________________ पवज्जा 736 - अभिधानराजेन्द्रः - भाग 5 पवज्जा अर्द्धषड्विंशतिजनपदेष्वित्यर्थः / जातिकुलाभ्यां विशिष्टाः, मातृसमुत्था जातिः, पितृसमुत्थ कुलं, तथा क्षीणप्रायकर्ममलाः, अल्पकर्माण इति गाथाऽर्थः / तत्तो अ विमलबुद्धी, दुल्लहमणुअत्तणं भवसमुद्दे / जम्मो मरणनिमित्तं,चवलाओ संपयाओ अ॥३३॥ ततश्च कर्मणयाद्विमलबुद्धयः, विमलबुद्धित्वादेव च दुर्लभं मनुजत्वं भवसमुद्रे संसारसमुद्रे, तथा जन्म मरणनिमित्तं, चपलाः संपदश्चेति गाथाऽर्थः। विसया य दुक्खहेऊ संजोगे निअमओ विओगो त्ति / पइसमयमेव मरणं, एत्थ विवागो अ अइरुद्दो।।३४।। विषयाश्च दुःखहेतवः, तथा संयोगे सति नियमतो वियोग इति, तथा प्रतिसमयमेव मरणमवीचिमाश्रित्य, अत्र विपाकश्चातिरौद्रः परभव इति गाथाऽर्थः। एवं पयईए चिों, अवगयसंसारनिगुणसहावा। तत्तो अतव्विरत्ता, पयणुकसायाऽप्पहासाय॥३५|| एवं प्रकृत्यैव स्वभावेनैव अवगतसंसारनिर्गुणस्वभावाः ततश्च नैर्गुण्यावगमात्तद्विरक्ताः संसारविरक्ताः प्रतनुकषाया अल्पहास्याश्च, हास्यग्रहणं रत्याधुपलक्षणमिति गाथाऽर्थः। सुकयण्णुआ विणीया, रायाईणमविरुद्धकारी य। कल्लाणंगा सड्ढा, थिरा तहा समुवसंपण्णा // 36|| सुकृतज्ञाः, विनीताः, राजऽऽदीनामविरुद्धकारिणश्च, आदिशब्दादमात्याऽऽदिपरिग्रहः,कल्याणाङ्गाः, श्राद्धाः, स्थिराः, तथा समुपसंपन्ना इति गाथाऽर्थः। उत्सर्गत एवंभूता एव, अपवादतस्त्वाहकालपरिहाणिदोसा, एत्तो एक्काऽऽदिगुणविहीणा वि। जे बहुगुणसंपन्ना ते, जुग्गा हुंति नायव्वा / / 37 / / कालपरिहाणिदोषा इतोऽनन्तरादितगुणगणान्वितेभ्यः एकाऽऽदिगुणविहीना अपि ये बहुगुणसंपन्नास्ते योग्या भवन्ति ज्ञातव्याः,प्रव्रज्याया इति गाथाऽर्थः। नणु मणुअमाइएहिं, धम्मेहिं जुत्त एत्तिएणेव। पायं गुणसंपन्ना, गुणपगरिससाहगा जेण // 38 / / ननु मनुजाऽऽदिभिर्धर्म : युक्ता इत्येतावतैव योग्या, इति आदिशब्दादार्यदेशोत्पन्नग्रहः / किमेतदित्थमित्यत्राऽह प्रायो बाहुल्येन गुणसंपन्नाः सन्तः गुणप्रकर्षसाधका येन, गुणप्रकर्षश्व प्रव्रजितेन साधनीय इति गाथाऽर्थः। निगमयन्नाहएवंविहाण देआ, पव्वज्जा भवविरत्तचित्ताणं। अचंतदुक्करा जं, थिरं च आलंबणमिमेसिं // 36 / / एवंविधेभ्यो बहुगुणसंपन्नेभ्यो देया दातव्या प्रव्रज्या दीक्षा भवविरक्तचित्तेभ्यः संसारविरक्तचित्तेभ्यः। किमित्यत्राऽऽह-अत्यन्तदुष्करा यत् यस्मात स्थिर चाऽऽलम्बनममीषा भवविरक्तचित्तानामतोऽमी सदा वैराग्यभावेन कुर्वन्तीति गाथाऽर्थः / दुष्करत्वनिबन्धमाह अइगरुओ मोहतरू, अणाऽभवभावणाविअयमूलो। दुक्खं उम्मूलिज्जइ, अचंतं अप्पमत्तेहिं / / 40 / / अतिगुरुरतिरोद्रो मोहतरमोहस्तरुरिवाशुभपुष्पफलदानभावेन मोहतरुरनादिभवभावनाभावितमूलः, अनादिमत्यो याः संसारभावना विषयस्पृहाऽऽद्यास्ताभिर्व्याप्तमूलः, यतश्चैवमतो दुःखमुन्मूल्यते अपनीयते, अत्यन्तमप्रमत्तैः सद्भिरिति गाथाऽर्थः / संसारविरत्ताण य, होइ तओ न उण तयभिनंदीणं / जिणवयणं पिन पायं, तेसिं गुणसाहगं होइ॥४१।। संसारविरक्तानां च भवति तक इत्यसावप्रमादो न पुनस्तदभिनन्दिना संसाराभिनन्दिनां जिनवचनाद्भविष्यतीति चेदेतदाशङ्कयाऽऽह जिनवचनमपि. आस्तां तावदन्यत् न प्रायस्तेषां संसाराभिनन्दिना गुणसाधक भवति शुभनिर्वर्तकं भवतीति गाथाऽर्थः। किमित्यत आहगुरुकम्माणं जम्हा, किलिट्ठचित्ताण तस्स भावत्थो। नो परिणामइ त्ति सम्म, कुंकुमरागो व्व मलिणम्मि / / 4 / / गुरुकर्मणां प्रचुरकर्मणां यस्मात् क्लिष्टचित्तानां मलिनचित्तानां तस्य जिनवचनस्य भावार्थोऽविपरीतार्थो न परिणमति न प्रतिभासते सम्यग अविपरीतः। दृष्टान्तमाह-कुडकुमराग इव मलिने, वाससीति गम्यते।न चापरिणमतोऽसावप्रमादप्रसाधक इति गाथाऽर्थः। किंचविट्ठाएँ सूअरो जह, उवएसेण विन तीरए धरिओ। संसारसूअरो इअ, अविरत्तमणो अकञ्जम्मि।१४३।। विष्ठायां पुरीषलक्षणायां सूकरः पशुविशेषो यथा उपदेशेनापि निवारणालक्षणेन, अपिशब्दात् प्रायः क्रिययाऽपि, न शक्यते धर्तुं , किंतु बलात् प्रवति, एवं संसारसूकरः प्राणी, इति एवमविरक्तमनाः, संसार एवेति गम्यते / अकार्य इत्यनासेवनीये न शक्यते धर्तुमिति गाथाऽर्थः / ता धन्नाणं, गीओ, उवाहिसुद्धाण देह पव्वजं / आयपरपरिचाओ, विवजएमा हविज्ज ति॥४४|| यस्मादेवं तस्माद्धन्येभ्यः पुण्यभाग्येभ्यः गीत इति गीतार्थः उपाधिशुद्धेभ्यः आर्यदेशसमुत्पन्नाऽऽदिविशेषणशुद्धेभ्यो, ददाति प्रव्रज्या प्रयच्छति दीक्षाम, आत्मपरपरित्यागो विपर्यये मा भूदिति। तथा ह्यधन्येभ्योऽनुपाधिशुद्धेभ्यः प्रव्रज्यादाने आत्मपरपरित्यागो नियमात् एव इति गाथाऽर्थः। एतदेव भावयतिअविणीओ न य सिक्खइ, सिक्खं पडिसिद्धसेवणं कुणइ। सिक्खावणेण तस्स हु, सइ अप्पा होइ परिचत्तो।।४।। अविनीत इति स ह्यधन्यः प्रव्रजितः प्रकृत्यैवाविनीतो भवति, न च शिक्षति शिक्षा ग्रहणाऽऽसेवनारूपा, प्रतिषिद्ध सेवन करोति अविहितानुष्ठाने च प्रवर्त्तने, शिक्षणेन तस्येत्थंभूतस्य सदा सर्वकालमात्मा भवति परित्यक्तः,अविषयप्रवृत्तेरिति गाथाऽर्थः / तस्स वि य अट्टझाणं, सद्धाभावम्मि उभयलोगेहिं.। जीविअमहलं किरियाणाएणं तस्स चाओ त्ति॥४६|| तस्यापि चाऽधन्यस्य शिक्षायां प्रवर्त्तमानस्याऽऽध्यानं भ