________________ पवज्जा 742 - अभिधानराजेन्द्रः - भाग 5 पवज्जा सूत्र पुनः 'से हु चाई" इत्यादिव्यवहारनयविषयं व्यवहारतस्तावदेव स्वाधीनत्वात्तपआदिभावेन तपसा अनिदानेन, आदिशब्दात कोटित्रयोधमपरित्यागेन बहुः सूत्रोक्तः, अपि शब्दार्थे वा सोऽप्यन्योऽपि ततो भवति, त्यागीति गाथाऽर्थः। किचको वा कस्स न सयणो, के वा केणं न पाविआ भोगा। संतेसु वि पडिबंधो, दुट्ठो त्ति तओ चएअव्यो / / 107 / / को वा कस्यन स्वजनः के वा केन न प्राप्ताभोगा अनादी संसारे इति। तथा सत्स्वपि स्वजनाऽऽदिषु प्रतिबन्धो दुष्ट इत्यसौ त्यक्तव्यः, असत्स्वपि तत्संभवादिति गाथाऽर्थः। उभययुक्तानां तु गुणमाहवण्णा य उभयजुत्ता, धम्मपवितीइ हुँति अन्नेसिं। जं करणमिहं पायं, केसिं चि कयं पसंगेणं / / 10 / / केसि ति दारं रायं / वन्याश्चोभययुक्ता बाह्यत्यागविवेकत्यागद्वयसंपन्नाः, किमित्यत आह-धर्मप्रवृत्तेर्भवन्ति, अन्येषां प्राणिनां, यद्यस्मात्कारणदिह प्रायेण केषाश्चिदन्येषामिति कृतं प्रसङ्गेनेति गाथाऽर्थः ! केभ्य इति व्याख्यातम् / इदानी कस्मिन्निति व्याख्यायते। (7) कस्मिन् क्षेत्राऽऽदी प्रव्रज्या दातव्येत्येतदाहओसरणे जिणभवणे, उच्छुवणे खीररुक्खवणसंडे। गंभीरसाणुणाएँ,एमाइपसत्थखित्तम्मि।।१०६।। समवसरणे भगवदध्यासिते क्षेत्रे, वृत्ततद्भावे वा, जिनभवने अर्हदायतने, इक्षुवने प्रतीते, क्षीरवृक्षवनखण्डे अश्वत्थाऽऽदिवृक्षसमूहे. गम्भीरसानुनादे महाभोगप्रतिशब्दे वा, एवमादी प्रशस्तक्षेत्र, आदिशब्दाप्रदक्षिणाऽऽवर्तजलपरिग्रह इति गाथाऽर्थः / दिज्ज ण उ भग्गझामिअ-सुसाणसुण्णामणुण्णगेहेसुं। छारंगारवयारा-मेज्झाईदव्वदुट्टे वा / / 110 // एवंभूत क्षेत्रे दद्यान्न तु भनध्यामितश्मशानशून्याभनोज्ञहषु दद्यात्, ध्यामितं दग्धं, तथा क्षारागारावकारामेध्याऽऽदिद्रव्यदुष्ट वा क्षेत्र न दद्यात् / आदिशब्दोऽमेध्यत्वस्येहख्यापक इति गाथाऽर्थः: (8) व्यतिरेकप्राधान्यतः कालमधिकृत्याऽऽ.. चाउद्दसि पण्णरसिं, च वज्जए अट्ठमिं च नवमिं च। छट्टि च चउत्थिं वा-रासिं सेसासु दिज्जाहि|१११।। चतुर्दशी पञ्चदशीं च वर्जयेदष्टमी च नवमीं च षष्ठी च चतुर्थी द्वादशींच। शेषासु तिथिषु दद्यादन्यदोषरहितास्विति गाथाऽर्थः। नक्षत्राण्यधिकृत्याहतिसु उत्तरासु तहा रो-हिणीसु कुजा उ सेहनिक्खमणं / गणिवायए अणुण्णा, महव्वयाणं च आरुहणा ||112 // तिसृषूत्तरासु आषाढाऽऽदिलक्षणासु, तथा रोहिणीषु कुर्यात शिष्यकनिष्क्रमणं, दद्यात् प्रव्रज्यामित्यर्थः। तथा गणिवाचकयारनुझाए नेष्वेव क्रियते, महाव्रतानां चाऽऽरोपणेति गाथाऽर्थः / वयनक्षत्राण्याहसंझागयं रविगयं, विड्डेरं सग्गहं विलंविंच। राहुहयं गहभिन्नं, च वजए सत्त नक्खत्ते / / 113 / / संध्यागतरविगतं विड्डेर सद्ग्रहं विलम्बिच राहुहतं ग्रहभिन्नं च वर्जयेत्सप्त नक्षत्राणि। "अत्थमणे संज्झागय, रविगय जहिय ठिओ उ आइछा। विदुरमवहीरिय, सग्गह कूरग्गहठियं जंतु / / 1 / / आइचपिडओज, विलंवितं राहुहयं तु जहिं गहणं / मज्झेणं जस्स गहो, गच्छइतं होइ गहभिन्नं / / 2 / / संझागयम्मि कलहो, आइच्चगते य पवयणे हाणी। विड्डेरे परविजओ, सगहम्मि य विग्गही होइ / / 3 / / दोसो अभंगयत्तं होइ कुभत्तं विलविनक्खते। राहुहयम्मि य मरण, गनिन्ने सोणउग्गालो // 4 // '' इति गाथाऽर्थः। उपसंहरन्नाहएसा जिणाणम, खित्ताईआ य कम्मणो हुंति। उदयाइकारणाम, तम्हाए एस जइअव्वं / / 114 / / कम्मिति दारं गय। एषा जिनानामाज्ञा यदुक्तोक्तलक्षणेष्वेव क्षेत्राऽऽदिषु दातव्यति / क्षेत्राऽऽदयश्व कर्मणो भवन्ति उदयाऽऽदिकारणे यद्यस्मात् / यत उक्तम्- "उदयक्खओ य खउवरसमोवसम्मा जं च कम्मुणो भणिया। दव्वं खित्त कालं, तथं च भावंच संपप्पा।१।" यस्मादेव तस्मादेतेषु क्षेत्राऽऽदिषु यतितव्यं शुद्धेषु यत्नः कार्यः / इति गाथाऽर्थः / पं०व०१द्वार। (6) चरमपुद्गलपरावर्त्त विशुध्यमानस्य च दीक्षा भवतीत्येवमस्याः सामान्यतोऽधिकारी निरूपितोऽथ तमेव विशेषतो निरूपयन्नाहदिक्खाएँ चेव रागो, लोगविरुद्धाण चेव चाउत्ति। सुंदरगुरुजोगो विय, जस्स तओ एत्थ उचिओ त्ति / 14|| दीक्षायामेव प्रागुक्तस्वरूपदाक्षणक एव, चैवशब्दोऽवधारणार्थः। तेन न पुनर्दीक्षाप्रतिपक्षेऽपि, रागोऽनुरागो वक्ष्यमाणलक्षणः। तथालोकविरुझाना बहुजनविरोधहेतुभूतानुष्ठानविशेषाणां वक्ष्यमाणरूपाणाम, चशब्दः समुच्चयार्थः, एवशब्दस्त्ववधारणार्थः। तस्य चैवं प्रयोगःत्यागः एव परिहार एव। अथवा-चैवेत्यवधारणे / तेन लोकविरुद्धानामेव, न तु तदविरोधवता त्यागः, इतिशब्द उपप्रदर्शनार्थः / ततश्च इत्येवंरूपो वक्ष्यमाणविषयभेद इत्यर्थः। अथवा-इति शब्दः परिसमाप्तौ / ततश्च इति एतावदेव दीक्षणीयजीवस्य स्वगतं दीक्षारागलोकविरुद्धत्यागरूपं दीक्षाऽधिकारित्वस्य लक्षणम् / अतोऽन्यत्सायोगिकमिति दर्शितं भवति / तथा सुन्दरगुरुयोगः सम्यग्ज्ञानसदनुमानरूपन्नदीक्षादायकार्यसम्बन्ध / अपिशब्दोऽवधारणे। चशब्दःरामु तेन सुन्दरगुरुयोग एच न पुनरसुन्दरगुरुयोगोऽपि / अथवा-अपिचेत्येतत्समुच्चय एव: यस्यानिर्दिष्टविशेषस्य दीक्षणीयजीवस्य, अस्तीति गम्यमातकोऽसावत्र जिनदीक्षायामुचितो योग्यः। इतिशब्दो दीक्षाऽधिकारिजीवलक्षणसमाप्तिद्योतकः। एतावदेवतस्य लक्षणमिति हृदयमिति द्वारगाथाऽर्थः / / 4 / /