________________ पवज्जा 740 - अभिधानराजेन्द्रः - भाग 5 पवज्जा थेत्यारम्भयोगे न भवन्ति ते प्राणवधाऽऽदयः चिन्तनीयमिदमेतद्भवत्येवेति गाथाऽर्थः। एतदेव प्रकटयन्नाहआरंभमंतरेणं, ण पालणं तस्स संभवइ जेणं / तम्मि अ पाणवहाई, नियमेण हवंति पयडमिणं // 82|| आरम्भमन्तरेण न पालनं तस्य स्वजनस्य संभवति येन तस्मिश्चाऽऽरम्भे प्राणवधाऽऽद्या नियमेन भवन्ति, प्रकटमिदं / लोकेऽपीति गाथाऽर्थः। अण्णं च तस्स चाओ, पाणवहाई व गुरुतरा होजा। जइ ताव तस्स चाओ, को एत्थ विसेसहेउत्ति? ||83|| अन्यच तस्य स्वजनस्यत्यागः प्राणवधाऽऽदयो वा पापचिन्तया गुरुतरा | भवेयुरिति विकल्पौ। किं चतइत्याह-यदि तावत्तस्य स्वजनस्यत्यागो गुरुतर इत्यत्राऽऽह-कोऽत्र विशेषहेतुरिति यतोऽयमेवेति गाथाऽर्थः। अह तस्सेव उ पीडा, किं णो अपणे सि पालणे तस्स? अह तेऽपराइ सो वि हु, सतत्तचिंता इमे चेवव / / 84|| अथेत्यथैवं मन्यसे-तस्यैव तु स्वजनस्य पीडा विशेषहेतु रित्यत्रोत्तरमाह-किं नो अन्येषां सत्त्वानां पालने तस्य पीडा? पीडवेति भावः / अथ तेऽपरादय इति, अपरे, आदिशब्दादेकेन्द्रियाऽऽदयश्च, अत्रोत्तरम्असावपि स्वजनः स्वतत्वचिन्तायां परमार्थचिन्तायामेवमेव पराऽऽदेरेव, अनित्यत्वात् ततसंयोगस्येति गाथाऽर्थः / पक्षान्तरमाहसिअ तेण कयं कम्म, एसो नो पालगो त्ति किं ण भवे ? ता नूणमण्ण पालग, जोग्गं वि अतं कयं तेण ||8|| स्यादित्यथैवं मन्यसे-तेन स्वजनेन कृतं कर्मादृष्ट, किं फलमित्याहएष प्रविव्रजिषुनः अस्माकं पालक इत्येवं फलम्, अत्रोत्तरम्-किं न भवति ? कर्मणः स्वफलदानात् न च भवति, तन्नूनमवश्यमन्यः पालक इत्येतदुचितमेव तत्कर्म कृतं तेन स्वजनेनेति गाथाऽर्थः। किंचबहुपीडाए अ कहं, थोवसुहं पंडिआणमिटुं ति ? जलकट्ठाइगयाण य, बहूण घाओ तदच्चाए।।८६|| बहुपीडायां च अनेकजलाऽऽधुपमर्दने च कथं स्तोकसुखं स्तोकाना स्वजनानां स्तोक वा स्वल्पकालभावेन सुखं स्तोकसुखं पण्डितानामिष्टमिति? बहुपीडामाह-जलकाष्ठाऽऽदिगतानां च, प्राणिनामिति गम्यते। बहूनांघातस्तदत्यागे स्वजनात्यागे, आरम्भमन्तरेण तत्परिपालनाभावादिति गाथाऽर्थः। एवंविहा उ अह ते, सिट्ठ वि न तत्थ होइ दोसो उ। इअ सिट्ठिवायपक्खे, तच्चाएणं कह दोसो ? ||7|| एवंविधा एव तथा मरणधर्माणः, अथ ते जलकाष्ठाऽऽदिगता प्राणिनः रम्पृष्टा इति न तत्र स्वजनभरणार्थं तजिघांसने भवति दोषस्तु। अत्रोत्तरमाह-इति एवं सृष्टिवादपक्षेऽङ्गीक्रियमाणे तत्त्यागेन स्वजनत्यागेन कथ दोषो ? नैव दोष इति, यतोऽसौ स्वजनस्तथाविध एव सृष्टः,येन त्यज्यत इति गाथाऽर्थः। यतश्चैतदित्थं च घटतेता पाणवहाईआ, गुरुतरगा पावहेउणो नेआ। सयणस्स पालणम्मि अ, निअमाए इति भणियमिणं / / 5 / / यस्मादेवं तस्मात्प्राणिवधाऽऽद्या गुरुतराः पापहेतवो ज्ञेयाः रस्वजनत्यागात्सकाशात्। ततः किमिति चेत् ? उच्यते-स्वजनस्य पालने च नियमादिति प्राणिवधाऽऽद्या इति भणितमिदं पूर्वमिति गाथाऽर्थः / एवं पिपावहेऊ, अप्पयरोणवर तस्स चाउत्ति। सो कह ण होइ तस्सा, धम्मत्थं उज्जयमइस्स ? ||8|| एवमपि पापहेतुरेष अल्पतरो,नवरं तस्य स्वजनस्य त्याग इति स पापहेतुः कथं न भवति तरय प्रविद्रजिषोर्धर्मार्थमुद्यतमतेः भवत्येवेति गाथाऽर्थः। अत्रोत्तरमाहअब्युवगमेण भणिअं,ण उ विहिचाओ वि तस्स हेउ त्ति। सोगाइम्मि वितेसिं, मरणेव विसुद्धचित्तस्स ||6|| अभ्युपगमेन भणितम्-अन्यच तस्य त्याग इत्यादौ, न तु विधित्यागोऽपि, स्वजनस्येति गम्यते / तस्य हेतुरिति, तस्येति पापस्य हेतुर्विधित्यागकथनाऽऽदिना अन्यत्र निर्गमस्य शोकाऽऽदावपि तेषां स्वजनानां मरण इव विशुद्धचित्तस्य रागाऽऽदिरहितस्य, मरण इवेति च सिद्धः परस्य दृष्टान्तोऽन्यथा तत्रापि स्वजनशोकाऽऽदिभ्यः पापप्रसङ्ग इति गाथाऽर्थः। अण्णे भणंति धण्णा, सयणाइजुआ उ होंति जोग त्ति / संतस्स परिच्चागा, जम्हा ते चाइणो हुंति / / 61|| अन्ये वादिनो भणन्ति अभिदधति-धन्याः पुण्यभाजः स्वजनाऽऽदियुक्ता एव स्वजनहिरण्याऽऽदिसमन्विता एव भवन्ति। योग्याः, प्रव्रज्याया इति गम्यते। उपपत्तिमाह-अन्ये वादिनो सतो विद्यमानस्य परित्यागात्स्वजनाऽऽदेर्यस्मात्कारणात्ते स्वजनयुक्तास्त्यागिनो भवन्ति, त्यागिना च प्रव्रज्येष्यत इति गाथाऽर्थः। / जे पुण तप्परिहीणा, जाया देवाओ चेव भिक्खागा। तह तुच्छभावउ चिय, कहं णु ते होंति गंभीरा ? ||62 // येन पुनस्तत्परिहीणा जाता दैवादेव कर्मपरिणामे चैव भिक्षाकाः भिक्षाभोजिनः, ततश्च तथा तेन प्रकारेण तुच्छभावत्वादेवासारतत्त्वादेव, कथं नु ते भवन्ति गम्भीराः, नैव ते भवन्त्युदारचित्ता अनुदारचित्ताश्वायोग्या इति गाथाऽर्थः। किंचमजंति अ ते पायं, अहिययरं पाविऊण पज्जायं। लोगम्मी उवधाओ, भोगाभावाण चाई य||३|| मजन्ति च मन्दं गच्छन्ति ते अगम्भीराः प्रायो बाहुल्येनाधिकतरमिहलोक एव शोभनतरं प्राप्यपर्यायमासाद्यावस्थाविशेषम्, अधिकश्चेह लोकेऽपि तथाविधगृहस्थपर्यायात्प्रव्रज्यापर्यायः लोके चोपघालः क्षुद्रप्रव्रज्याप्रदानेन तथा भोगाभावानात्यागिनश्चते, अगम्भीराः त्यागिनश्च प्रव्रज्योक्त्या (?) "से हु चाई त्ति वुचति।" इत्यादिवचनादिति गाथाऽर्थः / एष पूर्वपक्षः।