा एगंतओ।न वितहत्ते निमित्तं / नचानिमित्तं कर्ज ति। निदंसणमित्तं तु नवरं। स सिद्धः न शब्दो, न रूप, नगन्धो, न रसो, न स्पर्शः, पुद्गलधर्मत्वादमीषाम् / अभावस्तीत्येतदपि नेत्याह-अरूपिणी सत्ता ज्ञानवत् / अनित्थंस्थसंस्थापना, इदंप्रकारमापन्नमित्थम् / इत्थं स्थितमित्थंस्थं, न इत्थंस्थम् अनित्थस्थम् , संस्थानं यस्य। अरूपिण्याः सत्तायाः सा यथोक्ता। अनन्तवीर्या इयं सत्ता प्रकृत्यैव। तथा कृतकृत्यातन्निप्पादनेन निवृत्ततच्छक्तिः, सर्वाऽऽबाधाविवर्जिता द्रव्यतो भावतश्च / सर्वथा निरपेक्षा, तच्छक्त्यपगमेन। अत एव स्तिमिता प्रशान्ता सुखप्रकर्षादनुकूला निस्तरङ्गमहोदधिकल्पा। एतस्याएव परमसुखत्वमभिधातुमाहअसायोगिक एष आनन्दः, सुखविशेषः। अत एव निरपेक्षत्वात् परो मतः प्रधान इष्टः / इहैव व्यतिरेकमाह-अपेक्षाऽनानन्दः, औत्सुक्यदुःखत्वात्। अपेक्ष्यमाणाऽऽप्त्या तन्निवृत्तौ दोषमाह-संयोगो वियोगकारणं, तदवसानतया स्वभावत्वात्। अफलं फलमेतस्मात् संयोगात् / किमिति ? अत आह-विनिपातपरमेव तत्सायोगिकफलम् / कथमिदं बहुमतम् ? इत्याह-बहुमतं मोहादबुधानां पृथग्जनानाम् / तत्रापि निबन्धनमाहयदतो विपर्ययः, मोहादत एवाफले फलबुद्धिः / ततो विपर्यथादना असत्प्रवृत्त्या अपर्यवसिताः सानुबन्धतया। एवमेष भावरिपुः परो मोहः, अत एवोक्तो भगवता तीर्थकरेण। यथोक्तम्-" अण्णाणतो रिपू अण्णो, पाणिणं णेव विजइ। एत्तोऽसक्किरिया तीए, अणत्था विस्सतो सुहा।। 1 / / "यदि संयोगो दुष्टः कथं सिद्धरयाऽऽकाशेन न स दुष्टः ? इत्याशङ्ख्याऽऽहनाऽऽकाशेन सह योग एतस्य सिद्धस्य। किमिति।, अत आह-स स्वरूपसंस्थितः सिद्धः / कथमाधारमन्तरेण स्थितिः ? इत्याशयाऽऽहनाकाशमन्यत्राऽऽधारे। अत्रैव युक्तिर्न सत्ता सदन्तरमुपैति, नवाऽन्यथाऽन्यदन्यत्र / अचिन्त्यमेतत्प्रस्तुतं केवलिगभ्यं तत्त्वम् / तथा निश्चयमतमेतद्यवहारमतं त्वन्यथा सत्यपि तस्मिन्निदं तत्संयोगशक्तिक्ष-यात् सूपपन्नमेव। अभ्युच्चयमाह-वियोगवाँश्च योग इति कृत्वा नैष योगः सिद्धाssकाशयोरिति भिन्नं लक्षणमेतस्याधिकृतयोगस्य,न चात्रापेक्षासिद्धस्य। कथं लोकान्ताऽऽकाशगमनम् ? इत्याह-स्वभाव एवैष तस्य / अनन्तसुखस्वभावकल्पः कर्मक्षयव्यङ्ग्यः। कीदृशमस्यानन्तं सुखम् ? इत्याहउपमाऽत्र न विद्यते, सिद्धसुखे / यथोक्तम्- "स्वयं वेद्यं हि तद्ब्रह्म, कुमारी स्त्रीसुखं यथा। अ-योगी न विजानाति, सम्यक् जात्यन्धवद्धटम् ॥१॥अत एवा-5ऽह-तद्भावे सिद्धसुखभावे अनुभवः परं तस्यैव / एतदपि कथं ज्ञायते ? इत्याह-आज्ञा एषा जिनानां, वचनमित्यर्थः / किंविशिष्टानाम् ? इत्याह-सर्वज्ञानाम् / अत एव अवितथा, एकान्ततः सत्येत्यर्थः / कुतः? इत्याह-न वितथतत्वे निमित्त रागाऽऽद्यभावात्। उक्तं च-" रागाद्वा द्वेषाद्वा, मोहाद्वा वाक्यमुच्यते ह्यनृतम्। यस्त तु नैते दोषास्तस्यानृतकारणं नास्ति // 1 // " न चानिमित्त कार्यमित्यपि / तथा जिनाऽऽज्ञा / एवं स्वसंवेद्यं सिद्धसुखमित्याप्तवादः। निदर्शनमात्र तु नवरं सिद्धसुखस्येदं वक्ष्यमाणलक्षणम्।