________________ पवज्जा 735 - अभिधानराजेन्द्रः - भाग 5 पवज्जा दुढे वि अ जो वाऽऽसे, दमेइतं सारहिं विति / / 16 / को नाम सारथीना स भवेत् यो भद्रवाजिनः शोभनाऽश्वान दमयेत्, न कश्चिदसौ, असारथिरेवेत्यर्थः / दुष्टानपि तु योऽश्वान् दमयति शोभनान करोति तं सारथिं ब्रुवते लौकिकाः। पाठान्तरं वा-तमाश्विक ब्रुवत इति गाथाऽर्थः / शिष्यानुपालनेन गुरोर्दोषमाहजो आयरेण पढम, पव्वावेऊण नाणुपालेइ। सेहे सुत्तविहीए, सो पक्यणपचणीउ त्ति।।२०।। यो गुरुरादरेण बहुमानेन प्रथमं प्रव्राज्य प्रव्रज्यां ग्राहयित्वा पश्चान्नानुपालयति शिष्यकान् सूत्रविधिना, स किमित्याह-स प्रवचन-प्रत्यनीकः शासनप्रत्यनीक इति गाथाऽर्थः / एतदेवाऽऽहअविकोविअपरमत्था, विरूद्धमिह परभवे अ सेविंता। जं पावंति अणत्थं, सो खलु तप्पचओ सव्वो / / 21 / / अविकोपितपरमार्थाः अविज्ञापितसमयसद्भावाः, विरुद्ध, सेवमाना इति योगः। इह परभवे च यं प्राप्नुवन्त्यनर्थ , स खलुतत्प्रत्ययःसर्वः, अननुवतकगुरुनिमित्त इति गाथाऽर्थः / जिणसासणस्सऽवण्णो, मिअंकधवलस्स जो अते दट्टुं / पावं समायरंतो, जायइ तप्पचओ सो वि।।२२।। जिनशासनस्यावर्णोऽश्लाघा मृगाधवलस्य चन्द्रधवलस्य, यश्चतान् दृष्ट्वा पापं समाचरतः सेवमानान् जायते जनितो भवति / तत्प्रत्ययोऽसावपि अननुवर्तकगुरुनिभितोऽसावपीति गाथाऽर्थः। अनुवर्तकस्य तु गुणमाहजो पुण अणुवत्तेई,हिए य निप्फायइ अ विहिणा उ। सो ते अन्ने अप्पा-णयं च पावेइपरमपयं / / 23 / / यः पुनरनुवर्तते स्वभावानुकूल्येन हिते योजयति, क्रियां निष्पादयति चज्ञानक्रियाभ्यां विधिना आगमोक्तेन स गुरुस्तान् शिष्यान्यान् प्राणिनः आत्मानं च प्रापयति परमपदं नयति मोक्षमिति गाथाऽर्थः / एतदेव दर्शयतिणाणाइलामओ खलु, दोसा हीयंति वडई चरणं / इअ अन्भासाइसया, सीसाणं होइ परमपयं // 24 // ज्ञानाऽऽदिलाभतः खलु अनुवर्तमाना हि शिष्याः स्थिरा भवन्ति, ततो ज्ञानदर्शने लभन्ते, ततो लाभात, खलुशब्दोऽवधारणे, तत एव दोषा रागाऽऽदयो हीयन्ते त्यज्यन्ते, क्षीयन्ते वा, ततो वर्द्धते चरणं चारित्रम् (इय) एव अभ्यासातिशयादभ्यासातिशयेन तत्रान्यत्र वा जन्मनि कर्मक्षयभावाच्छिष्याणां भवति परमपदं मोक्षाऽऽख्यभिति गाथाऽर्थः। | एआरिसा इहं खलु, अण्णेसिं सासणम्मि अणुराओ। वीअंसवणपवित्ती, संताणे तेसु विजहुत्तं / / 25|| तान ज्ञानाऽऽदियुतान् दृष्ट्वा ईदृशा ज्ञानाऽऽदियुक्ता इह खलु इहैव जिनशासने इत्यन्येषा गुणपक्षपातिनां शासने अनुरागो भवति, भावत एव शोभनमिद शासनं, बीजमित्येतदेव सम्यक्त्वापवर्गबीजं केषाश्चित, केषाचित् त्वनुरागातिशयाच्छ्रवणप्रवृत्तिरहो शोभनमेतदिति शृण्वन्त्येव, | अपरे अङ्गीकुर्वन्ति च, सन्तान इत्येव कुशलसन्तानप्रवृत्तिः तेषामप्यन्येषां सन्तानिना यथोक्तमिति ज्ञानाऽऽदिगुणलाभतः परमपदमेवेति गाथाऽर्थः / इअ कुसलपक्खहेऊ, सपरुवयारम्मि निचमुज्जुत्तो। सफलीकयगुरुसद्दो, साहेइ जहिच्छिअंकजं / / 26 / / (इय) एवं कुशलपक्षहेतुः पुण्यपक्षकारणं स्वपरे नित्योद्युक्तो नित्योद्यतः सफलीकृतगुरुशब्दो गुणत्वेन साधयति यथेप्सितं कार्य परमपदमिति गाथाऽर्थः। विपर्ययमाहविहिणाऽणुवत्तिआ पुण, कहिं वि सेविंति जइ व पडिसिद्धं / आणाकारि त्ति गुरू, न दोसवं होइ सो तह वि।।२७।। विधिनाऽनुवर्तमानाःपुनः कश्चित्कर्मपरिणामतः सेवन्ते यद्यपि प्रतिषिद्धं सूत्रे आज्ञाकारीति गुरुर्न दोषवान् भवत्यसो तथाऽपि भगवदाज्ञाऽनुवर्तनासंपादनादिति गाथाऽर्थः / आहऽण्णसेवणाए, गुरुस्स पावं ति नायवज्झमिणं। आणाभंगाउ तयं,न य सो अण्णम्मि कह वज्झं? ||28|| आह पर:-अन्यसेवनया अनुवर्तितशिष्यपरावसेवनया गुरोः पापमिति न्यायबाहामिदं, ततश्च स खलु तत्प्रत्ययः सर्व इत्याद्ययुक्तमित्यस्योत्तरमाह-आज्ञाभङ्गात्तद् भगवदाज्ञाभङ्गेन पापं न चासावन्यस्मिन्, किं तु गुरवे, कथम् ? बाह्यं नैव न्यायबाह्यमिति गाथाऽर्थः। तम्हाऽणुवत्तियव्वा, सेहा गुरुणा उ सो अगुणजुत्तो। अणुवत्तणासमत्थो, जं तो एआरिसेणेव / / 29 // यस्मादेव तस्मादनुवर्तितव्याः शिष्यका गुरुणैन, स च गुणयुक्तश्च सन् अनुवर्त्तनासमथों यद्यस्मात्तत्तस्मादीदृशेनैव गुरुणा प्रव्रज्या दातव्येति गाथाऽर्थः / अपवादमाहकालपरिहाणिदोसा, इत्तो एगाइगुणविहीणेणं / अन्नेण वि पव्वज्जा, दायव्वा सीलबंतेणं // 30 // कालपरिहाणिदोषादतोऽनन्तरोक्त उदितगुणोपेताद् गुरोरेकाऽऽदिगुणविहीने नान्य नापि प्रव्रज्या दातव्या शीलवता शीलयुक्तेनेति गाथाऽर्थः / केणं ति दारं गयं। विशेषतः कालोचितं गुरुमाहगीतत्थो कडजोगी, चारित्ती तह य गाहणाकुसलो। अणुवत्तगोऽविसाई, वीओ पव्वावणाऽऽयरिओ॥३१॥ गीतार्थो गृहीतसूत्रार्थः, कृतयोगी कृतसाधुव्यापारः, चारित्री शीलवान्, तथा च-ग्रहणाकुशलः क्रियाकलापपलः शिक्षणानिपुणः, अनुवर्तकः स्वभावानुकूल्येन प्रतिजागरकः, अविषादी भावापत्सु, द्वितीयः अपवादिकः प्रव्राजनाऽऽचार्यः प्रव्रज्याप्रयच्छको गुरुरिति गाथाऽर्थः / केनेति व्याख्यातम्। (6) अधुना केभ्य इति व्याख्यायतेकेभ्याः प्रव्रज्या दातव्या। के पुनस्तदर्हा इत्येतदाहपव्वजाए अरिहा, आरियदेसम्मि जे समुप्पन्ना। जाइकुलेहिं विसुद्धा, तह खीणप्पायकम्ममला॥३२॥ प्रवज्याया अहाँ योग्याः। क इत्याह -आर्य देशे ये समुत्पन्ना