________________ पलिस्सयण 726 - अभिधानराजेन्द्रः - भाग 5 पलिस्सयण - तथाऽपि सूत्रे विपर्ययः कृतः / कुतः? इत्याह- दुर्बला धृतिबलविकलस्वभावा स्त्री येन कारणेन भवति ततः प्रथममसौ कृता इत्यदोषः। वइणि त्ति णवरिणम्मं, अण्णा विण कप्पती सुविहियाणं।। अवि पसुजाती आलिं गिउं पि किमुता पलिस्सइउं / / 354 // / इह सूत्रे यत प्रतिनी निर्ग्रन्थी भणिता तन्नवरं नर्म चिह्नमुपलक्षणं द्रष्टव्य, तेनान्याऽपि रखी सुविहीतानां न कल्पते परिष्वक्तुम् / इदमेव व्याचष्ट, पशुजातिरपि पिकीप्रभृतिपशुजातीयस्त्रीरप्यालिनितुन कल्पते किमुत यत् परिष्वक्तुम् / यत् सूत्रे परिष्वजनमभिहितं तत्कारणिकम् / अत एवाऽऽहनिग्गंथो निग्गंथिं, इत्थिं गिहित्थं व संजयं चेय। पलिसयमाणे गुरुगा, दो लहुगा आणमादीणि / / 355 / / निम्रन्थो निर्गन्थी परिष्वजति चतुर्गुरूकाः, तपसा कालेन च गुरवः, स्त्रियमविरतिका परिष्वजति त एव तपसा गुरवः, गृहस्थं परिष्वजति चतुर्लघुकाः, कालेन गुरवः, संयतं परिष्वजतित एव. द्वाभ्यामपि लघवस्तपसा कालेन च; सर्वत्र चाऽऽज्ञाऽऽदीनि दूषणानि भवन्ति / इदमेव व्याचष्टेनिग्गंथी गुरुगा गिहि-पासंडिसमणा य चउलहुगा। दोहिं गुरुगा य लहुगा, कालगुरु दोहि वी लहुगा / / 356 / / / निग्रन्थस्य निर्गन्थी परिष्वजतश्चतुर्गुरवो द्वाभ्यामपि गुकाः, स्त्रियं परिष्वजत एव तथोगुरवः, गृहस्थं परिष्वजतश्चतुर्लघवः कालगुरवः, पाखण्डिपुरुष श्रमणं वा साधु परिष्वजतश्चतुर्लघवः / एवं द्वाभ्यामपि तपःकालाभ्या लधयः। मिच्छत्तं उड्डाहो, विराहणा फास भावसंबंधो। आतंको दोण्ह भवे, गिहिकरणे पच्छक्रम्म वा // 357 / / निर्ग्रन्थं निर्ग्रन्थ्या परिष्वजन्तं दृष्ट्वा यथा भद्रकाऽऽदयो मिथ्यात्व गच्छयुः / एते यथा-वादिनस्तथा कारिणो न भवन्ति। उड्डाहो वा भवेत्एते संयतीभिरपि सममब्रह्मचारिणः / एवं शङ्कयां चतुर्गुरू, निःशङ्किते मूलम् / एवं च प्रवचनस्य विराधना भवेत् / तेन वा स्पर्शन द्वयोरपि मोहोदये संजाते भावसंबन्धोऽपि स्यात्, ततश्च प्रतिगमनाऽऽदयो दोषाः। आतङ्को वा द्वयोरन्यतरस्य भवेत् स परिष्वजनं संक्रमेत् / गृहस्थस्य च परिष्वजनकरणात्पश्चात्कर्मदोषो भवेत्। इदमेव पश्चार्ट्स व्याचष्टेकोढुखए कच्छुजरे, अ परोवरसंकमते चउभंगो। इत्थीणातिसुहीण य, अवियत्ती गेण्हणाऽऽदीय य॥३५८।। कुष्टक्षतकच्छज्वरप्रभृतिके रोगे परस्परं संक्रामति चतुर्भङ्गी भवतिसंयतस्य संबन्धी कुष्ठाऽऽदिः संयत्याः संक्रामति संयत्याः संबन्धी वा संयतस्य संक्रामते, द्वयोरप्यन्योऽन्य संक्रामति, अत्राऽऽद्यभड़त्रये रोगसंक्रमणकृताः परितापनाऽऽदयो दोषाः / (इत्थी इत्यादि) तस्याः स्त्रियः संवन्धिनो ये ज्ञातयो ये च सुहृदस्तेषामप्रीतिकं भवति, ततश्च ग्रहणादऽऽयो दोषाः। गिहिएसु पच्छकम्म, भंगो ते चेव रोगमादीया। संजात असंखडाऽऽदी, भुत्ताभुत्ते य गमणाऽऽदी॥३५६।। गृहिषु परिष्वज्यमानेषु पश्चात्कर्म भवति, संयतेन स्पृष्टोऽऽयमिति कृत्वा गृहस्थः स्नानं कुर्यादिति भावः। अविरतिकाः। परिष्वङ्गे भावसंबन्धोऽपि जायेत। ततश्च व्रतभड्गो ब्रह्मचर्यविराधना भवेत्, रोगसंक्रमणाऽऽदयश्च तएव दोषाः, संयतंतु परिष्वजतः तेन सहा-संखडदयो दोषाः। भुक्तभोगिनश्च स्मृतिकरणेनाभुक्तभोगिनः कौतुकेन प्रतिगमनाऽऽदयो दोषाः / एवं तावन्निष्कारणे अग्लानयोश्चोक्तम्। एमेव गिलाणाए, सुत्तऽफलं कारणे तु जयणाए। कारणे गएऽगिलाणा, गिहकुल पंथे व पत्ता वा // 360 // एवमेव ग्लानाया अपि संयत्याः परिष्वजने क्रियमाणे दोषजालं मन्तव्यम् परः प्राह- नन्वेदं सूत्रमफलं प्राप्नोति, तत्र हि परिष्वजनमनुज्ञातं, स्वादनं पुनः प्रतिषिद्धम्। सूरिराह- कारणे यतनया क्रियमाणे परिष्वजने सूत्रमवतरति। कथं पुनस्तस्थसंभव इत्याह-कारणे काचिदार्यिका (एग त्ति) एकाकिनी संवृता सा च पश्चादग्लानीभूता, (गिहिकुल त्ति) गृहस्थकुला निश्रया सा स्थिता / अथवा- (गिहिकुल त्ति) माताऽस्यैककुलसमुदभूता भगिन्यादिसंबन्धेन जिनका गृहस्थतां परित्यज्य तदन्तिके प्रव्रजिता, सा चानीयमाना पथि वा वर्तमाना विवक्षितग्रामं वा प्राप्ता ग्लाना जाता। तत्रेयं यतनामाता भगिणी धूता, तधेव सण्णातिगा य सड्डीए। गारत्थि कुलिंगी वा, असोय सोए य जयणाए // 361 / / तस्याः संयत्या या माता भगिनी दुहिता वा तया तस्या उत्थापनाऽऽदिकं कार्यते / एतासामभावे या सज्ञातिका भागिनेयीपौत्रीप्रभृतिका, तया कार्यते / तस्या अभावे श्राद्धिकया, तदभावे गृहस्थया तथा भद्रिकया, कुलिङ्गिन्या वा कार्यते, तास्वपि प्रथभमशौचवादिनीभिस्ततः शौचवादिनीभिरपि यतनया कारयितव्यम्। एयासिं असतीए, अगार सण्णाय णालबद्धो य। समणो अणालबद्धो, तस्सऽसति गिही अवयतुल्लो // 362 / / एतासां रवीणामभावे योऽगारः सज्ञातकस्तस्याः स्वजनः, स च मातुलपुत्राऽऽदिरपि स्यात्, अतस्तत्प्रतिषेधार्थमाहनालबद्धो वल्लीबद्धः, पितृभ्रातृपुत्रप्रभृतिक इत्यर्थः / स उत्थापनाऽऽदिक तस्याः कार्यते, तदभावे श्रमणोऽपि यस्तस्या नालबद्धो असमानतया, तस्यासति अनालबद्धोऽपि गृही वयसा अतुल्यः स कार्यते। दोन्नि वी णालबद्धासु, जुजंती एत्थ कारणे। किढी कण्णा वि मज्झा वा, एमेव पुरिसेसु वि॥३६३।। नालबद्धाभावे द्वावपि स्त्रीपुरुषावनालबद्धावपि कारणे आगाढे उत्थापनाऽऽदिकं कारयितुं युज्यते / तत्रापि प्रथम (किढि त्ति) स्थविरा स्त्री कार्यते, तदभावे कन्यका, तदप्राप्तौ मध्यमा। एवं पुरुषेष्वपि वक्तव्यम् / अमुमेवार्थ पुरातनगाथया व्याख्यानयतिअसई य माउवग्गे, पिता व भाता व सो करेजाहि। दोण्ह वि तेसिं करणं, जति पंथे तेण जतणाए॥३६४।।