________________ पवज्जा 750 - अभिधानराजेन्द्रः - भाग 5 पवज्जा नियुक्तमिति / अन्यथाऽविध्यध्ययनेऽनियोगः, नियोगादन्योऽनियोगः पिपर्ययानियोग इत्यर्थः / अत एवाऽऽह- अविधिगृहीतमन्त्रज्ञातेन तत्रापि ग्रहाऽऽदिभावाद्विपर्ययात् योग एव / अनाराधनायामेकान्तेन प्रवृत्तस्य न किञ्चिदिष्टमनिष्ट वा फलम्। मोक्षोन्मादाऽऽदिसदनुष्ठान हि मोक्षफलमेव / यथोक्तम्- 'श्रामण्यस्य फलं मोक्षः, प्रधानमितरत् पुनः / तत्त्वतोऽफलमेवेह, ज्ञेय कृषिपलालवत् / / 1 / / ' भङ्गस्याप्युन्मादाऽद्येव / यथोक्तम्- "उम्मादं च लभेजा, रोगातकं वपाउणो दीहं / केवलिपण्णताओ, धम्माओ वावि भंसेज्जा // 1 // ' न पुनरसम्यक्त्वमेव कथमत्रानाराधनायां न किञ्चित् ? इत्याह-तदनारम्भतो ध्रुवं तत्त्वतस्तस्यानारम्भात् / न चान्यस्मिन्नेवोद्भवत्यतिप्रसङ्गात् / इहैव लिगमाहअत्रानाराधनायां मार्गदशनायां तात्त्विकायां दुःखं शृण्वतो भवति। उक्तं च- "शुद्धदेशना हि क्षुद्रसत्त्वमृगयूथसंत्रासनसिंहनादः" तथा अवधीरणा मनाग्लघुतरकर्मणो नदुःखम्। तथा अप्रतिपत्तिस्ततोऽपि लधुतरकर्मणो नावधीरणा। ततः किम्? इत्याह-नैव मनाराधनयाऽधीतमधीतं सूत्रतत्त्वतः / कुतः? इत्याह-अवगमविरहेण सम्यगवबोधाभोवन / नैषा मार्गगामिन एकान्तमनाराधना भवति / सम्यक्त्वाऽऽदिभावे सर्वथा सत्क्रियायोगात्। अत एवाऽऽह-विराधना प्रक्रमादध्ययनस्य अनर्थमुखा उन्मादाऽऽदिभावेन / अयं च गुरुतरदोषापेक्षयाऽर्थहेतुः / पारम्पर्येण मोक्षागमेवेत्यर्थः / कुतः? इत्याह-तस्याऽऽरम्भाद् ध्रुवं मोक्षगमनस्यैवाऽऽरम्भात् / कण्टकज्वरमोहोपेतमार्गगन्तृवत्। उक्तं च- "मुनेमर्गिप्रवृत्तियो, सा सदोषाऽपि सैव हि / कण्टकज्वरसंमोहयुक्तस्येव सदध्वनि।।१।। एतद्भावे लिङ्गमाह अत्र विराधनाया सत्या मार्गदेशनायां पारमार्थिकायामनभिनिवेशः शृण्वतो भवति, हेयोपादेयतामधिकृत्य यथाह-समेषु स्खलन्नन्धबधिरवन्मूकवच रूपाऽऽदिषु तथा संमोहादिति। तथा प्रतिपत्तिमात्रं मनाविराधकस्य नानभिनिवेशः। तथा क्रियाऽऽरम्भोऽल्पतरविराधकस्य न प्रतिपत्तिमात्रम्। एवं किम्? इत्याह-एवमपि विराधनयाऽधीतमधीतं सूत्र भावतः। कुतः? इत्याह-अवगमलेशयोगतः सम्यगवबोधलेशयोगेन। अयं सवीजो नियमेन / विराधकः सम्यग्दर्शनाऽऽदियुक्त इत्यर्थः / कुतः? इत्याह-मार्गगामिन एवैषा विराधना, प्राप्तबीजस्येति भावः / न सामान्येनैव / किं तहपायबहुलस्यानिरुपक्रमक्लिष्टकर्मवतः, निरपायो यथोदितः मार्गगामीति प्रक्रमः / एतदेवाऽऽह-सूत्रोक्तकारी भवति सबीजो निरपायः प्रवचनमातृसङ्गतः सामान्येन तद्युक्तः / विशेषेणैतदेवाऽऽह-पञ्च-समितःत्रिगुप्तः / ईर्यासमित्याद्याः समितयः पञ्च / मनोगुप्त्याद्याश्च तिरस्रो गुप्तय इति / सम्यग्ज्ञानपूर्वकमेवमित्याह-अनर्थपरश्चारित्रमाणक्षरणेन। एतत्त्यागः प्रवचनमातृत्यागः / सम्यगेतद्विजानातीतियोगः। कस्यानर्थपर एतत्त्यागः? इत्याह-अव्यक्तस्य भावबालस्य। केनोदाहरणेन? इत्याह-शिशुजननीत्यागज्ञातेन, शिशोर्बालस्य जननीत्यागोदाहरणेन. स हि तत्त्यागाद्विनश्यति। व्यक्तोऽत्र कः? इत्याह-व्यक्तोऽत्र भावचिन्तायां केवली सर्वज्ञ एतत्फलभूतः प्रवचनमातृफलभूतः, सम्यग्भावपरिणत्या। एत-द्विजानात्यनन्तरोदितम्। एतदेवाऽऽह-द्विविधया परिज्ञयाज्ञ-परिज्ञया, प्रत्याख्यानपरिज्ञया च। ज्ञपरिज्ञाऽवबोधमात्ररूपा, प्रत्याख्यानपरिज्ञा तदर्भक्रियारूपा। तहा आसासपयासदीवं संदीणाऽथिराइभेअं(?) असंदीणथिरत्थमुज्जमइ / जहासत्तिमसंभंते अणूसुगे असंसत्तजोगाराहए भवइ उत्तरुत्तरजोगसिद्धीए मुच्चइ पावकम्मुण त्ति / विसुज्झमाणे आभवं भावकिरिअमाराहेइ। पसमसुहमणुहवइ अपीडिए संजमतवकिरिआए अवहिए परीसहोवसग्गे हिं बाहिअसुकिरिआनाएणं। तथा आश्वासप्रकाशद्वीपं दीपं वा सम्यग्विजानातीति वर्त्तते। किविशिएम् ? इत्याह-स्पन्दनस्थिराऽऽदिभेदम् (?) / इहभवाब्धावाश्वासद्वीपो, मोहोन्धकारे दुःखगहने प्रकाशदीपश्च। तत्राऽऽद्यः स्मन्दनवानस्पन्दनवॉश्च, प्लावनवानप्लावनवांश्चेत्यर्थः / इतरोऽपि स्थिरोऽस्थिरश्च / अप्रतिपाती, प्रतिपाती चेत्यर्थः। अयं च यथासंख्य मानुष्ये क्षायोपशमिकक्षायिकचारित्ररूपः, क्षायोपशमिकक्षायिकज्ञानरूपश्च / उभत्राऽऽद्योऽनाक्षेपेणेष्टसिद्धये, सप्रत्यपायत्वात् / चरमस्तु सिद्धये, निष्प्रत्यपायत्वात् / सम्यगेतद्विजानाति, न केवलं विजानाति / अस्पन्दनवत् स्थिरार्थमुद्यमं करोति सूत्रनीत्या। कथम् ? इत्याह-यथाशक्तिशक्त्यनुरूपम्, असंभ्रान्तो भ्रान्तिरहितः, अनुत्सुक औत्सुक्यरहितः, फलं प्रति / असंसक्तयोगाऽऽराधको भवति / निःसपत्नश्रामण्यव्यापारकर्ता, सूत्रानुसारित्वात्। सूत्रं च- "जोगो जोगो जिणसासणम्मि दुक्खक्खया पउंजतो। अण्णोण्णमवाहतो, असवत्तो होइ कायव्यो / / 1 / / ' एवमुत्तरोत्तरयोगसिद्ध्या, धर्मव्यापारसिद्धयेत्यर्थः / किम ? इत्याहमुच्यते पापकर्मणा तत्तद्गुणप्रतिबन्धकेन इति / एवं विशुद्ध्यमानःसन् आभवं आजन्माऽऽसंसारं वा भावक्रियां निर्वाणसाधिकामाराधयति निष्पादयत्यौचित्याऽऽरम्भनिर्वहणरूपाम् / तथा प्रशमसुखमनुभवति। तात्त्विकं कथम् ? इत्याह-अपीडितः संयमतपक्रियया आश्रवनिरोधानशनाऽऽदिरूपया / तथा अव्यथितः सन् परीषहोपसर्गः क्षुद्दिव्याऽऽदिभिः / कथमेतदेवम्? इति निदर्शनमाह-व्याधितस्य सुक्रियाज्ञातेन रोगितस्य शोभनक्रियोदाहरणेन। एतदेवाऽऽहसे जहानामए केइ महावाहिगहिए अणुहूअतटवेअणे विण्णाया सरूवेण निविण्णे तत्तओ। सुविञ्जवयणेण सम्मं तमवगच्छिअ जहाविहाणओ पवण्णे सुकिरिअं। निरुद्धजहिच्छाचारे तुच्छपत्थभोई मुच्चमाणे वाहिणा निअत्तमाणवेअणे समुवलब्भारोग्गं पवड्डमाणतब्भावे तल्लाभनिव्वुइए तप्पडिबंधाओ सिराखाराइजोगे विवाहिसमारुगविण्णाणेण इट्ठनिप्फत्तीओ अणाकुलभावयाए किरिओवओगेण अपीडिए अव्वहिए सुहलेस्साएवढए। विजं च बहु मण्णइ। तद्यथा- कश्चित्सत्त्वो महाव्याधिगृहीतः, कुष्टाऽऽदिग्रस्त इत्यर्थः। अनुभूततवेदनः अनुभूतव्याधिवेदनः। विज्ञाता स्वरूपेण वेदनायाः, न कण्डगृहीतकण्डूयनकारिवद्विपर्यस्तः। निर्विण्णस्तत्त्वतः, तद्वेदनयेति प्रक्रमः / ततः किम्? इत्याह- सुवैद्यवचनेन हेतुभूतेन सम्यगवैपरीत्येन तंव्याधिमक्गभ्य यथाविधानतो यथाविधानेन देवतापूजाऽऽदिलक्षणेन,