________________ पवजा 757 - अभिधानराजेन्द्रः - भाग 5 पवजा साहम्मियपितिए ऊ, हंदिवुड्ढी घुवा होइ।। 39 / / धर्मे दीक्षारूपे दीक्षितजनानुष्ठयश्रुतचारित्ररूपे च, चशब्दः समुच्चयार्थो भिन्नक्रमक्ष / बहुमानात्पक्षपातात , प्रधानभावेन प्राधान्याच धर्मप्रधानत्वात् साधर्मिकाणामिति हृदयम् / तदनुरागात् साधार्मिकस्नेहात्। इह यद्यपि साधर्मिकशब्दः परपदे समस्तश्च वर्तते. तथापि तच्छब्देन स एवं संस्पर्शनीयः, वक्त्रा तथैव विवक्षितत्वात, ववत्राधीनत्वाच्छब्दप्रवृत्तेः, दृश्यते चैवंविधः प्रयोगस्तत्र तत्रेति। किं स्यादित्याह-साधर्मिकप्रीतः समानधर्मजनविषयप्रेमजन्यवात्सल्यस्य। कार्ये कारणोपचारात्। तुशब्दः पुनरर्थः / तदा-वना चैवम्-परिशुद्धभावतोऽधिकृतगुणानां वृद्धिर्भवति, साधर्मिकप्रीतिः पुनर्धर्मबहुमानतः साधर्मिकानुरागादिति। अथवा-धर्मे बहुमानात्प्रीतिमात्रात् प्रधानभावेन धर्मस्योतमत्वबुद्ध्या तदनुरागाच धर्मभक्तेश्चेत्यर्थः / धर्मविषययोः प्रीतिभक्त्योश्चायं विशेषो यथा" यत्रोदराऽस्ति परमः, प्रीतिश्च हितोदया भवति कर्तुः / शेषत्यागेन करोति यच तत्प्रीत्यनुष्ठानम् // 1 // गौरवविशेषयोगाद-बुद्धिमतो यद्विशुद्धतरयोगम्। क्रिययेतरतुल्यमपि, ज्ञेयं तद्भक्त्यनुष्ठानम् // 2 // अत्यन्तवल्लभा खलु, पत्नी तद्वद्धिता च जननीति। तुल्यमपि कृत्यमनयो-ज्ञति स्यात्प्रीतिभक्तिगतम् // 3 ॥''इति। साधर्मिकपीतेस्तु साधर्मिकानुरागरय। हन्दीत्युपप्रदर्शने, वृद्धिर्वर्धनम् ध्रुवा निश्चिता, भवति जायते / इति गाथाऽर्थः / / 36 / / अथ बोधवृद्धेर्लिङ्गतादर्शनायाऽऽह - विहियाणुट्ठाणाओ, पाएणं सव्वकम्मखउवसमो। गाणावरणावगमा, णियमेणं बोहवुड्डित्ति४०॥ विहितानुष्ठानाद् दीक्षादीक्षितसमाचाररूपसद्वृत्तात् , प्रायेण बाहुल्येन, कस्यापि जीवस्य भावविशेषादेव क्षयोपशमो भवतीति प्रायेणेत्युक्तम्। सर्वकर्मक्षयोपशमो निखिलज्ञानाऽऽवरणाऽऽदिघातिकर्मणा विगमविशेषो, भवतीति गम्यम्। घातिकर्मणामिति व्याख्यानम्- ''मोहस्सेवोवसमो, खाओवसमो चउण्ह घाईणं / उदयक्खयपरिणामा, अट्टण्ह वि होंति कम्माणं / / 1 / / '' इति वचनात् / ततश्च ज्ञानाऽऽवरणापगमात् घातिकर्मान्तर्गतस्य ज्ञानाऽऽवरणीयकर्मणः क्षयोपशमाऽऽदेः सकाशानियमेन नियोगेन, बोधवृद्धिर्ज्ञानवर्धनं भवति / इतिशब्दो बोधवृद्धिवक्तव्यतासमाप्तिसंसूचनार्थः / इति गाथाऽर्थः / / 40 / / अथ गुरुभक्तिवृद्धेर्लिङ्गतादर्शनायाऽऽह - कल्लाणसंपयाए, इमिए हेऊ जओ गुरू परमो। इय बोहभावओ चिय, जायइ गुरुभत्तिवुड्डी वि।। 41 // कल्याणानामैहिकाऽऽमुष्मिकश्रेयसां संपत्सपत्तिः कल्याणसंपत्तदबन्ध्यहेतुत्वाद्दीक्षादीक्षितसमाचारश्च कल्याण संपदुच्यतेऽतस्तस्याः / (इमिए त्ति) अस्या अनन्तरोक्तायाः, हेतुः कारणम्, यतो यस्मात् , गुरुर्धर्माऽऽचार्यः, परमः प्रधानो वर्तते / ततः कारणान्महाभक्तिविषयोऽयमिति शेषः / इत्यनेन प्रकारेण कल्याणहेतुत्वेन भक्तिविषयो गुरुरित्येवलक्षणेन यो बोधो ज्ञानंतस्य यो भावः सत्ता स तथा तस्मादिति बोधभावादेव नान्यथा / 'चिय' शब्दोऽवधारणार्थः / जायते भवति गुरुभक्तिवृद्धिरपि धर्माचार्यबहुमानवर्धनमपि, न केवलं स्वहेतोर्बोधवृद्धिरिति गाथाऽर्थः / / 41 / / अथानन्तरोक्तदीक्षागुणानामनन्तरफलं दर्शयन्नाह - इय कल्लाणी एसो, कमेण दिक्खागुणे महासत्तो। सम्म समायरंतो, पावइ तह परमदिक्खं पि।। 42 / / इति एक्तन्यायेन सम्यग्दीक्षाकृतगुणवृझ्यादितल्लिङ्गप्राप्तिलक्षणेन / कल्याणी कल्याणवान् लोकद्वयभाविकल्याणहेतुभूतदीक्षाऽवाप्तेः / भवतीति गम्यते / एषोऽनन्तरोक्तरूपो दीक्षितजीवः / तथा क्रमेण परिपाट्या शुद्धशुद्धतरशुद्धतमयेत्यर्थः / दीक्षागुणान् जिनदीक्षाधर्मान् जिनसाध्वागमभक्तिप्रभावाऽऽदीन् ; समाचरन्निति योगः / महासत्त्वो महानुभावः / सम्यग्भावसारं, समाचरन्ना सेवमानः, प्राप्नोति लभते। तथेति फलान्तरसमुचयार्थः / परमदीक्षामपि सर्वविरतिदीक्षामपि न केवलं कल्याण्वेव भवति इत्यपिशब्दार्थः / अथवा-कल्याणी सन्नेष प्राप्नोति तथा परमदीक्षामपि यथेतरदीक्षां प्राप्त इति हृदयम्। शेषं तथैव / इति गाथाऽर्थः / / 42 // अथ जिनदीक्षाया एव परम्परफलोपदर्शनायाऽऽह - गरहियमिच्छायारो, भावेणं जीवमुत्तिमणुहविउं। णीसेसकम्ममुक्को, उवेइ तह परममुत्तिं पि / / 43 / / गर्हिता निन्दिता मिथ्याऽऽचारा मोक्षमार्गविपरीतसमाचारा मिथ्यात्वाविरतिकषायदुष्टयोगलक्षणा अतीतकालाऽऽसेविता येन स तथा परमदीक्षाऽवाप्त्या। उपलक्षणत्याचास्य वर्तमानानां मिथ्याऽऽचाराणां संवरणम् , अनागतानां च प्रत्याख्यानमिह द्रष्टव्यम् / अन्ये तु मिथ्याऽऽचारलक्षण वदन्ति- " बाह्येन्द्रियाणि संयम्य, य आस्ते मनसा स्मरन्। इन्द्रियार्थान् विमूढाऽऽत्मा मिथ्याऽऽचारः स उच्यते / / 1 / / " इति। कथं गर्हितमिथ्याऽऽचार इत्याह-भावेन परमार्थतो न द्रव्यतएव, उपैति परममुक्तिमपीति योगः / अथवा-भावत इत्येतत्पदमनुभूयेत्यनेन सम्बन्धनीयम्। जीवतः प्राणान् धारयतो मुक्तिर्मोक्षो निःसङ्गताप्रकर्षण जीवन्मुक्तिस्ताम् . अनुभूय संवेद्यः अनुभवन्ति च जीवन्त एव परमदीक्षावन्तो मुक्तिम्। यदाह-" निर्जीतमदमदनाना, वाकायमनोविकाररहितानाम् / विनिवृत्तपराशानामिहैव मोक्षः सुविहितानाम् // 1 // " निःशेषकर्ममुक्तः क्षीणसकलकर्मा, उपैत्युपगच्छति, तथा तेन प्रकारेण जिनदीक्षाजनितगुणप्रकर्षपर्यन्तवृत्तिलक्षणेन, परममुक्तिमपि सकलकौशग्रहणमपि, न केवलं परमदीक्षामपि प्राप्नोतीत्यपिशब्दार्थः। इति गाथाऽर्थः // 43 // अथ प्रकरणोपसंहारायाऽऽह - दिक्खाविहाणमेयं, भाविजंतं तु तंतणीतीए। सइअपुणबंधगाणं, कुग्गहविरहं लहुं कुणइ / / 44 / / दीक्षाविधानं जिनदीक्षाविधिः, एतदनन्तरोक्तम् , (भाविजतं तु त्ति ) भाव्यमानमपि पर्यालोच्यमानमपि, आस्तामासेव्यमानम्, सकृद्वन्धकापुनर्बन्धकाभ्यामिति गम्यम्। अथ भाव्यमानमेव नाभाव्यमानमपि, तुशब्दोऽपिशब्दार्थः, एवकारार्थो वा / तन्त्रनीत्याऽऽगमन्यायेन / कयो