________________ 756 - अभिधानराजेन्द्रः - भाग 5 पवजा पवज्जा इदं च मिथ्यात्वप्रतिक्रमणाऽऽद्यात्मनिवेदनाऽऽद वा दीक्षाविधानं यादृशौ शिष्याऽऽचार्यो कुरुतस्तादृशावथ दर्शयितुमाह - णाणाइगुणजुओ खलु, णिरभिस्संगो पदत्थरसिगो जो। इय जयइन उण अण्णो, गुरू वि एयारिसो चेव / / 34 / / ज्ञानाऽऽदिगुणयुतः खलु सम्यग्ज्ञानश्रद्धानगुरुभक्तिसवप्रभृतिगुणसंपन्न एवेति, यतत इति सम्बन्धः / खलुरवधारणे / निरभिष्वङ्गो मिथ्यादृष्टिव्यवहारेषु बाह्यद्रव्ये च निःस्पृहः / पदार्थरसिक आगमोतदेवतष्वगुरुतत्त्वाऽऽगमतत्त्वजीवाऽऽदिभावप्रीतियुक्तः / चशब्दः समुचये / यो दीक्षितजीवः, स इति गम्यते। इत्यनेन प्रकारेणाऽनन्तरोक्तमिथ्यात्वप्रतिक्रमणसम्यक्त्वप्रतिपत्त्यात्मनिवेदनाऽऽदिलक्षणेन / यतते यत्नं करोति, न पुनरन्यो ज्ञानाऽऽदिगुणयुतादपरः, एवंविधयत्नस्य ज्ञानाऽऽदिगुणयोगसाध्यत्वात्। तथा गुरुरपि न केवलं शिष्य एवंविध एव एवं यलते धर्माऽऽचार्योऽप्येतादृश एव ज्ञानश्रद्धानचारित्रशिक्षाऽनुग्रहबुद्धिसत्त्वाप्रमादाऽऽदिगुणयुतो निःसङ्गः पदार्थरसिकश्चेत्यर्थः न पुनरन्यो ज्ञानाऽदिशून्यस्य प्रागुक्तविधावशक्तत्वात् , ससङ्गस्य दीक्षितेनाऽऽत्मनिवेदने कृतेऽभिष्यङ्गसंभवेन तद्भावशुद्ध्यर्थमाज्ञया प्रवर्त्तनासम्भवात्, पदार्थरसिकताशून्यस्य च देवतत्त्वाऽऽदिप्रतिपादकत्वाभावादिति / चैवशब्दोऽवधारणार्थः / दर्शितं चावधारणम्। इति गाथाऽर्थः / / 34 // यथाविधौ दीक्षकदीक्षितौ यथावद्दीक्षासाधको ख्यातां तथाविधायुक्तो, (प्रथम प्रव्रजतः उपधिग्रहणम्' उवहि शब्दे 1068 पृष्ठ "णिग्गंथस्स" 15 इत्यादिना सूत्रेण प्रतिपादितम्) अथ यथावद्दीक्षितानां प्रशंसामाह - भण्णाणमेयजोगो, धण्णा चेटुंति एयणीईए। धण्णा बहु मण्णंते, धण्णा जे ण प्पसंति / / 35 / / धन्याना भावधनलब्घृणां तत्साधूनां वा, सत्त्वानामिति गम्यते / एतद्योगो जिनदीक्षया सह सम्बन्धः / तथा तद्योगेऽपि धन्याः पुण्यवन्तः, चेष्टन्ते प्रवर्त्तन्ते, एतन्नीत्या दीक्षाऽवसराभ्युपगतन्यायेन त्रिकालं जिनवन्दनपूजनाऽऽदिना / तथा धन्याः पुण्या बहु मन्यन्ते बहुमानविषयीकुर्वन्ति, दीक्षितान दीक्षां वा स्वयं तां कर्मदोषादप्रतिपन्ना अपीति / तथा धन्याः पुण्या ये जीवाः, न प्रदुःष्यन्तिन प्रद्विष्टा भवन्ति, दीक्षायामिति गम्यते / क्षुद्रसत्त्वा हि न केवलं तां न प्रतिपद्यन्ते, मोहान्धतया तस्यामेव द्वेषिणो भवन्तीति / वक्ष्यति च- '' विहिअपओसो जेसि, आसन्ना ते वि सुद्धपत्त त्ति / खुद्दमिगाणं पुण सुद्धदेसणा सिंहनायसमा // 1 // '' इति गाथाऽर्थः / / 35 / / अथ दीक्षितानन्तरं दीक्षितेन यद्विधेयं तदुपदिशन्नाह - दाणामह जहासत्ती, सद्धासंवेगकमजुयं णियमा। विहवाणुसारओ तह, जणोवयारो य उचिओ त्ति / / 36 // दान प्रासुकैषणीयवस्त्रपात्रान्नपानाऽऽदीना सजाऽऽदिभ्यो वितरणम्।। यतः सर्वविरतिदीक्षामधिकृत्योक्तम्- " ऽणतयधयगुलगोरसफासुगपडिलाहणं समणसंघे। असइ गणिवायगाणं, तदसइ सव्वस्स गच्छस्स ||1|| " (अनन्तकं वस्त्र) अपेति दीक्षाग्रहणानन्तरम्। यथाशक्ति शक्तर नतिक्रमेण, चित्तवित्तानुरूपमित्यर्थः / दातव्यमिति शेषः / किम्भूतं तदित्याह-श्रद्धा स्वकीयोऽभिलाषः, पराननुवृत्तिरित्यर्थः / संवेगो मोक्षाभिलाषः, क्रमो देयद्रव्यपरिपाटिलॊकरूढा यथा-ज्येष्ठता वा, एभिर्युत संयुक्तं यत्तथा। नियमादवश्यंभावेन। तथा विभवानुसारतो विभवापेक्षया / तथाशब्दो विध्यन्तरप्रतिपादनपरवाक्योपक्षेपार्थ उत्तरार्धस्याऽऽदौ द्रष्टव्यः। अथवा-तथेति तेन प्रकारेण लोकरूढेन, जनोपचारः स्वजनाऽऽदिलोकपूजा। चशब्दः समुच्चये। उचितः स्वपरयोग्यताऽनुरूपो, विधेय इतिगम्यम्। इतिशब्दः समाप्तौ। तेनैतावदेव दीक्षाऽनन्तरकृत्यमित्यर्थः स्यादिति गाथाऽर्थः // 36 // एतावत्प्रयत्नकृताऽपि दीक्षा सम्यगन्यथा च स्यात्तत्रेयं सम्यग्- दीक्षेति कथमवसेयम् ? उच्यते-लिङ्गतोऽतस्तान्येवाऽऽह अहिगयगुणसाहम्मिय पीईबोहगुरुभत्तिवुड्डी य। लिंगं अव्वभिचारी, पइदियई सम्मदिक्खाए / / 37 / / अधिकृता दीक्षाप्रतिपत्त्याऽङ्गीकृताः प्रस्तुता वा अधिगता वा प्राप्तास्ते च ते गुणाश्च सम्यक्त्वतत्सहभवप्रशमसंवेगनिर्वेदाऽऽस्तिक्यानुकम्पाशुश्रूषाधर्मरागदेवाऽऽदिवैयावृत्त्यकरणाऽऽदयोऽधिकृतगुणाः, ते च साधर्मिकप्रीतिश्च समानधार्मिकानुरागः, बोधश्च तत्त्वावगमो, गुरुभक्तिश्च धर्माऽऽचार्याऽनुराग इति द्वन्द्वः / अतस्तासां वृद्धिदीक्षाऽवसरादारभ्य वर्धनमिति समासः / चशब्दः पुनरर्थः। तद्भावना चैवम्-सम्यग्दीक्षाया दानाऽऽदिकं तावदनन्तरकृत्यमधिकृतगुणसाधर्मिकप्रीतिबोधगुरुभक्तिवृद्धिः पुनर्लिङ्ग गम-कं चिह्नमव्यभिचार्यकान्तिकम्, प्रतिदिवसमहर्निशम, एतचाधिकृतगुणाऽऽदिवृद्धेर्विशेषणम् / कस्या लिङ्गमियमित्याह-सम्यग्दीक्षाया अमिथ्यादीक्षणस्य, एतद्विपर्ययस्तु सामर्थ्यादसयंग्दीक्षायाः। इति द्वारगाथाऽर्थः / / 37 / / अथ सम्यग्दीक्षाया यथाधिकृतगुणबृद्धिर्लिङ्गं भवति, तथा दर्शयन्नाहपरिसुद्धभावओ तह, कम्मखओवसमजोगओ होइ। अहिगयगुणवुड्डी खलु, कारणओ कज्जभावेण / / 38 // . परिशुद्धभावतोऽतिशुद्धाध्यवसायात तथेति तथाप्रकाराद्दीक्षाप्रतिपत्तिरूपादित्यर्थः / वक्ष्यमाणकारणापेक्षया वा समुच्चयार्थस्तथाशब्दः / कर्मणोऽधिकृतगुणाऽऽवरणस्य क्षयोपशमो दीक्षाप्रतिपत्तिरूपपरिशुद्धभावजन्यो विगमविशेषस्तेन यो योगः सम्बन्धः स तथा ततः कर्मक्षयोपशमयोगतः। किमित्याह-भवति जायते। काऽसौ ? अधिकृतगुणवृद्धिः सम्यक्त्वाऽऽदिगुणवर्धनम् / खलुक्यिालङ्कारेऽवधारणे वा। अवधारणार्थत्ये चास्य भवत्येवेत्येवं प्रयोगो दृश्यः / केन कारणेनैतदेवमित्याहकारणतो हेतोः सकाशात् कार्यभावेन फलसद्भावात्। तत्र दीक्षारूपविशुद्धभावः कारणकारण, कर्मक्षयोपशमस्तु कारणम्। तथा शब्दद्वितीयव्याख्यानपक्षे तुं परिशुद्धभावः, कर्मक्षयोपशमश्वेति कारणद्वयम्, अधिकृतगुणवृद्धिश्च कार्यम्। अतः परिशुद्धभावरूपसम्यगदीक्षायामधिकृतगुणवृद्धिः कार्यत्वाद् लिङ्गं भवति। इति गाथाऽर्थः / / 38 / / अथ साधर्मिकप्रीतिवृद्धिर्यथा सम्यग्दीक्षाया लिङ्ग भवति तथा दर्शयन्नाह - धम्मम्मि य बहुमाणा, पहाणभावेण तदणुरागाओ।