________________ पवज्जा 737 - अभिधानराजेन्द्रः - भाग 5 पवज्जा पति। किमित्यत आह-श्रद्धाभावे सति श्राद्धस्य हि तथा प्रवर्त्तमानस्य सुख, नेतरस्य / ततश्चोभयलोकयोरिहलोके परलोके च जीवितमफलं तस्य, इहलोके तावद्भिक्षाऽटनाऽऽदियोगात्परलोके च कर्मबन्धात् क्रियाज्ञातेन ति वैद्यक्रियादाहरणेन, तस्य त्याग इत्यनेन प्रकारण परित्याग इति गाथाऽर्थः। क्रियाज्ञातमाहजह लोअम्मि वि विज्जा, असज्झवाहीण कुणइ जो किरिया। सो अप्पाणं तह वा-हिए अपाडेइ केसिम्मि।॥४७॥ यथा लोकेऽपि वैद्यः असाध्यव्याधीनामातुराणां कराति यः क्रिया, स आत्मानं तथा व्याधितोंश्च पातयति क्लेशे, व्याध्यपगमाभावादिति गाथाऽर्थः। तह चेव धम्मविजो, एत्थ असज्झाण जो उ पव्वजं / भावकिरिअं पउंजइ, तस्स वि उवमा इमा चेव॥४८|| तथैव धर्मवैद्य आचार्यः अत्राधिकारे असाध्यानां कर्मव्याधिमाश्रित्य यस्तु प्रव्रज्या भावक्रियां प्रयुक्त कर्मरोगनाशनाय, तस्यापि धर्मवैद्यरय उपमा इयमेव, आत्मानं ताँश्च क्लेशे पातयतीति गाथाऽर्थः / चोदक आह-जिनक्रियाया असाध्या नाम न सन्ति / सत्यम् / इत्याहजिणकिरियाऍ असज्झा, ण इत्थलोगम्मि केइ विजंति। जे तप्पओगऽजोग्गा, तेऽसज्झा एस परमत्थो 46|| जिनाना संबन्धिनी क्रिया तत्प्रणेतृत्वेन जिनक्रिया, तस्या असाध्या अचिकित्स्या नात्र लोके प्राणिलोके केचन प्राणिनो विद्यन्ते. किं तु ये तत्प्रयोगाऽयोग्या जिनक्रियाप्रयोगानुचितास्ते असाध्याः कर्मव्याधिमाश्रित्य, एष परमार्थः, इदमत्र हृदयमिति गाथाऽर्थः। एएसि वयपमाणं, अट्ठसमाउत्ति वीअरागेहिं। भणियं जहन्नयं खलु, उक्कोसं अणवगल्लो त्ति।।५०।। एतेषां प्रव्रज्यायोग्याना वयःप्रमाणं शरीरावस्थाप्रमाणमष्टौ समा इत्यष्टवर्षाणि वीतरागेजिनर्भणितं प्रतिपादितं जघन्यकं खलु सर्वस्तोकमेतदेव द्रव्यलिङ्गप्रतिपत्तिरिति / उत्कृष्ट वयःप्रमाणम् (अनवगल्ल इति) अनत्यन्तवृद्ध इति गाथाऽर्थः / अतः को दोषः? इति चेदुच्यतेतदहो परिभवखित्तं, ण चरणभावो वि पायमेएसिं। आहच्च भावकहगं, सुत्तं पुण होइ नाहचं // 51|| तदधः परिभवक्षेत्रमित्यष्टभ्यो वर्षेभ्य आरादसौ परिभवभाजनं भवति। न चरणभावोऽपि न चारित्रपरिणामोऽपि प्रायो बाहुल्येनामीषां तदधोवर्तिना बालानामिति / आह-एवं सति सूत्रविरोधः "छम्मासियं छसु जीय' इत्यादि-श्रवणान्नैव चरणपरिणाममन्तरेण भावतः षट्सु यतो भवतीति (?)1 अत्रोत्तरमाहकेई भणंति बाला, किल एएँ वयंजुआ विजे भणिया। छुलगभावाओ चिय, न हुंति चरणस्स जुग्ग त्ति // 52 // कचन भणन्ति तन्त्रान्तरीयास्त्रविद्यवृद्धाऽऽदयो बालाःकिल एते। क इत्याह-वयोयुक्ता अपि ये भणिता अष्टवर्षा अपि ये उक्ताः, यतश्चैवमतः क्षुल्लकभावादेव बालात्वादेव, किमित्याह- न संभवन्ति चरणस्य योग्या इति, न चारित्रोचिता इति गाथाऽर्थः / अन्ने उ भुत्तभोगाणमेव पव्वजमणघमिच्छति / संभावणिजदोसा, वयम्मि जं खुड्डगा होंति // 53 / / अन्ये तु विद्यवृद्धा भुक्तभोगानामेवातीतयौवनानां प्रव्रज्यामनघामपापामिच्छन्ति प्रतिपद्यन्ते। किमित्यत्राऽऽह-संभावनीयदोषाः संभाव्यमानविषया ऽसेवनापराधाः, वयसि यौवने, यद्यस्मात्क्षुल्लका भवन्ति। संभवी च दोषः परिहर्तव्यो यतिभिरिति गाथाऽर्थः / किं च - विण्णायविसयसंगा, सुहंच किल ते तओऽणुपालिंति। कोउअनिअत्तभावा, पव्वज्जमसंकणिज्जाय॥५४|| विज्ञातविषयराङ्गा अनुभूतविषयसङ्गाः सन्तः सुखं च किल ते अतीतवयसः, ततो विज्ञातविषयसङ्गत्वात्कारणादनुपालयन्ति, प्रव्रज्यामिति योगः / करमाद्धेतोरित्यत्राऽऽह कौतुकनिवृत्तभावा इति कृत्वा। "निमित्तकारणहेतुषु सर्वासा प्रायो दर्शनम्' इति वचनात्। विषयाऽऽलम्बनकौतुकनिवृत्तभावत्वादित्यर्थः / गुणान्तरमाह-अशङ्कनीयाश्चेति अतिक्रान्तवयसः सर्वप्रयोजनेष्वेवाशङ्कनीयाश्च भवन्तीति गाथाऽर्थः। किंचधम्मऽत्थकाममोक्खा, पुरिसत्था जं चयार लोगम्मि। एए आसेविअव्वा, निअनिअकालम्मि सव्वे वि।।५५।। धर्मार्थकाममोक्षाःपुरुषार्थाः यस्माचत्वारो लोके, तत्र हिंसाऽ5दिलक्षणो धर्मः, हिरण्याऽऽदिरर्थः इच्छामदनलक्षणः कामः, अनाबाधो मोक्षः एते चत्वारः पुरुषार्थाः सेवितव्याः, निजनिजकाले आत्मीयाऽऽत्मीयकाले सर्वेऽपि, अन्यथा अक्षीणकामनिबन्धनकर्मणस्तत्परित्यागदोषोपपत्तेरिति गाथाऽर्थः। गुणान्तरमाहतहऽभुत्तभोगदोसा, कोउगकामगहपत्थणाईआ। एए वि होति विजढा, जोग्गाहिगयाण तो दिक्खा // 56 // तथा अभुक्तभोगदोषा इतिन भुक्ता भोगा यैस्ते अभुक्तभोगास्तद्दोषाः कौतुककामग्रहप्रार्थनाऽऽदयः, तत्र कौतुकं सुरतविषयमौत्सुक्य, कामग्रहस्तदनासेवनोद्रेकाद्विभ्रमप्रार्थना योषिदभ्यर्थना, आदिशब्दादलाग्रहणाऽऽदिपरिग्रहः / एतेऽपि भवन्ति विजढाः परित्यक्ता अतिक्रान्तवयोभिः प्रव्रज्या प्रतिपद्यमानैरिति योग्याधिकृताभामतिक्रान्तवयसामेव प्रव्रज्या, इतरे त्वयोग्या एवोक्तदोषोपपत्तेरितिगाथाऽर्थः / एष पूर्वपक्षः। अत्रोत्तरमाहभण्णइ खुडुगभावो, कम्मखउवसमभ वपभवेणं / चरणेण किं विरुज्झइ, जेणमजोग त्ति सग्गाहो // 57 / / भण्यतेऽत्र प्रतिवचनेक्षुल्लक भावो बालभावः कर्मक्षयो -