________________ पवज्जा 732 - अभिधानराजेन्द्रः - भाग 5 पवज्जा भ्रातृवशभवदत्तस्येव या सा (रोस त्ति) रोषात् शिवभूतेरिव या सा रोषा। (परिजुण्ण ति) परिङ्ताद्दारिद्रयात्काष्ठाऽऽहारकस्येव या सा परिघुना। (सुविण ति) स्वप्नात् पुष्पचूलाया इव या स्वप्ने वा या प्रतिपद्यते सा स्वप्ना। (पडिस्सुया चेव त्ति) प्रतिश्रुतात् प्रतिज्ञाताद्या सा प्रतिश्रुता, शालिभद्रभगिनीपतिधन्यकस्येव। (सारणिय ति) सारणाद्या सा सारणिका, मल्लिनाथरमारितजन्मान्तराणां प्रतिबुद्ध्याऽऽदिराजानामिव / (रोगणिय ति) रोग आलम्बनतया विद्यते यस्यां सा रोगिणी, सेव रोगिणिका, सनत्कुमारस्येव / (अणाढिय ति) अनादृतादनादराद्या सा अनादृता, नन्दिपेणस्येव, अनादृतस्य वा शिथिलस्य या सा तथा (देवसन्नत्ति त्ति) देवसंज्ञप्तेर्दैवप्रतिबोधनाद्या सा तथा, मेतार्याऽऽदेरिवेति / (वत्थाणुबंधिय त्ति) गाथाऽतिरिक्तम्- वत्सः पुत्रस्तदनुबन्धो यस्यामस्ति सा वत्सानुबन्धिका, वैरस्वामिमातुरिवेति। स्था० 10 ठा० / (इत्येतांसां मिलितानां षोडशानामच्छन्दाऽऽदीनां प्रव्रज्यानां छन्दाऽऽदिशब्देषु व्याख्या) पं०भा०। पं०चू० (4) धर्मश्रवणतोऽभिसमागमतश्च दीक्षामेव तत्वत आह तत्र दीक्षामेव तावत्स्वरूपतो निरूपयन्नाहदिक्खा मंडणमेत्थं, तं पुण चित्तस्स होइ विण्णेयं / ण हि अप्पसन्नचित्तो, धम्मऽहिगारी जओ होइ।।२।। दीक्षण दीक्षा, सा च मुण्डनं द्रव्यतः केशापनयनं, भावतस्तु क्रोधाऽऽद्यपनयनम् / यदाह- ''पंचमुडा पण्णत्ता / तं जहा कोहमुंडे सिरमुंडे।'' पठ्यते च धातुपाठ-'दीक्षा' मौण्ठ्ये इति / तदिह किं द्रव्यमुण्डनमपि दीक्षा, नेत्याह-(एत्थं ति) अत्र जिनदीक्षाऽधिकारे तदिति मुण्डनं, पुनःशब्दः पूर्वोक्तार्थस्य विशेषणार्थः। चित्तस्य भावस्य मिथ्यात्वक्रोधकण्डू इत्यादिरूपस्य, भवति वर्तते, विज्ञेयं ज्ञातव्यं, सर्वविरतिदीक्षा तु शिरोमुण्डनमपीति भावः / कुत एतदेव मित्याह-न हि नैव, हिशब्द एवकारार्थो, दीक्षाया मुण्डनविशेषस्वरूपताभावनार्थो वा, अप्रशान्तचित्त उत्कटक्रोधाऽऽदिदूषितभावो, धर्मे सम्यग्दर्शनाऽऽदिरूपे कुशलकर्मण्यधिकारी नियोगवान् धर्माधिकारी, यतो यस्मात्कारणात्, भवति जायते। यदाह- "तन्नास्य विषयतृष्णा, प्रभवत्युच्चैर्न दृष्टिसंमोहः / अरूचिर्न धर्मपथ्ये, न च पापा क्रोध-कण्डूतिः।।१।।'' ''अप्पसत्तचित्तो त्ति" वा पाठः / तत्र आपत्स्वऽवैक्लव्यकरमध्यवसानकरं च सत्त्वभुक्तं, ततश्चाल्पं तुच्छ सत्त्वं यत्र तदल्पसत्त्वं, तचित्तं यस्य सौऽल्पसत्त्वचित इति, शेषं तथैवा इति गाथाऽर्थः / / 2 / / इयं च भावमुण्डनरूपा दीक्षा यदा यस्य च भवतीत्येतदभिधित्सु-राहचरिमम्मि चेव भणिया, एसा खलु पोग्गलाण परियट्टे। सुद्धसहावस्स तहा, विसुज्झमाणस्स जीवस्स / / 3 / / चरम एवानादित्वादधजीवधारनन्तानां पुद्गलपरावर्तानां सर्वान्तिम एव नान्यत्रापि भणिता अभिहिता जिने रेषा भावमुण्डनरूपा दीक्षा, खलुक्यालङ्कारे, पुद्गलानां परमाण्वादीना, परिवर्त एकजीवापेक्षया खिलपुद्गलग्रहणप्रमित कालरूपे, स च समयप्रसिद्धोऽनन्तोत्सर्पिण्यवसर्पिणीरूपः / यदाह 'ओरालविउब्धियते-यकम्मभासाणुपाणमणएहिं। जीवस्स सयलपोग्गल-गहणद्धा थूलपरियट्टो।।१।। ओरालियाऐं एके-कभेयओसव्वपोग्गलग्गहणं। कालेण जेण सो पुण, भण्णति इह सुहुमपरियट्टे" / / 2 / / इत्यादि शुद्धस्वभावस्य यथाप्रवृत्तिकरणेनापचितदीर्घकर्मस्थितिकत्वेन निर्मलस्वरूपस्य, तथेति विशेषणान्तरसमुच्चयार्थः ।अथवातथा तेन प्रकारेण तत्कालोचितशुद्ध्येति भावः, विशुद्धमानस्योत्तरोत्तरां विशुद्धिमनुभवतो न पुनः संक्लिश्यमानस्य जीवस्य प्राणिनः / यदाह"वडते परिणामे, पडिवजइ सो चउण्हमण्णयरं / एमेव वनियम्मि वि, हायंति न किंचि पडिवजे // 1 // " इति गाथाऽर्थः / पञ्चा०२ विव० / व्य० / अवयवार्थ प्रतिद्वारमभिधित्सुःप्रथमतःप्रव्रज्याद्वारमाहसोचाऽभिसमेचा वा, पव्वजा अभिसमागमो तत्थ। जाइस्सरणाईओ, सनिमित्तमनिमित्तओ वावि॥३३१।। श्रुत्वा तीर्थकरगणधराऽऽदीनां धर्मदेशानां निशम्य, अभिसमेत्य वा सह सन्यस्याऽऽदिना स्वयमेवावबुध्य, प्रव्रज्या भवेत्, तत्राल्पवक्तव्यत्वात् प्रथममभिसमागम उच्यते, सोऽपि समागमो जातिस्मरणाऽऽदिकः सनिमित्तकोऽनिमित्तको वा द्रष्टव्यः / तत्र यद्बाह्यं निमित्तमुद्दिश्य जातिस्मरणमुपजायते तत्सनिमित्तक, यथा वल्कलचीरप्रभृतीनां, यत् पुनरेव तदाचारकर्मणां क्षयोपशमेनोत्पद्यते तदनिमित्तकं, यथा स्वयंबुद्धकपिलाऽऽदीनाम् / एतेन जातिस्मरणेन, आदिग्रहणात् श्रावकस्य गुणप्रत्ययप्रभवेणावधिज्ञानेन अन्यतीर्थिकस्य वा विभङ्ग ज्ञानेन प्रव्रज्याप्रतिपत्तिः संभवति / गतमभिसमेत्य द्वारम्। __अथ श्रुत्वेति द्वारं विवरीषुराहसोच्चा उ होइ धम्म,स के रिसो केण वा कहेयव्यो? के तस्स गुणा वुत्ता दोसा अणुवायकहणाए।।३३२॥ धर्ममाचार्याऽऽदीनामन्तिके श्रुत्वा प्रव्रज्या भवति / अत्र शिष्यः पृच्छति-स धर्मः कीदृशः केन वा कथयितव्यः, के वा तस्योपायकथने गुणाः प्रोक्ताः, के वा अनुपायकथने दोषा इति। तत्र कीदृशः केन वा कथयितव्यः इति प्रश्ने निर्वचनमाहसंसारदुक्खमहणो, विवोहओ भवियपुंडरीयाणं / धम्मो जिणपन्नत्तो, पगप्पजइणा कहेयव्वो // 333 / / संसार एव जन्मजरामरणाऽऽदिदुःखनिबन्धनत्वाद् दुःखं, संसारस्य वा दुःखानि शारीरमानसिकलक्षणानि, तस्य तेषां वा मथनो विनाशकः, तथा भव्या एव विनयाऽदिविमलगुणपरिमलयोगात् ज्ञानाऽऽदिलक्ष्मीनिवासयोग्यतया च पुण्डरीकाणि श्वेतसरोरुहाणि तेषां विशेषेण मिथ्यात्वाऽऽदिविद्रावणलक्षणेन बोधकः सम्यगदर्शनाऽऽदिविकाशकारी इदृशो जिनप्रज्ञप्तो धर्मः प्रकल्पयतिना निशीथाध्ययनसूत्रार्थधारिणा साधुना कथयितव्यः, स हि संविग्नगीतार्थतयोत्सर्गापवादपदानि स्वस्थाने स्वस्थाने विनियुञ्जानो न विपरीतप्ररूपणायाऽऽत्मानं वा दीर्घभवभ्रमणभाजनमातनोतीति। परः प्राह-किमेवंविधोऽपि भगवतो धर्ममुपदिश्य