________________ पवज्जा 734 - अभिधानराजेन्द्रः - भाग 5 पवज्जा प्रेत्य मोक्षाऽऽद्यवाप्तिः, श्रामण्येऽमी गुणाः स्युस्तदिह सुमतयः! किं न यत्नं कुरुध्वम ?||1||'' इत्यादि / यदा यतिधर्ममङ्गीकर्तुं न शक्नोति तदा सम्यक्त्वमूलः श्राद्धधर्मः कथयितव्यः, यदा तमपि न प्रतिपद्यते तदा राम्यग्दर्शन, तस्याप्यप्रतिपत्तौ मद्यमांसविरतिः। एवं चानुपासकपुरतो धर्मकथायां विधिः / उपासकस्य तुयथा स्वरूचि, धर्मकयां करोतु न कश्चिद्दोषः / गतं प्रव्रज्याद्वारम्। बृ०१ उ०२ प्रक०। (5) अधुना केनेत्येतद व्याख्यायते। तत्र योग्येन गुरुणा सचेत्थभूत इत्याहपव्वज्जाजुग्गगुणे-हि संगओ विहिपवण्णपव्वजो। सेवियगुरुकुलवासो, सययं अक्खलियसीले अ॥१०।। प्रव्रज्यायोग्यस्य प्राणिनो गुणाः प्रव्रज्यायोग्यगुणाः आर्यदेशोत्पन्नऽऽदयो वक्ष्यमाणाः। तथाऽन्यत्राप्युक्तम्-अथ प्रव्रज्याह आर्यदेशोत्पन्नः विशिष्टजातिकुलान्वितः क्षीणप्रायकर्ममलः / तत एव विमलबुद्धिर्दुर्लभ मानुष्यं जन्ममरणनिमित्त दुःखं संपदश्चलाः विषयाः दुःखहेतवः संयोगे वियोगः प्रतिक्षणं मरणं दारुणो विपाक इत्यवगतसंसारनिर्गुण्यः, तत एव तद्विरिक्तः प्रतनुकषायोऽल्पहास्याऽऽदिःकृतज्ञो विनीतः प्रागपि राजामात्यपौरजनबहुमतोऽद्रोहकारी कल्याणाङ्गः श्राद्धः स्थिरः समुपसंपन्नश्चेति / एभिः संगतो युक्तः समेतः सन् किमित्याह-विधिप्रपन्नप्रव्रज्यः-विधिना वक्ष्यमाणलक्षणेन प्रपन्नाऽङ्गीकृता प्रव्रज्या येन स तथा-विधः / तथा सेवितगुरूकुलवासः समुपासितगुरुकुलवास इत्यर्थः। सततं सर्वकाल प्रव्रज्याप्रतिपत्तेरारभ्याऽस्खलितशीलो वाऽखण्डितशीलच, चशब्दात् परद्रोहविरतिभावश्चेति गाथाऽर्थः। सम्म अहीअसुत्तो, तत्तो विमलयरबोहजोगाओ। तत्तण्णू उवसंती,पवयणवच्छल्लजुत्तो अ॥११।। सम्यग् यथोक्तयोगविधानेन अधीतसूत्रो गृहीतसूत्रः ततो विमलतरबोधयोगादितिततःसूत्राध्ययनाद्यःशुद्धतरो बोधस्तत्संबन्धादित्यर्थः / किमित्याह-तत्त्वज्ञः वस्तुतत्त्ववेदी / उपशान्तः क्रोधविपाकावगमेन, प्रवचनवात्सल्ययुक्तश्च प्रवचनमिह सङ्घः सून वा, तद्वत्सलभावयुक्त इति गाथाऽर्थः। सत्तहिअरओ अतहाऽऽदेओ, अणुवत्तगो अगंभीरो। अविसाई परलोए, उवसमलद्धाइकलिओ अ॥१२।। सत्त्वहितरतश्च सामान्येनैव जीवहिते सक्तश्च, तथा न के बलमित्थविधः, किं त्वादेयोऽनुवर्तकश्च गम्भीरः। तत्राऽऽदेयो नाम ग्राह्यवाक्यः, अनुवर्तकश्च भावानुकूल्येन सम्यक् पालकः गम्भीरो विपुलचित्तः, अविषादी परलोकेन परीषहाऽऽद्यभिद्रुतः कायसंरक्षणाऽऽदौ दैन्यमुपयाति / उपशमलब्ध्यादिकलितश्व उपशम-लब्ध्यपकरणलब्धिस्थिहस्तलब्धियुक्तश्चेति गाथाऽर्थः। तह पवयणत्थवत्ता, सुगुरूअणुन्नायगुरुपओ चेव। एआरिसो गुरु खलु, भणिओ रागाइरहिएहिं / / 13 / / तथा प्रवचनार्थवक्ता, सूत्रार्थवक्तेत्यर्थः / स्वगुर्वनुज्ञातगुरुपदश्चैव असति तस्मिन दिने सम्यगाचर्याऽऽदिना स्थापितगुरुपद इत्यर्थः, ईदृशो / गुरुः / खलुशब्दोऽवधारणार्थः, ईदृश एव, कालदोषादन्यतरगुणरहि तोऽपि बहुतरगुणयुक्त इति वा विशेषणेत्यर्थः। भणितो रागाऽऽदिरहितैः प्रतिपाऽऽदितो, वीतरागैरिति गाथार्थः। एआरिसेण गुरुणा, सम्म परिसाइकज्जरहिएणं / पव्वज्जादायव्वा, तयणुग्गहनिज्जराहेओ॥१४॥ ईदृशेन गुरूणा एवंविधनाऽऽचार्येण, सम्यगविपरीतेन विधिना पर्षदादिकार्यरहितेन पानकाऽऽौहिककार्यनिरपेक्षेण प्रव्रज्या दातव्या दीक्षा विधया, किंतहङ्गीकृत्येत्यत्राऽऽह-तदनुग्रहनिर्जराहेतोरिति, विनेयानुग्रहार्थ कर्मक्षयार्थ चेति गाथाऽर्थः। ईदृशि गुरौ गुणमाहभत्तिबहुमाणसद्धा, थिरया चरणम्मि होइ सेहाणं / एआरिसम्मि नियमा, गुरुम्मि गुणरयणजलहिम्मि 15|| भक्तिबहुमानाविति- भक्तिर्बाह्यविनयरूपा, बहुमानो भावप्रतिबन्धः, एतौ भवतः, शिक्षकाणामभिनवप्रव्रजितानामिति योगः। क्तेत्याहईदृश्येवंभूते गुरौ आचार्य नियमान्नियमेन / पुनरपि स एव विशेष्यतेगुणरत्नजलधौ गुणरत्नसमुद्र इति / ततः श्रद्धा स्थिरता च चरणे भवतीति / तथाहि-गुरुभक्तिबहुता न भावत एव चारित्रे श्रद्धा स्थैर्य च भवति, नान्यथेति गाथाऽर्थः / गुणान्तरमाहअणुवत्तगो अ एसो, हवइ दढं जाणइजओ सत्ते। चित्ते चित्तसहावे, अणणुव्वत्ते तह उवायं च / / 16 / / अनुवर्तकश्व एषोऽनन्तरोदितो गुरुर्भवति दृढमत्यर्थम् / कुत इत्याहजानाति यतः सत्त्वान् प्राणिनश्चितान् नानारूपाश्चित्रस्वभावान्नानास्वभावान्, अनुवानिति अनुवर्तनीयान्, तथोपायं चानुवर्तनोपायं च जानातीति गाथाऽर्थः। अनुवर्तनागुणमाहअणुवत्तणाएँ सेहा, पायं पावंति जोगयं परमं / रयणं पि गुणुक्करिसं, उवेइ सोहम्मणगुणेण / / 17|| अनुवर्तनया करणभूतया शिक्षकाः प्रायो बाहुल्येन, कटुकल्प दुःख विहाय प्राप्नुवन्ति योग्यतामपवर्ग प्रति परमा प्रधानाम्। स्यादेतद्योग्या एव प्रव्रज्याऽर्हा इति किं गुरुणेत्येतद्दाशङ्क्याऽऽहरत्नमपि पद्मरागाऽऽदि गुणोत्कर्ष कान्त्यादिगुणप्रकर्षमुपैति (सोहम्मणगुणेण) रत्नशोधकप्रभावेण, वैकटिकप्रभावेणेत्यर्थः / एवं सुशिष्या अपि गुरुप्रभावेणेति गाथाऽर्थः। किंचएत्थ पमायक्खलिआ, पुव्वडभासेण कस्स व न हुंति / जो ताइऽवणेइ संम, गुरुत्तणं तस्स सफलं ति / / 18|| अत्र च प्रव्रज्याविधाने, प्रमादस्खलितानीति-प्रमादात्सकाशाद् दुश्चेष्टितानि पूर्वाभ्यासेन कस्यवान भवन्ति / अनादिभवाभ्यस्तो हि प्रमादान झटित्येव त्यक्तं पार्यत, यस्तानि स्खलितान्यपनयति सम्यक् प्रवचनोक्तेन विधिना गुरुत्वं तस्य सफलम्। गुण-गुरुत्वेनेति गाथाऽर्थः। एतदेव लौकिकोदाहरणेन स्पष्टयतिको णाम सारहीणं, स होज जो भद्दवाजिणो दमए।