________________ पवज्जा 743 - अभिधानराजेन्द्रः - भाग 5 पवज्जा दीक्षाराग लक्षयितुं गाथात्रयमाहपयतीए सोऊण व, दटठूण व केइ दिक्खिए जीवे / मग्गं समायरंते, धम्मियजणबहुमए निचं / / 5 / / एई चेव सद्धा, जायइ पावेज कहमहं एयं ? भवजलहिमहाणावं, णिरवेक्खा साणुबंधा य // 6 // विग्धाणं चाभावो, भावे विय चित्तथेजमच्चत्थं / एयं दिक्खारागो, णिघिटुं समयके ऊहिं / / 7 / / प्रकृत्या निसर्गेण, स्वतः सम्भूततथाविधकर्मक्षयोपशमेनेत्यर्थः। एतस्यां | श्रद्धा जायत इति सम्बन्धः / तथा श्रुत्वाऽऽकर्ण्य दीक्षागुणाऽऽदिप्रतिपादनपरं श्रुतधर्ममिति गम्यते। अथवा-दीक्षितान्जीवानिति सम्बध्यते। वाशब्दो विकल्पार्थः / दृष्ट्वा वा चक्षुषोपलभ्य, कानित्याह-(केइ ति) कांश्चित्, न सर्वान्, सर्वेषां दीक्षितत्वासम्भवात्। अथवा-कांश्चित्सामान्यान् स्वजातिभिः स्वदेशाऽऽदिभिरविशेषितान्। अनेनाविशेषेण गुणिषु प्रमोदमावेश्यति। दीक्षितान् प्रतिपन्नजिनदीक्षान् / ततः किंभूतास्तान ?-मार्ग सम्यग्दर्शनाऽऽदिरूपं निर्वाणनगरगमनपथम्, समाचरतो विद-धतः। तथा धार्मिकजन बहुमतान् धर्मचारिलोकसंमतान्, नित्यं सर्वदेति / इह च प्रकृत्येत्यनेन निसर्गतःसम्यग्दर्शनप्रतिपत्तिरुक्ता, श्रुत्वा वा दृष्ट्वा वेत्यनेन चाधिगमत इति प्रकारद्वयमेव चास्य प्रतिपत्तौ स्यात्। य दाह- तन्निसर्गादधिगमाद्वेति / " (तत्त्वार्थः) / / 5 / / एतस्यामेव प्रस्तुतदीक्षायां, न दीक्षान्तरे, श्रद्धा रुचिः, जायते प्रादुर्भवति। श्रद्धामेयोल्लेखतो दर्शयतिप्राप्नुयां लभयम्, कथं केन प्रकारेण ? अहमेतां दीक्षाम। किम्भूतां? भवजलधिमहानावं संसारसमुद्रतरणमहाद्रोणीम्। किभूता श्रद्धेत्याह-निरपेक्षा निःस्पृहा, सांसारिकफलानि प्रति लौकिकधर्मदेवगुरुत्वाप्रतीत्याविद्यमानापेक्षेत्यर्थः / यत एतत्त्याग एव दीक्षा / यदाह- "समणोवासओ पुटवामेव मिच्छत्ताओपडिक्कमति सम्मत्तं उवसंपनति, नो से कप्पति अजप्पभिई अन्नउत्थिए वा अन्नउत्थियदेवयाणि या।" इत्यादि। सानुबन्धाऽव्यवच्छिन्नतद्भावसन्ताना, चशब्दः समुचय इति।।६।। तथा-विघ्नानां दीक्षाप्रतिपत्तिप्रत्यूहानाम् / चशब्दः समुचये। अभावोऽविद्यमानता, श्रद्धालक्षणशुभभावव्यपोहित्वात्तेपाम्। भावेऽपि च निरुपक्रमल्किष्टकर्मदोषाद्विघ्नानां सद्भावेऽपिच; अपि चेति समुच्चयार्थः / चित्तस्थैर्य दीक्षां प्रति मनोदायम्, अत्यन्तम्, यदिति शेषः / एतदनन्तरोक्त श्रद्धाविघाभावचित्तदायरूपं त्रयम्। किमित्याहदीक्षारागा दीक्षाऽनुरागः, निर्दिष्ट कथितम्। कैरित्याह-समयकेतुभिः प्रकाशकत्वेन सिद्धान्तचिह्नभूतैः समयज्ञैरिति यावत्। इति गाथात्रयार्थः // 7 / / उक्तो दीक्षारागोऽथ लोकविरुद्धत्यागाभिधित्सया लोक विरुद्धानुष्ठानोपदर्शनायाऽऽहसव्वस्स चेव जिंदा, विसेसओ तह य गुणसमिद्धाणं। उजुधम्मकरणहसणं, रीढा जणपूयणिज्जाणं / / 8 / / बहुजणविरुद्धसंगो, देसादाचारलंघणं चेय। उल्लणभोगो य तहा, दाणाइ वि पगङमण्णे तु | साहुवसणम्मि तोसो, सइ सामत्थम्मि अपडियारो य / एमाइयाणि एत्थं, लोगविरुद्धाणि णेयाणि / / 10 / / सर्वस्यैव समस्तस्यैव लोकस्य, चैवशब्दोऽवधारणे। तेन न पुनः करयचिदेव / निन्दा जुगुप्सा, लोकविरुद्धमिति सर्वत्र योज्यम्। निन्द्यमानो हि लोको निन्दक प्रति विरुद्धो भवत्यतो लोकविरुद्धम्। एवं सर्वत्र भावना कार्या। तथा विशेषतो विशेषेण नितरामित्यर्थः / तथा चेति पुनरर्थः / गुणसमृद्धानां ज्ञानाऽऽदिगुणर्द्धिमतामाचार्याऽऽदीनाम् / निन्देति प्रकृतमेव / गुणवतां हि बहुलोकः पक्षपाती भवत्यतस्तन्निन्दा विशेषतो लोकविरुद्धमिति भावः। ऋजूनामव्युत्पन्नवुद्धीनांधर्मकरणे स्वबुद्ध्यनुसारेण कुशलानुष्ठानाऽऽसेवने हसनमुपहासो धूर्तर्विडम्बिताः खल्वेत इत्यादिरूप ऋजुधर्मकरणहसनम् / वहवो ह्यव्युत्पन्ना एव लोकाः, तेच तवर्माऽऽचारहसने सति विरुद्धा एव भवन्ति। तथा रीढा हीला, जनपूजनीयानां राजामात्यश्रेष्ठितद्गुरुप्रभृतीनाम् / भावनाभिप्रायः प्रतीत एव // 8|| तथा बहुजनैः प्रभूतलोकैः सह ये विरुद्धास्तदपकारकत्वेन विरोधवन्तस्तैः सार्ध यः सङ्गः सम्पर्कः स तथा देशाऽऽद्याचारलङ्घनमेव च जनपदग्रामकुलप्रभृतिसमाचारातिक्रम एव च। पुनस्तदनुलड्घनमपि। चशब्दः समुच्चये। एवकारश्वावधारणे। अनयोश्च प्रयोगों दर्शित एव / तथोल्ल्वणः खिड्गजनाऽऽचरितो भोगो वस्त्रपुष्पाऽऽदिभिर्देहसत्कार उल्ल्वणभोगः / तथा तेन प्रकारेण देशकालविभववयोऽवस्थाssधनौचित्यलक्षणेन / तथा दानाऽऽद्यपि वित्तवितरणतपःप्रभृतिकमपि, न केवलमुल्ल्वणभोग इवेत्यपिशब्दार्थः / किम्भूतं दानाऽऽदीत्याहप्रकटमगम्भीरतया लोकप्रकाशम् / अन्ये त्वपरे पुनराचार्याः लोकविरुद्धमाहुरिति गम्यम्। तथाविधदानाऽऽदिविधावकस्य हि लोक उपहासकारी स्यादिति लोकविरुद्धतेति॥६॥ तथासाधुव्यसने दुष्टराजाऽऽदिजनितायां शिष्टजनानामापदि, तोषःप्रमोदः। अत्र हि साधवस्तत्पाक्षिकाश्च विरुद्धा भवन्ति / तथा सति विद्यमाने, सामर्थ्य साधुव्यसनपरित्राणबले, अप्रतिकारो व्यसनापरित्राणम्। चशब्दः समुच्चये।लोकविरुद्धमितियोगः। शेषलोकविरुद्धोपलक्षणार्थमाह-एवमेतानि सर्वजननिन्दाऽऽदीनि, आदिः प्रकारो येषां तात्थेवमादिकानि। आदिशब्दात्पैशुन्याऽऽदिग्रहः / (एत्थं त्ति) अत्र जिनदीक्षाऽधिकारे, लोके वा, लोकविरुद्धानि लोकविरोधवन्त्यनुष्ठानानि, ज्ञेयानि ज्ञातव्यानि जपपरिज्ञया, प्रत्याख्यानपरिणया तु परिहर्त्तव्यानीति गाथात्रयार्थः।।१०।। अथ सुन्दरगुरुयोगं दर्शयन्नाहणाणाइजुओ उगुरू, सुविणे उदगादितारणं तत्तो। अचलाइरोहणं वा, तहेव वालाइरक्खा वा // 11 // ज्ञानाऽऽदियुतश्च गुरुः / इह चशब्दस्तुशब्दो वा पुनरर्थः / तस्य चैवं प्रयोगः-लोकविरुद्धानि, तावत्सर्वजननिन्दाऽऽदीनि, गुरुश्च दीक्षाऽऽचार्यः पुनानादियुतः सम्यग्ज्ञानदर्शनचारित्र युक्तः सुन्दरो अवतीति हृदयम्। अथवा-ज्ञानाऽऽदियुत एव गुरुर्भवतीत्येवमयधारण व्याख्येयम् / अथ तद्योगः क इत्याह-स्वमे निद्रासंवलितमनोविज्ञानविशेषरूपे, उदकाऽऽदिभ्यो जलानलगाऽऽदिभ्यस्तारणम् / ततो गुरोःसकाशात् दीक्षाकामस्य / एतच सुन्दरगुरुयोगपरिज्ञानहेतुत्वात्सुन्दरयो