________________ पवजा 755 - अभिधानराजेन्द्रः - भाग 5 पवजा अथोक्तविधानादनन्तरं तिसृणां प्रदक्षिणानां समाहारस्त्रिप्रदक्षिणम् , तत्पूर्व प्रथमं यत्र तत्तथा क्रियाविशेषणमिदम् / गुरुं त्रि:प्रदक्षिणीकृत्येत्यर्थः / सम्यक् शुद्धेन तष्वतो निर्मलेन, न कल्पनयेत्यर्थः / चित्तं मनस्तदेव रत्न माणिक्यं प्रकाशस्वभावसाधयाचित्तरत्न, तेन / गुरोर्धमोऽऽचार्यस्य निवेदनीयम्-' भवदीयोऽहं किङ्करो, यूयं मे भवोदधिनिमग्रस्य नाथाः " इत्येवं समर्पणम् / सर्वथैव समस्तैरपि प्रकारैद्धिपदचतुष्पदधनाऽऽद्यर्पणलक्षणैर्मनःप्रभृतिभिर्वा, नतुकथञ्चिदनिवेदनम्। दृढमत्यर्थमय्यभिच रितया। कस्य निवेदनम् ? इत्याह-आत्मनः स्वस्य / अत्र दीक्षायां दत्तायां सत्यामिति गाथाऽर्थः / / 26 // अथ तदात्मनिवेदनं गुरुः प्रतिपद्यते, नवा?; यदिन प्रतिपद्यते तदान युक्त, निष्फलत्वात्तस्येत्याशङ्कां परिहरन्नाह - एसा खलु गुरुभत्ती, उक्कोसो एस दाणधम्मो उ। भावविसुद्धीऍ दर्ड, इहरा वि य बीयमेयस्स / / 30 // यदेतद् गुरूणां सर्वथाऽऽत्मनिवेदनमनन्तरोक्तमेषा इयं, खलुक्यालवारेऽथवाऽवधारणे, तेनैषैव न त्वन्याऽपि / यदाह-" का भक्तिस्तस्य येनाऽऽत्मा, सर्वथा न नियुज्यते। अभक्तेः कार्यमवाऽऽहुरंशेनाप्यनियोजनम् // 1 // " गुरुभक्तिधर्माचार्यबहुमानः / गुरुभक्तिश्च सदा विधेया दुष्प्रतिकारत्वाद् गुरोः तस्याश्च महार्थसाधकत्वात्। उक्तं चानन्तरोतार्थद्वयसंवादि ' तिण्हं दुष्पडियारं समणाउसो ! तं जहा-अम्मापियरस्स, गुरुस्स, भत्तिस्स।" तथा - "गुरुभक्तेः श्रुतज्ञानं भवेत् कल्पतरूपमम् / लोकद्वितयभाविन्यस्ततः स्युः सर्वसम्पदः / / 1 / / " तथा उत्कृष्यत इत्युत्कर्ष उत्कृष्टः। (एस त्ति) इहोत्तरस्यैवकारार्थस्य तुशब्दस्य सम्बन्धादेष एवा-यमेव गुरोरात्मनिवेदनरूपो नान्यः। वस्त्वन्तरदाने हि तदेवकं दत्त स्यात् , आत्मदाने तु सर्वमपीत्यात्मदानधर्मस्यैवोत्कृष्टता। दानधर्मो वितरणरूपं कुशलानुष्ठानम्। विधेयश्चासौ महार्थसाधकत्वात् / यदाह- " दानात्कीर्तिः सुधाशुभ्रा, दानात्सौभाग्यमुत्तमम्। दानात्कामार्थमोक्षाः स्युर्दानधर्मो वरस्ततः॥ 1 // " किं यथाकथञ्चिदपि आत्मनिवेदनमुत्कृष्टदानधर्मो भवति?, नेत्याह-भाववि-शुझ्या परिणामनिष्कलङ्कतया, दृढमत्यन्तम्, परिणामकलद्धं च कीाद्यपेक्षेति। तर्हि भावशुद्ध्यभावे किं स्यादित्याह-(इहरा वि य त्ति) इतरथाऽन्यथाभावविशुद्धिव्यतिरेकणेत्यर्थः / अपि चेति पुनःशब्दार्थ / बीजमिव बीज हेतुर्भवतीति। द्रव्यतोऽपि सदनुष्ठानस्य प्रायो भावानुष्ठानकारणत्वादेतस्योत्कृष्टदानधर्मस्याऽऽत्मनिवेदनमिति प्रकृतम्। इति गाथाऽर्थः / / 30 / / कथमिदं भावविशुद्ध्यभावपूर्वकमात्मनिवेदमुत्कृष्टदानधर्मबीज भवनीत्याहजं उत्तमचरियमिणं, सोउं पि अणुत्तमा ण पारेति / ता एयसगासाओ, उक्कोसो होइ एयस्स / / 31 // यद्यस्मात्कारणात् उत्तमचरितं सत्पुरुषचेष्टितम् इदमनन्तरदर्शितमात्मनिवेदनम् , श्रोतुमप्याकर्णयितुमपि, आस्तामनुष्ठातुम् अनुत्तमा असत्पुरुषाः, न पारयन्ति न शक्नुवन्ति, तथाविधबीजरहितत्वात्तेषाम् / तत्तस्मात्कारणादेतत्सकाशादेतस्माद्भावविशुद्धिविरहविहितोत्त मपुरुषचरितरूपाऽऽत्मनिवेदनादवधेः। तुशब्द एवकारार्थः। तत्प्रयोग च दर्शयिष्यामः / प्रकर्ष उत्कर्षो भवत्येव जायत एव / एतस्यानन्तरगाथोक्तदानधर्मस्य / इदमुक्तं भवति-यद्यप्यात्मनिवेदनरूपो दानधर्मो विशुद्धभावाऽभावे विधीयमानोऽनुत्कृष्टो भवति तथाऽप्युत्तमचरितरूपात्वात्तस्योत्कृष्टतानिमित्तभूताया भावविशुद्धेर्जनकत्वादुत्कृष्टदानधर्मबीजं भवतीति, अतः साधूक्तम्-" इहरा वि य वीयमेयरसत्ति।" अतो गुरुणाऽप्रतितिपन्नत्वेऽपिन निष्फलताऽऽत्मनिवेदनस्येति गाथाऽर्थः / / 31 / / ___ अथ यदि तदात्मनिवेदनं गुरुः प्रतिपद्यते, तदाऽधिकरणदोषो गुरोः स्यादित्याशङ्का परिहरन्नाह - गुरुणो वि णाहिगरणं, ममत्तरहियस्स एत्थ वत्थुम्मि। तब्भावसुद्धिहे, आणाएइ पयट्टमाणस्स / / 32 // गुरोरपि न केवल दीक्षितस्याऽऽत्मनिवेदननिष्फलत्वलक्षणो दोषोऽभिहितयुक्तेन भवति धर्माचार्यस्याऽपि, न नैव / अधिक्रियते दुर्गतावनेनाऽऽत्मेत्यधिकरणम् / दीक्षितेनाऽऽत्मनि निवेदिते परिग्रहाऽऽरम्भानुमतिरूपो दीषो भवतीति गम्यते / किम्भूतस्येत्याह-ममत्वरहितस्य निःसङ्गस्य। क्वेत्याह-अत्रैतस्मिन्ननन्तरोक्ते, वस्तुनि पदार्थ दीक्षितसत्त्वतदीयाऽऽपष्यवित्ताऽऽविरूपे / पुनः किम्भूतस्येत्याह-प्रवर्तमानस्य व्याप्रियमाणस्य / कया?, आज्ञया आप्तोपदेशेन। किमर्थम् ?, तद्भावशुद्धिहेतुं दीक्षितसत्त्वपरिणामविशोधनहेतोः / एवं हि प्रवृत्तौ तस्य भावविशुद्धिरुपजायत इति / एवं चेहानुमानप्रयोगो यदुतदीक्षिताऽऽत्मनिवेदनं गुरोरधिकरणं न भवति, ममत्वरहितत्वात्, शरीराऽऽदिवदिति दृष्टान्तोऽभ्यूह्यः / न च ममत्वरहितत्वमसिद्ध, तदुपकारायाऽऽज्ञया प्रवृत्तत्वाचारित्रोपकाराय भोजनाऽऽदावियेति गाथाऽर्थः / / 32 // एवं दीक्षाविधिं परिसमाप्य दीक्षितोपदेशं प्रत्याचार्य स्योपदेशमाहगाऊण य तब्भावं, जह होइ इमस्स भाववुड्डि त्ति। दाणादुवदेसाओ, अणेण तह एत्थ जइयव्वं / / 33 // ज्ञात्वा च विज्ञाय पुनः, तद्भावं दीक्षितपरिणाममाकाराऽऽदिभिः / यदाह" आकाररिद्भितेर्गत्या, चेष्टया भाषणेन च। नेत्रवक्त्रविकारैश्च, गृह्यतेऽन्तर्गतं मनः / / 1 / / " यथा येन प्रकारेण भवति जायते। (इमरस त्ति) अस्य दीक्षितस्य, धर्मवृद्धिीक्षार्थ समृद्धिः / इति-शब्दः समाप्तौ / तस्य च"जइयव्वं ' इत्यत्र गाथान्ते प्रयोगः / दानाऽऽदीनां वितरणप्रभृतीनाम् / आदिशब्दाद् गुरुसेवातपःप्रभृतीनां चोपदेशः / प्रवर्तनमादिर्यस्य कुसंसर्गनिषेधाऽऽदेः स तथा तत्र दानाऽऽद्युपदेशाऽऽदौ, अनेन दीक्षाऽऽचार्येणः तथा तेन प्रकारेण, अत्र दीक्षायां दत्तायां सत्याम् , यतितव्यं यत्नो विधेयः। तत्र दानोपदेशो, गुरुसेवोपदेशश्च यथा " न्यायात्तं स्वल्पमपि हि, भृत्यानुपरोधतो महादानम्। दीनतपस्व्यादौ गु-र्वनुज्ञया दानमन्यत्तु // 1 // एवं गुरुसेवाऽऽदिच, काले सद्योगविघ्नवर्जनया। इत्यादिकृत्यकरणं, लोकोत्तरतष्वसंप्राप्त्यै // 2 // " इति गाथार्थः // 33 //