________________ पवज्जा 741 - अभिधानराजेन्द्रः - भाग 5 पवज्जा अत्रोत्तरमाहएयं पि न जुत्तिखम, विण्णेअं मुद्धविम्हयकरं तु / अविवेगपरिचागा, चाई जंनिच्छयनयस्स|४|| एतदपि न युक्तिक्षम विज्ञेयं न युक्तिसमर्थं ज्ञातव्यं, यदुक्तं पूर्व- | पक्षवादिना, मुग्धविस्मयकर तु मन्दमतिचेतोहारि त्वेतत् / कथमित्याह-अविवेकपरित्यागाद्भावतोऽझानपरित्यागेन, त्यागी यद्यस्मानिश्चयनयस्याभिप्रेत इति गाथाऽर्थः / किमित्येतदेवमत आहसंसारहेउभूओ, पवत्तगो एस पावपक्खम्मि। एअम्मि अपरिचत्ते, किं कीरइ बज्झचागेण? ||6|| संसारहेतुभूतः संसारकारणभूतः प्रवर्तकः एषोऽविवेकः पाएपक्षेऽकुशलण्यापारे, यत श्वेयमतः-एतस्मिन्नविवेके अपरित्यक्ते किं क्रियते बाह्यत्यागेन स्वजनाऽऽदित्यागेनेति गाथाऽर्थः। किंचपालेइ साहुकिरिअं, सो सम्मं तम्मि चेव चत्तम्मि। तब्भावम्मि अविहलो, इअरस्स कओ विचाउ त्ति / / 66|| पालयति साधुक्रियां यतिसामाचारी स प्रव्रजितः सम्यगविपरीतेन मार्गेण तस्मिन्नेवाविवेके त्यक्ते इति तद्भाये चाविवेकसत्तायां च सत्या विफलः परलोकमङ्गीकृत्य, इतरस्य स्वजनाऽऽदेः कृतोऽपित्यागो विवेक इति गाथाऽर्थः। एतदेव दर्शयतिदीसंति अकेइ इहं, सइ तम्मी बज्झचायजुत्ता वि। तुच्छपवित्ती अफलं, दुहा वि जीवं करेमाणा ||17|| दृश्यन्ते केचिदिहलोके सति तस्मिन्नविवेके बाह्यत्योगयुक्ता अपि स्वजनाऽऽदित्यागसमन्विता अपि तुच्छप्रवृत्त्या अविवेकात्तथाविधरसाऽऽद्यसारप्रवृत्त्या अफलं द्विधाऽपि इहलोकपरलोकापेक्षया जीवित कुर्वन्तः सन्त इति गाथाऽर्थः। तथा चचइऊण घरावासं, आरंभपरिग्गहेसु वटुंति / जं सण्णाभेएणं, एअं अविवेगसामत्थं / / 68|| त्यक्त्वाऽपि गृहवासं प्रव्रज्याऽङ्गीकरणेनाऽऽरम्भपरिग्रहयोरुक्तलक्षणयोर्वर्तन्ते यद्यस्मात्संज्ञाभेदेन एवं त्यक्त्वा देवाऽऽद्यर्थोऽयमित्येवंशब्दभेदेन एतदित्थंभूतमविवेकसामर्थ्यमज्ञानशक्तिरिति गाथाऽर्थः। एतदेव दृष्टान्तद्वारेणाऽऽहमंसनिवित्तिं काउं, सेवइ दंभिक्कयं ति धणिभेआ। इअ चइऊणाऽऽरंभ, पर ववएसा कुणइ बालो ||6|| मांसनिवृत्तिं कृत्या कश्चिदविवेकात्सेवते दम्भिकमितिध्वनिभेदाच्छब्दभेदेन (इय) एवं त्यक्त्वाऽऽरम्भम् ‘‘एकग्रहणे तज्जालीयग्रहणम्" इति न्यायात्परिग्रहं च, परव्यपदेशात परवादिव्यपदेशेन करोति बालोऽज्ञ इति गाथाऽर्थः। किमित्येतदेवमित्यत आहपयईए सावजं, संतं जं सव्वहा विरुद्धं तु। धणिभेअम्मि वि महुरग-सीअलिगाइ व्व लोगम्मि / / 100 / / प्रकृत्या स्वभावेन सावा सपाप सदवद्यं यद्यस्मात्सर्वथा सर्वैः प्रकारविरुद्धमेव दुष्टमेव ध्वनिभेदेऽपि शब्दभेदऽपि सति, किं तदित्याहमधुरकशीतलिकाऽऽदिवल्लोक इति / न हि विषं मधुरकमित्युक्तं न व्यापादयति, स्फोटिका वा शीतलिकेत्युक्ता न तद् दुनोतीतिगाथाऽर्थः / अत्राऽऽहता कीस अणुमओ सो, उवएसाइम्मि कूवणाएणं / गिहिजोगो उ जइस्स उ, साविक्खस्सा परवाए।।१०१।। यद्यवं तत्किमित्यनुमतोऽसावारम्भः / वेत्याह-उपदेशाऽऽदावितिउपदेशे श्रावकाणामादिशब्दात्वचिदात्मनाऽपि लूताऽऽद्यपनयनमाप्यत इति। अत्रोत्तरमाह-कूपज्ञातेन प्रवचनप्रसिद्धकूपोदाहरणेन गृहयोग्यस्तु श्रावकयोग्य एवेति, मध्यस्थस्य शास्त्रार्थकथने नानुमतिः यतेः प्रजितस्य सापेक्षस्य गच्छवासिनः परार्थ सत्त्वार्हगुणमाश्रित्य निरीहस्य यतनया विहितानुष्ठानत्वान्नानुमतिरिति गाथाऽर्थः / तथा चासऽऽहअण्णाभावे जयणा- ऐं मग्गणाणो हविज मा तेणं / पुवकया जइणाइसु. ईसिं गुणसंभवे इहरा / / 102 / / अन्याभावे श्रावकाऽऽद्यभावे, यतनया आगमोक्तया क्रियया, मार्गनाशस्तीर्थनाशो मा भूदित्यर्थः / तेन कारणेन पूर्वकृतायतनाऽऽदिषु महति सन्निवेशे सचरितलोकाऽऽकुले अर्द्धपतितायतनाऽऽदिषु ईषद् गुणसंभवे च कस्यचित्प्रतिपत्त्यादिस्तोकगुणसंभवे च सति एतदुक्तम्, इतरथाऽन्यथा। चेइअकुलगणसंघे, आयरियाणं च पवयणसुए य। सव्वेसु वि तेण कयं, तबसंजममुजमंतेणं / / 103 / / चैत्यकुलगणसघेषु-चैत्यान्यर्हतप्रतिमाः, कुलं चन्द्राऽऽदिः परस्परसापक्षोऽनेककुलसमुदायो गणः, बालुकापर्यन्तः सङ्घः, तथा आचार्याणां प्रसिद्धतत्त्वानां, प्रवचनश्रुतयोश्च-प्रवचनमर्थः, श्रुतं तु सूत्रमेव, एतेषु सर्वेष्वपि, तेन साधुना कृतं यत्कर्त्तव्यं, केनेत्याह-तपःसंयमयोरुधुक्तेन तपसि संयमे चोद्यम कुर्वता, इति गाथाऽर्थः। एत्थ अविवेगचागा, पवत्तई जेण तम्ह सो पवरो। तस्सेव फलं एसो, जो सम्म बज्झचाउत्ति / / 104 / / अत्र चतपआदौ, अविवेकत्यागात्प्रवर्तते, येन कारणेन, तस्मादसावविवेकत्यागः प्रवरः, तस्यैवाविवेकत्यागस्यफलमेषः, कः? यः सम्यगबाह्यत्याग इति गाथाऽर्थः। यतश्चैवम् - ता कसिणमिअंकज्जं, सयणाइजुओन वेति सइ तम्मि। एत्तो चेव य दोसा, ण हुंति सेसा धुवं तस्स / / 10 / / ततः कृत्स्नो लोको भुवनमिदं कार्य स्वजनाऽऽदियुक्तो न वेति सति तस्मिन्नविवेकत्यागे अत एव चाविवेकत्यागात् दोषान भवन्ति, शेषा धुवं तस्य अगम्भीरमदाऽऽदय इतिगाथाऽर्थः / यतस्तत्र उक्तम्- "जय कंते पिए'' इत्यादौ "से हु चाइ त्ति वुचति।" तत्कथं नीयत इति चेतसि निधायाऽऽहसुत्तं पुण ववहारे, साहीणत्ता तवाइभावेणं। बहु अविसहत्थम्मी, अन्नो वितओ हवइ चाई।।१०६||