________________ पवज्जा 745 - अभिधानराजेन्द्रः - भाग 5 पवज्जा . सखल्वाहकुलपुत्तो तगराए, असुहभवक्खयनिमित्तमेवेह। पव्वामि अहं भंते !, इह गज्झो भयण सेसेसु / / 117 / / कुलपुत्रोऽहं तगरायां नगर्यामित्येतद्ब्रह्मणमथुराऽऽद्युपलणं वेदितव्यमिति / अशुभभवक्षयनिमित्तमेवेह, भवन्त्यस्मिन्कर्मवशवर्तिनः प्राणिन इति भवः संसारस्तत्परिक्षयनिमित्तमित्यर्थः / प्रव्रजामि अहं भदन्त! इति एवं ब्रुवन् ग्राह्यः, भजना शेषेषु अकुलपुत्रान्यनिमित्ताऽऽदिषु / इयं च विशिष्टसूत्रानुसारतो द्रष्टव्या / उक्तं च- "जे जहिँ जुगुच्छिया खलु, पव्यावणवसहिभत्तपाणेसुं। जिणवयणे पडिकुजा, वज्जेयव्वा पयत्तण 111 / / '' इत्यादिति गाथाऽर्थः / प्रश्न इति व्याख्यातम्। (12) कथामधिकृत्याऽऽहसाहिज्जा दुरणुचरं, कापुरिसाणं सुसाहुकिरिअंति। आरंभनियत्ताण य, इह परभविए सुहविवागे॥११८॥ साधयेत् कथयेत् दुरनुचरांकापुरुषाणां क्षुद्रसत्त्वाना सुसाधुक्रियामिति, तथा आरम्भनिवृत्तानां च इहपरभविके शुभविपाकान् प्रशस्तभवदेवलोकगमनाऽऽदीनि इति गाथार्थः। जह चेव उ मोक्खफला, आणा आराहिआ जिणिंदाणं। संसारदुक्खफलया, तह चेव विराहिआ होइ / / 116 / / यथैव तु मोक्षफला, भवतीति योगः ! आज्ञा आराधिता अखण्डिता सती जिनेन्द्राणां संवन्धिनीति, संसारदुःखफलदा तथैव च विराधिता खण्डिता भवतीति गाथाऽर्थः। किंचजह वाहिओ उ किरिअं, पवत्तिउं सेवई अपत्थं तु। अपवण्णगाउ अहियं, सिग्धं च स पावइ विणासं / / 120|| यथा व्याधितस्तु कुष्ठाऽऽदिग्रस्तः क्रियां प्रतिपत्तुं चिकित्सामाश्रित्य सेवते अपथ्यं तु। स किमित्याह-अप्रपन्नात्सकाशादधिकं शीघ्रं च स प्राप्नोति, विनाशमपथ्यसेवनेन प्रकटितव्याधिवृद्धरितिगाथाऽर्थः / एमेव भावकिरिअं, पवत्तिउं कम्मवाहिखयहे। पच्छा अपत्थसेवी, अहियं कम्मं समज्जिणइ॥१२१|| एवमेव भावक्रियां प्रव्रज्या प्रतिपत्तुं. किमर्थमित्याह-कर्मव्याधिक्षयहेतोः पश्चादपथ्यसेवी प्रव्रज्याविरुद्धकारी अधिकं कर्म समार्जयति, भगवदाज्ञाविलोपनेन कूराऽऽशयत्वादिति गाथाऽर्थः / कथति व्याख्याता। (13) परीक्षामाहअन्भुवगयं पि संतं, पुण परिखिज्जइ पवयणविहीए। छम्मासं जाऽसज्ज व, पत्तं अद्धाए अप्पबहुं / / 122 / / अभ्युपगलमपि अङ्गीकृतमपि सन्तं पुनः परीक्षेत प्रवचनविधिना स्ववर्याप्रदर्शनाऽऽदिना, कियन्तं कालं यावदित्याहषण्मासं यावदासाद्य वा पात्रमदायाः अल्पबहुत्वमद्धा कालः, सपरिणामके पात्रके विशेष अल्पतर इतरस्मिन् वहुतरोऽपीति गाथाऽर्थः / परीक्षेति व्याख्यातम्। (14) साम्प्रतं सामायिकाऽऽदिसूत्रदानमाहसोभणदिणम्मि विहिणा, दिज्जा आलावगेण सुविसुद्धं / सामाइआइसुत्तं, पत्तं नाऊण जं जोग्गं / / 123 / / शोभनदिन विशिष्टनक्षत्राऽऽदियुक्त विधिना चैत्यवन्दननमस्कारपाटनपुरस्सराऽऽदिना दद्यादालापकेन, न तु प्रथमेव पट्टिकालिखनेन सुविशुद्ध स्पष्ट सामायिकाऽऽदिसूत्रं, प्रतिक्रमणेपिथिकाऽऽदीत्यर्थः / पात्र ज्ञात्वा यद्योग्यं तद्दद्यान्न व्यत्ययेनेति गाथाऽर्थः / उक्तं सत्रदानम् / (15) शेषविधिमाहतत्तो अ जहाविहवं, पूअं स करिग्ज वीयरागाणं / साहूण य उवउत्तो, एअंच विहिं गुरू कुणइ / / 124 / / ततश्च तदुत्तरकालं यथाविभवं शो यस्य विभवः, विभवानुरूपमित्यर्थः, पूजा स प्रवद्रजिषुः कुर्याद्वीतरागाणां जिनानां माल्याऽऽदिना, साधूना वस्त्राऽऽदिना, उपयुक्तः सन्निति / एनं च वक्ष्यमाणलक्षणं विधि गुरुराचार्यः करोति / सूत्रस्य त्रिकालगोचरत्वप्रदर्शनार्थं वर्तमाननिर्देश इति गाथाऽर्थः। चिइवंदणरइहरणं, अट्ठा सामाइयस्स उस्सग्गो। सामाइयतियकवण, पयाहिणं चेव तिक्खुत्तो।।१२५|| चैत्यवन्दनं करोति रजोहरणमर्पयति, अष्टां गृह्णाति, सामायिकस्यात्सर्ग इति कायोत्सर्ग च करोति, सामायिकत्रयाऽऽकर्षणमिति त्रिस्नो वाराः सामायिक पठति, प्रदक्षिणां चैव त्रिः तिस्रो वाराः शिष्यं कारयतीति गाथासमुदायाऽर्थः। अथावयवार्थ त्वाहसेहमिह वामपासे, ठवित्तु तो चेइए पवंदति / साहूहिँ समं गुरवो, थुइवुड्डी अप्पणो चेव / / 126 / / शिष्यक मिह प्रव्रज्याऽभिमुखं वामपाचे स्थापयित्वा ततश्चैत्या - न्यहतप्रतिमालक्षणानि प्रवन्दन्ते साधुभिः समं गुरवः, रतुतिवृद्धिरात्मनैवेति आचार्या एवछन्दःपाठाभ्या प्रवर्त्तमानाः स्तुतीर्ददतीतिगाथाऽर्थः। (16) वन्दनविधिमाहपुरओ वजंति गुरवो, सेसा वि जहक्कम तु सट्ठाणे। अक्खलिआइकमेणं,विवज्जए होइ अविही उ॥१२७॥ पुरतएव तिष्ठन्ति गुरव आचार्योः, शेषा अपि सामान्यसाधवः यथाक्रममेव ज्येष्ठार्थतामङ्गीकृत्य स्वस्थाने तिष्ठन्ति, तत्रास्खलिताऽऽदिन स्खलितं न मिलितमित्यादिक्रमेण परिपाट्या, सूत्र-मुच्चारयन्तीति गम्यते / विपर्यय स्थानमुच्चारणं वा प्रति भवति। अविधिरवन्दन इति गाथाऽर्थः / एतदेवाऽऽहखलियमिलियवाइद्धं, हीणं अच्चक्खराइदोसजुअं। वंदंताणं नेआऽसामायारित्ति सुत्ताणं / / 128 // स्खलितमुपताऽऽकुलायां भूमौ लाङ्गलवत्. मिलित विसदृशधान्याऽऽमलकवत, व्याविद्ध विपर्यस्तरत्नमालावत्, हीनन्यूनम, अल्यक्षराऽऽदिदोषयुक्तमिति, अत्यक्षरमधिकाक्षरम्, आदिशब्दादप्रतिपूर्णाऽऽदिग्रहः / इत्थं वन्दमानानां ज्ञेया असामाचारी अस्थितिसूत्राऽऽज्ञा आगमार्थ एवंभूत इति गाथाऽर्थः / व्याख्यातं चैत्यवन्दनद्वारम्। प्रव्रज्यां व्याचिख्यासुराहवंदिय पुणुट्ठिआणं, गुरूण ता वदणं समं दाउं।