________________ पवंचा 730 - अभिधानराजेन्द्रः - भाग 5 पवज्जा पवंचा स्त्री० (प्रपञ्चा) प्रपञ्चयति विस्तारयति खेलकासाऽऽदीनि प्रपञ्चा। सप्तम्यां पुरुषस्य दशायाम, तं०। सत्तमीउ पवंचाओ, जं नरो दसमस्सिओ। निच्छुभइ चिक्कणं खेलं,खासई य खणे खणे / / 7 / / सप्तमी प्रपञ्चा दशा, या दशामाश्रितः (निच्छुभइ त्ति) बहिर्निः क्षिपति / यत्र कुत्रापि बहिर्निस्सारयति चिक्का पिच्छिल, चेपकतुल्यमित्यर्थः / खेल श्लेष्माणं च पुनः क्षणे क्षणे वारं वारं (खासइत्ति) कासित करोतीत्यर्थः / तं। दश०। पवंचियण्णु पुं० (प्रपञ्चितज्ञ) विस्तरगदितज्ञे विनये, न०।। पवग पुं० (प्लवक) उत्प्लुत्य गर्ताऽऽदिलड्डनकारिषु, ये उत्प्लवन्ति गर्ताऽऽदिक क्रियाभिर्लधयन्ति नद्यादिकंवा तरन्ति तेषु, अनु० / ज० ! कल्प० / जी० / औ० / प्रश्न०। रा०। ज्ञा०। निचूला प्लवको वा प्रथम वंशे विलग्नः सन् प्लवते, ततः पश्चादभ्यस्यन्नाकाशेऽपि तानि तानि करणानि करोति / बृ०१ उका पवजा रत्री० (प्रव्रज्या) प्रव्रजनं पापेभ्यः प्रकर्षेण / चरणयोगेषु गमने, ध० 3 अधि०। महाव्रतप्रतिपत्तौ, पञ्चा० 16 विव०। पव्वयणं पव्वज्जा, पावाओ सुद्धचरणजोगेसुं। इअ मुक्खं पइ वयणं, कारणकजोवयाराओ / / 5 / / प्रव्रजतं प्रवज्या प्रकर्षण व्रजन प्रव्रज्या, कुतः त्यत आहपापाच्छुद्धचरणयोगेषु, इह पापशब्देन पापहेतवो गृहस्थानुष्ठानविशेषा उच्यन्ते, कारणे कार्योपचारान्, यथा-दधित्रपुषी प्रत्यक्षो ज्वर इति। शुद्धचरणयोगास्तु संयतव्यापारा: मुखवस्त्रिकाऽऽदिप्रत्युपेक्षणाऽऽदय उच्यन्ते / (इय) एवं मोक्ष प्रति व्रजनं प्रव्रज्या। कथमित्याह- ''कारणे कार्योपवारात्'' कारणे शुद्धचरणयोगलक्षणे मोक्षाऽऽख्यकार्योपचारात्। यथा- ''आयु घृतम्' इत्यायुषः कारणत्वाद् धृतभेवाऽऽयुरित्थं मोक्षकारणत्वात् शुद्धवरणयोग एव मोक्ष इति। ततश्च मोक्ष प्रति प्रव्रजन प्रव्रज्या इति गाथार्थः / एष तावत्प्रव्रज्यातत्त्वार्थः। (1) अधुना भेदत एनां व्याचिख्यासुराहनामाइचउब्मेआ, एसा दव्वम्मि चरगमाईणं। भावेण जिणमयम्मि उ, आरंभपरिग्गहचाओ।।६।। नाभाऽऽदिचतुर्भेदा एषा इय च प्रव्रज्या नामाऽऽदिचतुर्भेदा भवति। तद्यथा- नामप्रव्रज्या स्थापनाद्रव्यभावप्रव्रज्या चेति। तत्र नामरस्थापने क्षुण्णत्वादनादृत्य नो आगमत एव ज्ञशरीरभव्यशरीरव्यतिरिक्तां द्रव्यप्रव्रज्यामाह-द्रव्ये चरकाऽऽदीनां द्रव्य इति द्वारपरामर्शः / द्रव्यप्रव्रज्या चरकाऽऽदीना चरकपरिव्राजकभिक्षुमीताऽऽदीना, द्रव्यशब्दश्वेहाप्रधानवाचको वर्तमानभूतभविष्यद्रावयोग्यतावाचक इति नोआगमन एव भावप्रव्रज्यामाह- भावेनेति भावतः परमार्थतः जिनमत एव रागाऽऽदिजेतृत्वाजितः तन्मत एव, वीतरागशासन एवेत्यर्थः। आरम्भपरिग्रहत्यागः | वक्ष्यमाणाऽऽरम्भपरिग्रहवर्जन जिनशासन एव, अन्यशासनेष्वारम्भपरिग्रहस्वरूपानवगमात्सम्यक्त्वाभाव इति गाथाऽर्थः। आरम्भपरिग्रहस्यरूपप्रतिपादनायाऽऽह पुढवाइसु आरंभो, परिग्गहो धम्मसाहणं मुत्तुं / मुच्छा य तत्थ बज्झा, इयरो मिच्छत्तमाईओ।।७।। पृथिव्यादिषु कार्येषु विषयभूतेषु आरम्भ इत्यारम्भणमारम्भः संघट्टनाऽऽदिरूपः परिग्रहणं परिग्रहः / असौ द्विविधः-बाह्यः, आध्यन्तरश्च। तत्र धर्मसाधनं मुखवस्त्रिकाऽऽदि मुक्त्वा बाह्य इति संबन्ध / अन्यपरिग्रहणमिति गम्यते / मूर्छा च तत्र धर्मोकरणे बाह्या एव परिग्रह इति / इतरस्त्वान्तरपरिग्रहो मिथ्यात्याऽऽदिरेव। आदिशब्दादविरतिदुष्टयोगा गृह्यन्ते परिगृह्यन्ते, तेन कारणभूतेन कर्मणाजीव इति गाथार्थः / पं०व० द्वार। नि०चू० (2) प्रव्रज्यापर्यायाः। अधुनैतत्पर्यायानाहपव्वजा निक्कमणं, समया चाओ तहेव वेरग्गं / धम्मचरणं अहिंसा, दिक्खा एगट्ठिया इंतु ||6|| प्रव्रज्या निरूपितशब्दार्था, निष्क्रमणं द्रव्यभावसङ्गात्, समता सत्त्वेष्विष्टानिष्टषु त्यागो बाह्याभ्यन्तरपरिग्रहस्य, तथैव वैराग्यं विषयेषु, धर्मचरण क्षान्त्याद्यासेवनम्, अहिंसा प्राणिघातवर्जनम्, दीक्षा सर्वसत्त्वाभयप्रदानेन भावसत्रम्। एकार्थिकानितु एतानि प्रव्रज्यायाः, तुः विशेष - णार्थः शब्दनयाभिप्रायेण, समभिरूढनयाभिप्रायेण तु नानार्थान्येव, भिन्नप्रवृत्तिनिमित्तल्वात्सर्वशब्दानाम्। इति गाथाऽर्थः / पं० व० 1 द्वार। (3) त्रिविधा प्रव्रज्यातिविहा पव्वज्जा पण्णत्ता। तं जहा-इहलोगपडिबद्धा, परलोगपडिबद्धा, दुहओ पडिबद्धा / / सूत्रचतुष्टयं सुगम, केवलं प्रव्रजनंगमनं पापाचरणव्यापारेष्विति प्रव्रज्या, एतचरणयोर्गमन मोक्षगमनमेव कारणे कार्योपचारात, तन्दुलान्वर्षति पर्जन्य इत्यादिवदिति। उक्तंच पञ्चवस्तुके- "पव्वयणं पव्वञ्जा, पावाओ सुद्धचरणजोगेसु / इय मोक्खं पइ गमणं, कारणकजोवयाराओ" / / 5 / / इति।। (अस्याः व्याख्याऽनुपदमेव गता) इहलोकप्रतिबद्धा ऐहलौकिकभोजनाऽऽदिकार्यार्थिना, परलोकप्रतिबद्धा जन्मान्तरकामाऽऽद्यर्थिनां, द्विधा प्रतिबद्धा इहलोकपरलोकप्रतिबद्धा, सा चोभयार्थिनामिति / स्था०३ ठा०२ उ०। चतुर्विधा प्रव्रज्याचउविहा पव्यज्जा पण्णत्ता। तं जहा-इहलोगपडिबद्धा, परलोगपडिबद्धा, दुहओ लोगपडिबद्धा अप्पडिबद्धा / / इहलोकप्रतिबद्धा निर्वाहाऽऽदिमात्रर्थिनाम्, परलोकप्रतिबद्धा जन्मान्तरकामाऽऽद्यर्थिनाम, द्विधालोकप्रतिबद्धा, उभयार्थिनाम्। अप्रतिबद्धाविशिष्टसामायिकवताम् / स्था० 4 ठा० 4 उ०। तिविहा पध्वजा पण्णत्ता / तं जहा-पुरओ पडिबद्धा, मग्गओ पडिबद्धा, दुहओ पडिबद्धा। पुरतोऽग्रतः प्रतिबद्धाः प्रव्रज्यापर्यायभाविषु शिष्याऽऽदिष्वाशंसनतः प्रतिबन्धत्वात, मार्गतः पृष्ठतः स्वजनाऽऽदिषु सेहाच्छेदात, तृतीया द्विधाऽपीति / स्था० 3 ठा०२ उ०। चउव्विहा पव्वजा पण्णत्ता। तं जहा-पुरओ पडिबद्धा, मग्गओ पडिबद्धा, दुहओ पडिबद्धा अपडिबद्धा।।