________________ पवज्जा 733 - अभिधानराजेन्द्रः - भाग 5 पवज्जा मानः केषाशिद योधनं जनयति येनैवमभिधीयते भव्यपुण्डरीकाणां | विडो इति। अत्रोच्यतेजह सूरस्स पभावं,दळु वरकमलपोंडरीयाई / बुझंति उदयकाले, तत्थ उ कुमुदा न बुज्झंति // 334 / / एवं भवसिद्धीया, जिणवरसूरस्स थुइपभावेणं / बुझंति भवियकमला, अभवियकुमुदा न बुज्झंति // 335 / / यथा सूर्यस्य प्रभावं प्रभापटलरूपं दृष्ट्वा सरसि स्थितानि वरकमलपुण्डरीकाणि उदयकाले प्रभाते बुद्ध्यन्ते, तत्रैव च सरसि कुमुदान्यपि सन्ति, परं तानि न बुद्ध्यन्ते, एवमेतेनैव दृष्टान्तेन जिनवरसूर्यस्य या स्तुतिरागमः प्रभापटलकल्पः, तत्प्रभावेन भव्यकमलानि बुद्ध्यन्ते सम्यक्त्वाऽऽदिविकाशमासादयन्ति / तानि च "भव्या वि ते अर्णता, जे मुत्तिसुहं न पावंति।" इति वचनादसंभावनीयसिद्धिगमनान्यपि भवेयुरित्यतस्तदव्यवच्छेदार्थमाह-भवा भाविनीति सिद्धिर्येषां तानि भवसिद्धिकानि, यस्मॅिश्च जीवलोकसरसि भगवतः प्रभावेन भव्यकमलानि बोधमश्नुवते, तरिमन्नभव्यकुमुदान्यपि कालसौकरिकप्रभृतीनि सन्ति, परं तानि न प्रतिबुझ्यन्ते, तथास्वाभाव्यात्। यदवादि वादिमुख्येन 'सद्धर्मबीजवपनानघकौशलस्य, यल्लोकबान्धव! तवापि खिलान्यभूवन (अप्रतिहत क्षेत्राऽऽदि खिलमुच्यते ) / तन्नाद्भुत खगकुलेष्विह तामसेषु, सूर्याशवो मधुकरीचरणावदाताः / / 1 / / " (6 स्या०) अत्र परः प्राहपुव्वं तु होइ कहओ, पच्छा धम्मो उ उक्कमो किं नु ? तेण वि पुव्वं धम्मो, सुतो उ तम्हा कमो एसो॥३३६।। पूर्व तावत्कथको धर्मोपदेष्टा भवति पश्चात्तदुपदेशं श्रुत्वा धर्म उत्पद्यते, ततः किमेवं कीदृश इति प्रथमं धर्मस्वरूपमुद्दिश्य केन वा कथयितव्य इति कथकस्वरूपं पश्चादुद्दिश द्विरुत्क्रमः क्रियते? गुरूराह-तेनापि कथकेन पूर्व गुरूणां समीपे धर्मः श्रुत एव तस्मात्क्रम एष नोत्क्रम इति। अयं च धर्म उपायेनैव कथयितव्यो नानुपायेन / आह-के दोषा अनुपायकथने ? उच्यतेजइधम्मं अकहेत्ता, अणु दुविधं सम्म मंसविरई वा। अणु वा सए कहिंते, चउजमला कालगा चउरो॥३३७॥ यो खलु मिथ्यादृष्टिरनुपासकस्तत् प्रथमतया धर्मश्रवणार्थमुपतिष्ठते, तस्य यतिधर्मः कथयितव्यो, यदि यतिधर्ममकथयित्वा श्रावकसंबन्धिनमणुधर्म कथयति तदा चत्वारो गुरवः, तपसा कालेन च द्वाभ्यामपि गुरुकाः, यदा यतिधर्म प्रतिपत्तुंनोत्सहते तदा मूलोत्तरगुणभेदात् द्विविधः श्राद्धधर्मः कथनीयः, सम्यक्त्वमूलानि द्वादश व्रतानीत्यर्थः / यदि श्राद्धधर्ममकथयित्वा सम्दग्दर्शनमात्रं कथयति तदा चत्वारो गुरवः, तपसा गुरवः, कालेन लघवः / यदा श्राद्धधर्म ग्रहीतुन शक्रोति तदा यदि सम्यग्दर्शनमनुपदिश्य मद्यमांसविरतिं कथयति तदा चत्वारो गुरवः तपसा लघवः, कालेन गुरवः, यदा सम्यगदर्शनमप्यङ्गीकर्तुं न शक्रोति तदा यदि मद्यमांसविरतिमप्ररूप्यैहिकमामुष्मिक वा तद्विरतिफलं कथयति तदाऽपि चत्वारो गुरवः तपसा कालेन लघवः / (चउजमला कालगा चउरो त्ति) चत्वारि यमलानि तपः कालयुगललक्षणानि येषु ते चतुर्यमलाः, चत्वारः कालकाश्चत्वारश्चतुर्गुरूका इत्यर्थः / आज्ञाभङ्गाऽऽदयश्च दोषाः। अपि चजीवा अन्भुद्वित्ता, अवहीकहणा विरंजिया संता। अभिसंछूढा हों ति उ, संसारमहन्नवं तेण / / 338 / / ते जीवाः प्रव्रज्यायामभ्युत्तिष्ठन्तोऽपि तदीयया अविधिकथन्या रञ्जिताः सन्तश्चिन्तयन्ति-यदि श्रावकधर्मणाऽपि कामभोगान् भुञ्जानैः सुगतिरवाप्यते ततः किमनया सिकताकवलनिरास्वादया प्रव्रज्यया? एवं यदि सम्यग्दर्शनमात्रेणापि सुगतिरासाद्यते तर्हि को नामाऽऽत्मानं विरतिशृङ्खलाया प्रक्षेस्यतीत्यादि / एवं ते विपरिणामिताः प्रव्रज्यामगृह्णन्तः षट्कायान् विराधयेयुः अतस्तेन कथकेन संसारमहार्णवमभि आभिमुख्येन प्रक्षिप्ता भवन्ति, चिरेण मुक्तिपदप्राप्तः। एसेव य नूण कमो, वेरगगओ न रोयए तं च / दुहतो य निरणुकंपा, सुणिपायसतरच्छअठुवमा / / 336 / / ते जीवा इत्थं चिन्तयेयुः-नूनमेष एवात्र क्रमः परिपाटिः यत्पूर्व श्रावकधर्म स्पृष्ट्वा पश्चाद्यतिधर्म प्रतिपद्यते / अथवा-पूर्व सम्यगदर्शनमात्रमुररीकृत्य ततो देशविरतिरूपा दीयते। यद्वा-मद्यमांसविरतिं स्पृष्ट्वा पश्चात् सम्यक्त्वं गृह्यते इति। स चाऽऽराभबहुलतया गृहवासस्योपरि वैराग्यमुपगतः प्रव्रज्यां प्रतिपत्तुमायातः, सच धर्मकथां श्राद्धधर्मा प्ररूपयितुं लगः,तं चासौ वैराग्याधिरूढमानसत्वात् न रोचयति. ततो विपरिणम्य तचनिकाऽऽदिषु (?) गच्छेत्. ते चैवमविधिना धर्म कथयन्तो द्विधाऽपि निरनुकम्पाः, षण्णां कायानां तस्य चोपरि अनुकम्पारहिताः। (सुणि ति) वीरशुनिकादृष्टान्तो, यथा-सा वीरशुनिका पूर्वमालपमाना परिखेदिता पश्चात्सद्भूतमपि नेच्छति; एवमत्रापि पूर्व श्राद्धधर्मे कथिते पश्चात् यत्नतोऽऽभिधीयमानमपि श्रमणधर्ममसौ न प्रतिपद्यते / तथा (पायस त्ति) यथा-कस्यापि प्राघूर्णकस्य पूर्व वासितभक्तं दत्तं, ततः सउदरपूरं तदुक्ताम् पश्चात् घृतमधुसंयुक्तंपायसमपि दीयमानं तस्य न रोचते / (तरच्छअटुवम ति) यथा तरक्षो व्याघ्रविशेषः, स पूर्व अस्वाऽऽघ्रातः पश्चादामिषमपिन रोचयति, एवमस्यापि श्रावकधर्मघ्रातस्य यतिधर्मो न प्रतिभासते यत एते दोषा अतो विधिनैव कथनीयम्। के पुनर्विधिकथने गुणाः? उच्यतेतित्याणुसज्जणाए, आयहियाए परं समुद्धरति। मग्गप्पभावणाए, जइधम्मकहा अओ पढमं // 340 / / यतिधर्मकथा प्रथमतः क्रियमाणा तीर्थस्यानुसज्जना भवति, बहूनां जन्तूनां प्रव्रज्याप्रतिपत्तेः / तीर्थानुसज्जना च कृता आत्महिताय जायते; परं च प्रव्रज्याप्रदानेन संसारसागरादसौ समुद्धरति; अत एव भार्गस्य सम्यग्दर्शनाऽऽदेः प्रभावनाये सा प्रभवति, यत एते गुणा अतो यतिधर्म-कथा प्रथम स्वरूपतो गुणतश्व कर्तव्या। तत्र स्वरूपतो यथा- ''खंती य मद्दवजव मुत्ती' इत्यादि / गुणतां यथा- ''ना दुष्कर्मप्रसासो न कुयुवतिसुतस्वामिदुर्वाक्यदुःखं राजाऽऽदी न प्रणामोऽसनवस नधनस्थानचिन्ता न चैव। ज्ञानाऽऽतिपर्लोकपूजा प्रशमसुखरसः