________________ पवज्जा 738 - अभिधानराजेन्द्रः - भाग 5 पवज्जा पशमभावप्रभवेन कर्म कयोपशमभावात्प्रभव उत्पादो यस्य तथेत्थंभूतेन चरणेन 'सहार्थे तृतीया' इति सह, किं विरुध्यते ? येन अयोग्याः क्षुल्लका इत्यसद्ग्रहः? न विरुध्यत इति गाथाऽर्थः। एतदेव स्पष्टयन्नाहतक्कम्मखओवसमो, चित्तनिबंधणसमुब्भवो भणिओ। नउ वयनिबंधणो चिय, तम्हा एआणमविरोहो / / 5 / / तत्कर्मक्षयोपशमः चारित्रमोहनीयकर्मक्षयोपशम चित्रनिबन्धनसमुद्भवो नानाप्रकारकारणादुत्पादो यस्य स तथाविधो, भणितः उक्तोऽहंदादिभिर्न तु वयोनिबन्धन एवमविशिष्टशरीरावस्थाकारण एव, यस्मादेवं तस्मादेतयोर्वयश्वरणपरिणामयोरविरोधोऽबाधेति गाथाऽर्थः / इत्थं चैतदङ्गीकर्तव्यमिति दर्शयतिगयजोव्वणा वि पुरिसा, बालु व्व समायरंति कम्माणि / दोग्गइनिबंधणाई, जोव्वणवंता विण य केइ / / 5 / / गतयौवना अप्यतिक्रान्तवयसोऽपि पुरुषा बालः इव यौवनोन्मत्ता इव समाचरन्ति आसेवन्ते कर्माणि क्रियारूपाणि / किविशिष्टानीत्याहदुर्गतिनिबन्धनानि कुगतिकारणानि, यौवनवन्तोऽपि यौवनसमन्विता अपि केऽपि न समावरन्ति तथाविधानि कर्माणि, ततो व्यभिचारि यौवनमिति गाथाऽर्थः / ततश्चजोव्वणमविवेगो चिअ, विण्णेओ भावओ उ तपभावो। जोव्वणविगमो सो उण, जिणेहिँ न कयावि पडिसिद्धो६० यौवनमविवेक एव विज्ञेयः भावतस्तुपरमार्थत एव तदभावः अविवेकाभावो, यौवनविगमः स पुनरविवेकाभावो जिनैर्न कदाचित्प्रतिषिद्धः, सदैव संभवादिति गाथाऽर्थः / अत्राऽऽहजइ एवं तो कम्हा, वयम्मि निअमा कओ उ नणु भणिये। तदहो परिहवखित्ता इ कारणं बहुविहं पुव्वं / / 61 / / यद्येवं बौवनं व्यभिवारि ततः करमाद्वयसि नियमः कृत एव अष्टौ समा | इत्येवंभूतः? अनोत्तरमाह-ननुभणितमत्र तदधःपरिभवक्षेत्राऽऽदि कारण बहुविधमनेकप्रकारं पूर्वमिति गाथाऽर्थः। पूर्वपक्षमुलिख्य व्यभिचारयन्नाहसंभावणिजदोसा, वयम्मि खुन त्ति जं पितं भणि। तं पिन अणहं जम्हा,सुभुत्तभोगाण वि समं तं // 62 / / कर्माणां संभावनीयदोषाः वयसि क्षुलका इति यदपि भणितं पूर्व तदपि तद्भणितं नानघं न शोभनम् / कुत इत्याह-यस्मात्सुभुक्तभोगानामप्यतीतवयसामृप्यशृङ्गषितृप्रभृतीना सम तुल्यं तत्संभावनीयदोषत्वमिति गाथाऽर्थः। किञ्चकम्माण रायभू, तंजाव य मोहणिजंतु। संभावणिज्जदोसा, चिट्ठइ ता चरमदेहा वि।।६३|| कर्मणां राजभूतमशुभतया प्रधानमित्यर्थः। ओघत एव मिथ्यात्वाऽऽ- | देरारभ्य वेदान्तं यावन्मोहनीय तु, तिष्ठतीति योगः। तुर्विशेषणार्थः, किं विशिनष्टि स्वप्रक्रियामाश्रित्य? एवं तत्रोत्तरं त्वाश्रित्य भवाभिनन्दिनी अविद्या परिगृह्यते। संभावनीयदोषास्ताधचरमदेहा अपि पश्चिमशरीरा अपि तिष्ठन्तु तदन्य इति गाथार्थः। यतश्चैवम्तम्हान दिक्खिअव्वा, केई अणिअट्टिबायरादारा। ते न य दिक्खाविअला, पायं जं विसममेअंति॥६४|| यस्मादेवं तस्मान्न दीक्षितव्या इति स्वप्रक्रियानुसारेण स्वसमयपरिभाषया वादरशक्त्यानुरोधेनावाप्ताणिमाऽऽदिभावेभ्य अरादिति (?) / ते चानिवृत्तिबादराः अवाप्ताणिमाऽऽदिभावा वा न दीक्षादिकलाः न प्रव्रज्याशून्याः प्रायस्तत्रान्यत्र वाजन्मनिद्रव्यदीक्षामप्याश्रित्य मरुदेवीकल्पाश्चर्यभावव्यवच्छेदार्थ प्रायोग्रहणम् / एतच तन्त्रान्तरेऽपि स्त्रपरिभाषया गीयत एव, अत्यन्तमनवाप्तकल्याणोऽपि कल्याणं प्राप्त इति वचनात्। यद्यस्मादेवं विषममेतन्न ततस्तस्माद्विषमं संकटमेतत्। क्षिमुक्त भवति ?- दीक्षाव्यतिरेण विशिष्टगुणा न भवन्ति तद्व्यतिरिकेषु च न दीक्षतीतरेतराऽऽश्रयविरोध इति गाथाऽर्थः / अन्यदुच्चार्य समतां दर्शयन्नाहविण्णायविसयसंगा, जमुत्तमिच्चाइ तं पिण हि तुल्लं / अण्णायविसयसंगा, वि तग्गुणा केइ जं हुंति // 65 / / विज्ञातविषयसङ्गा यदुक्तमित्यादि पूर्वपक्षवादिनस्तदपि न तुल्ये, प्रत्यक्षेऽपि कथमित्याह-अज्ञातविषयसङ्गा अपि तद्गुणाः विज्ञातविषयसङ्गगुणाः केचन प्राणिनो यद्यस्माद्भवन्तीति गाथाऽर्थ। स्पपक्षे योजयन्नाहअब्भासजणियपसरा, पायं कामा य तब्भवब्भासो। असुहपवित्तिणिमित्तो, तेसिंनो सुंदरतराते॥६६|| अभ्यासजनितप्रसरा आसेवनोद्भूतवेगा : प्रायः कामश्च बाहुल्येन कामा एवंविधा वर्तन्ते, तद्भवाभ्यास अशुभप्रवृत्तिनिमित्तस्तेषां न विद्यते / अन्यभवाभ्यासस्तु मनागपि प्रकृष्ट इति सुन्दरतराः शोभनतरास्ते अज्ञातविषयसङ्गाइति गाथाऽर्थः। परोपन्यस्तमुपपत्त्यन्तरमुच्चार्य परिहरन्नाहधम्मऽत्यकाममोक्खा,जमुत्तमिच्चाइ तुच्छमेअंतु। संसारकारणं जं,पयईए अत्थकामा उ॥६७।। धर्मार्थकाममोक्षा यदुक्तमित्यादि पूर्वपक्षवादिना, तुच्छमेतदप्यसारमित्यर्थ। कुतः? इत्याह-संसारकारण यत् यस्मात्प्रकृत्या स्वभावेतार्थकामौ, ताभ्यां बन्धादिति गाथाऽर्थः / तत् किमिति चेत्? उच्यतेअसुहो अमहापावो, संसारो तप्परिक्खयणिमित्तं / बुद्धिमया पुरिसेणं, सुद्धो धम्मो अ कायव्वो // 68|| अशुभश्च महापापः संसारस्तत्परिक्षयनिमित्तं बुद्धिमता पुरुपेण शुद्धो धर्मस्तु कर्त्तव्यः, शुद्ध एव चारित्रधर्मः स्वप्रक्रियया अप्रपृत्तिरूप युततन्त्रान्तरानुसारेणेति गाथाऽर्थः।