________________ पवज्जा 736 - अभिधानराजेन्द्रः - भाग 5 पवज्जा अन्नं च जीविअंज, विज्जुलयाऽऽडोअचंचलमसारं / पिअजणसंबंधो वि अ, सया तओ धम्ममाराहे // 66 / / अन्यच जीवितं यद्यास्मात विद्युल्लताऽऽटोपचञ्चलं स्थितितः असारं, स्वरूपतः प्रियजनसंबन्धोऽपि च एवंभूत एव, यतश्चैवं सदा ततो धर्ममाराधयेद्धर्म कुर्यादिति गाथाऽर्थः / किं च - मोक्खे वि तत्फलं चिय, नेओ परमत्थओ तयत्थं पि। धम्मो चिअ कायव्वो, जिणभणिओ अप्पमत्तेण // 70|| मोक्षोऽपि तत्फलमेव धर्मफलमेव ज्ञेयः परमार्थतः, यतश्चैवमतस्तदर्थमपि मोक्षार्थमपि धर्म एव कर्तव्यो जिनभणितः चारित्रधर्मः अप्रमत्तेनेति गााऽर्थः। अन्यदप्युच्चार्य तिरस्कुर्वन्नाहतहऽभुत्तभोगदोसा, इचाइ जमुत्तमुत्तिमित्तमिदं। इअरेसिं दुट्ठयरा, सइमाईया जओ दोसा / / 71 / / तथा अभुक्तभोगदोषा इत्यादि यदुक्तं पूर्वपक्षवादिना, उक्तिमात्रमिद, वचनमात्रमिदमित्यर्थः / किमित्यत आह-इतरेषां तु भुक्तभोगानां दुष्टतराः स्मृत्यादयो यतो दोषा इति गाथाऽर्थः। स्वपक्षोपचयमाहइअरेसिं बालभाव-प्पमिइं जिणवयणभाविअमईणं। अणभिण्णाणं पायं, विसएसुन हुंति ते दोसा।।७२।। इतरेषामभुक्तभोगाना बालभावप्रभृति बालादारभ्य जिनवचनभावितमतीनां सतां वैराग्यसंभवादनभिज्ञानां च विषयेषु प्राया न भवन्ति, ते दोषाः कौतुकाऽऽदय इति गाथार्थः। उपसंहरन्नाहतम्हा उ सिद्धमेअं,जहण्णओ भणियवयजुआ जोग्गा। उक्कोस अणवगल्लो, भयणा संथारसामण्णे / / 73|| यस्मादेवं तस्मात् सिद्धमेतज्जघन्यतो भणितवयोयुक्ताःअष्टवर्षा योग्याः प्रव्रज्याया उत्कृष्टतोऽनवकल्पो योग्यः। अवकल्पमधिकृत्याऽऽह-भजना संस्तारकश्रामण्ये, कदाचिद्भावितमतिरवकल्पोऽपि संस्तारकश्रमणः क्रियत इति गाथाऽर्थः। अन्ने गिहासमं चिय, वुच्चंति पहाण मंदबुद्धीओ। जं उवजीवंती तं, नियमा सव्वे वि आसमिणो / / 74|| अन्ये वादिनो गृहाऽऽश्रममेव गृहस्थमेव ब्रुयते प्रधानमिति अभिदधति श्लाध्यतरमिति मन्दबुद्धयः अल्पमतय इति / उपपत्तिं चाभिदधतियद्यस्मादुपजीवन्ति त, कं? गृहस्थम् अन्नलाभाऽऽदिना नियमान्नियमेन सर्वेऽप्याश्रमिणो लिङ्गि इति गाथाऽर्थः / अत्रोत्तरमाहउवजीवणाकयं जइ, णइण्णं तो तओ पहाणयरा। हलकरिसगपुढवाई प्रणं उवजीवंति तो ते वि॥७५।। उपजीवनाकृते यदि प्राधान्यमुपजीव्यं प्रधानमुपजीवकस्त्वप्रधान- 1 मित्याश्रीयते (तो इति) ततस्तस्मात्तत इति गृहाश्रमात्प्रधानतराः श्लाध्यतराः हलकर्षकपृथिव्यादयः पदार्था इति / आदिशब्दाजल परिग्रहः। किमित्यत्राऽऽह-यद्यस्मादुपजीवन्तितेभ्यो धान्यलाभेन तान् हलाऽदीरतेऽपि गृहस्था अपीति गाथाऽर्थः / सिय णो ते उवगारं, करेमु एतेसि धम्मनिरयाणं / एवं मण्णंति तओ, कह पाहण्णं हवइ तेसिं? 76 / / स्यादित्याशङ्कायामथैवं मन्यसे-नो ते हलाऽऽदयः एवं मन्यन्त इति योगः / मन्यन्ते जानन्ति / कथं न मन्यन्त इत्याह उपकारं कुर्मो धन्यप्रदानेन एतेषां धर्मनिरतानां गृहस्थानामिति / यतश्चैवं ततः कथं प्राधान्यं भवति तेषां हलाऽऽदीनां, नैव प्राधान्यं, तथा मननाभावादिति गाथाऽर्थः। अत्रोत्तरमाहते चेव तेहिँ अहिया, किरियाए मंतिएण किं तत्थ। णाणाइविरहिया अह, इइ एतेसि होइ पाहण्णं / / 77|| त एव हलाऽऽदयस्तेभ्यो गृहस्थेस्योऽधिकाः क्रियया, प्राधानाः करणेनैव, यतरतेभ्यो धान्याऽऽदिलाभतस्तु उपजीव्यते गृहस्थैरतो मन्त्रितेन ज्ञातेन किं तत्र / क्रियया एव प्राधान्ये सति, ज्ञानाऽऽदिविरहिता अथ तेहलाऽऽदय इति मन्यसे एतदाशयाऽऽह-(इति) एवमेतेषां ज्ञानाऽऽदीनां भवति प्राधान्यं, नोपजीव्यस्येति गाथाऽर्थः / ततः किमिति चेदुच्यतेताणि य जईण तम्हा, हुंति विसुद्धाणि तेसिं तु / तं जुत्तं आरंभो, अ होइ जं पावहेउ ति / / 7 / / सानि च ज्ञानाऽऽदीनि यतीना प्रव्रजतानां यस्माद्भवन्ति विशुद्धानि निर्मलानि, तेन हेतुना तेषामेव यतीनां तत्प्राधान्ययुक्तम्, आरम्भश्च भवति यद्यस्मात्पापहेतुरित्यतोऽपि तन्निवृत्त्यैकत्वात्तेषामेव प्राधान्य युक्तमिति गाथाऽर्थः। अण्णे सयणविरहिआ, इमीऍ जोग त्ति एत्थ मण्णंति। सो पालणीयगो किल, तच्चाए होइ पावं तु // 76 / / अन्ये वादिनः स्वजनविरहिता भ्रात्रादिवन्धुवर्जिता अस्याः प्रव्रज्याया योग्याः इत्येवमत्र लोके मन्यन्त्ये। कया युक्त्येति तांयुक्तिमुपन्यस्यतिस पालनीयो रक्षणीयः किल, तत्त्यागे स्वजनत्यागे भवति पापमेवेति गाथाऽर्थः। सोगं अक्कंदणविलवणं च जं दुक्खिओ तओ कुणइ। सेवइ जं च अकजं, तेण विणा तस्स सो दोसो // 8 // शोकमाक्रन्देन विलपनं, चशब्दादन्यच ताडनाय दुःखितस्तक इत्यसौ स्वजनः करोति, सेवते यचाकार्य शीलखण्डनाऽऽदि,तेन विना तेनेति पालकेन प्रव्रज्याभिमुखेन, तस्यासी दोष इति यः स्वजनं विहाय प्रव्रज्यां प्रतिपद्यत इति गाथाऽर्थः / एष पूर्वपक्षः / अत्रोत्तरमाहइअ पाणवहाईआ, ण पावहेउ त्ति अह मयं ते वि। णणु तस्स पालणे तह, ण होति ते चिंतणीयमिणं // 81|| इति एवं स्वजनत्यागाहोषे सति प्राणिवधाऽऽद्या न पापहेतव इति / आदिशादाद् मृषावादाऽऽदिपरिग्रहः स्वजनत्यागादेव पापभावादित्यभिप्रायः। अथ मतं तेऽपि प्राणिवधाऽऽदयः पापहे तव एव / एतदाशङ्कयाऽऽह-ननु तस्य स्वजनस्य पालने त