________________ पवज्जा पवज्जा 731 - अभिधानराजेन्द्रः - भाग 5 पुरतोऽग्रतः प्रव्रज्यापर्यायभाविषु शिष्याऽऽहाराऽऽदिषु या प्रतिबद्धा सा तथा उच्यते, एवं मार्गतः पृष्ठतः स्वजनाऽऽदिषु, द्विधा-ऽपि काचित् अप्रतिबद्धा पूर्ववत् / स्था० 4 ठा० 4 उ० / तिविहा पव्वज्जा पण्णत्ता / तं जहा-तुयावइत्ता, पुयावइत्ता, वुयावइता॥ (तुयावइत्त ति) 'तुद' व्यथने इति वचनात् / तोदयित्वा तोदं कृत्वा व्यथामुत्पाद्य या प्रव्रज्या दीयते मुनिचन्द्रपुत्रस्य सागरचन्द्रेणेव सा तथोच्यते। (पुयावइत्त त्ति) 'प्लुड्गताविति वचनात्।प्लावयित्वाऽन्यत्र नीत्वाऽऽर्यरक्षितवत्या दीयते सा तथेति। (वुवावइत्ता) संभाष्य गौतमेन कर्षकवदिति। स्था०३ ठा०२ उ०। चउव्विहा पव्वज्जा पण्णत्ता / तं जहा-तुयावइत्ता, पुयावइत्ता, मोयावइत्ता परिपुयावइत्ता।। (तुयावइत्त ति) तोदं कृत्वा तोदयित्वा व्यथामुत्पाद्य या प्रव्रज्या दीयते, मुनिचन्द्रपुत्रस्य सागरचन्द्रेणेव सा तथोच्यते / (ओया-वइत्त त्ति) क्वचित्पाटस्तत्र ओजो बलं शारीरं विद्याऽऽदिसत्कं वा तत् कृत्वा प्रदW दीयते सा ओजयित्वेत्यभिधीयते। (पुयावइत्त ति) प्लुड्गतावितिवचनात्, प्लावयित्वा, अन्यत्र नीत्वाऽऽर्यरक्षितवत्, पूतं वा दूषणव्यपोहेन कृत्वा या सा पूतयित्वेति / (वुयावइत्त त्ति) संभाष्य गौतमेन कर्षकवत् वचन वा पूर्वपक्षरूप कारयित्वा निगृह्य च प्रतिज्ञावचनं वा कारयित्वा या सा तथाक्ता। क्वचित् ''मोयावइत्त त्ति'' पाठस्तत्र मोचयित्वा साधुना तैलार्थ-त्वादासम्नप्राप्तभगिनीवदिति। (परिपुयावइत्त त्ति) घृताऽऽदिभिः परिप्लुतभोजनः परिप्लुत एव, तं कृत्वा परिप्लुतयित्वा सुहस्तिनो रडवत् या सा तथोच्यते। स्था०४ ठा०४ उ०। तिविहा पध्वजा पण्णत्ता / तं जहा-उवायपटवजा, अक्खायपव्वजा, संगारपव्वजा।। अवपातः सेवा सद्गुरूणां, ततो या सा अवपातप्रव्रज्या, तथा आख्यातस्य वा प्रव्रज्येत्यभिहितस्य गुरुभिर्या साऽऽख्यातप्रव्रज्या फल्गुरक्षितस्येवेति / (संगार ति) संकेतस्तरभाद्या सा संगारप्रव्रज्या, मेतार्याऽऽदीनामिवेति। अथवा-यदि त्वं प्रव्रजसि तदा मया प्रव्रजितव्यमित्येवं या सा। स्था०३ ठा०२ उ०। चउठिवहा पव्वज्जा पण्णत्ता / तं जहा-उवायपव्वजा, अक्खायपव्वज्जा, संगारपव्वज्जा, विहगगइपव्वजा। (उवाय त्ति) अवपातः सद्गुरूणां सेवा, ततो या प्रव्रज्या साऽवपातप्रव्रज्या, आख्यातस्य प्रव्रज्येत्याधुक्तस्य या स्यात् साऽऽख्यातप्रव्रज्या, आयरक्षितभ्रातुः फल्गुरक्षितस्येवेति। (संगार त्ति) संकेलस्तम्मात् या सा तथा, मेतार्याऽऽदीनामिव / यदि वा-यदि त्वं प्रव्रजरि तदाऽहमपि इत्येव संकेततो या सा तथेति। (विहगगइ ति) विहगगत्या पक्षिन्यायेन परिवाराऽऽदिवियोगेनैकाकिनो देशान्तरगमनेन च या सा विहगगतिप्रव्रज्या, क्वचिद्वि-हगप्रव्रज्येति पाठः, तत्र विहतगस्यवेति दृश्यम्, विहतस्य वा दारिद्यादिभिररिभिर्वेति। स्था०४ ठा०४ उ०। / चउठिवहा पव्वज्जा पण्णत्ता। तं जहा- णडक्खइत्ता, भडक्खइत्ता, सीहक्खइत्ता, सियालक्खइत्ता। नटस्येव संवेगविकलधर्मकथाकरणोपार्जितभोजनाऽऽदीनाम्. (खइय त्ति) खादितं भक्षणं यस्यां सा नटखादिता, नटस्येव वा (खइ त्ति) संवेगशून्यधर्मकथनलक्षणो हेवाकः स्वभावो यस्यां सा तथा; एवं भटाऽऽदिष्वपि, नवरं भटस्तथाविधबलोपदर्शनलब्धभोजनाऽऽदेः खादिता आरभटवृत्तिलक्षणहेवाको वा, सिंहः पुनः शौर्यातिरेकादवज्ञयोपात्तस्य यथारब्धभक्षणेन वा, खादिता तथाविधप्रकृतिर्वा, शृगालस्तुन्यगवृत्त्योपात्तस्यान्यान्यस्थानभक्षणेन वा खादिता तत्स्वभावो वेति / / 4 / / कृषिदृष्टान्तःचउव्विहा किसी पण्णत्ता / तं जहा-वाविया, परिवाविया, निंदिया, परिणिंदिया। एवामेव चउव्विहा पव्वज्जा पण्णत्ता। तं जहा-वाविया, परिवाविया, जिंदिया, परिणिंदिया। कृषिर्धान्यार्थ क्षेत्रकर्षणम् (वाविय त्ति)। सकृद्धान्यवपनवती। (परिवाविय ति) द्विस्सिर्वा उत्पाद्य स्थानान्तराऽऽरोपणतः परिवपनवती, शालिकृषिवत् / (णिदिय त्ति) एकदा विजातीयतृणाऽऽद्यपनयनेन शोधिता निन्दिता / (परिनिंदिय त्ति) द्विस्वि, तृणाऽऽदिशोधनेनेति प्रव्रज्या तु (वाविया) सामायिकाऽऽरोपणेन / (परिवाविया) महाव्रताऽऽरोपणेन निरतिचारस्य सातिचारस्य वा मूलप्रायश्चित्तदानतः (निदिया) सकृदतिचाराऽऽलोचनेन (परिणिंदिया) पुनः पुनरिति। ___धान्यपुञ्जसमानाचउव्विहा पव्वजा पण्णत्ता / तं जहा-धण्णपुंजिय-समाणा, धण्णविरल्लियसमाणा, धण्णविक्खित्तसमाणा, धण्ण-संकड्डियसमाणा। (धण्णपुंजियसमाण त्ति) खले लूनपूतविशुद्धपुजीकृतधान्यसमाना सकलातिचारकचवरविरहेण लब्धस्वस्वभावत्वात एकाऽन्या तु खलक एव यद्विरेलित विसारित वायुना पूतपुजीकृतं धान्यं तत्समाना, या हि लघुनाऽपि यत्नेन स्वस्वभावं लप्म्यत इति। अन्या तुयद्विकीर्ण गोखुरक्षुण्णतया विक्षिप्त धान्य तत्समाना, या हि सहसमुत्पन्नातिचारकचवरयुक्तत्वात्सामग्रयन्तरापेक्षितया कालक्षेपलभ्यस्वस्वभावा सा धान्यविकीर्णसमानोच्यते। अन्या तु यत्संकर्षित क्षेत्रादाकर्षितं खलमानीत धा-यं तत्समाना, या हि बहुतरातिचारोपेतत्वाद्बहुतरकालप्राप्तव्यस्यस्वभावा, सा धान्यसङ्कर्षितसमानेति। इह च पुञ्जिताऽऽदेान्यविशेषणस्य परनिपातः प्राकृतत्वादिति / इयं च प्रव्रज्या एवं विचित्रसंज्ञावशाद्रवतीति / स्था०४ ठा०४ उ०। दशविधा प्रव्रज्यादसविहा पव्वज्जा पण्णत्ता। तं जहा- "छंदा रोसा परि-जुण्णा, सुविणा पडिस्सुया चेव / सारणिया रोगणिया, अणाढिया देवसन्नत्ती / / 1 / / " वच्छानुबंधिया। 'छ दागाहा" - (छंद त्ति) छन्दात् स्वकीयादभिप्रायविशेषाद्रो विन्दवाचक स्येव सुन्दरीनन्दनस्ये व वा परकीयाद्व।