SearchBrowseAboutContactDonate
Page Preview
Page 728
Loading...
Download File
Download File
Page Text
________________ पलंब 720 - अभिधानराजेन्द्रः - भाग 5 पलंब माधिमध्यास्तां, षष्ठस्य च पारणके प्रमाणप्राप्तमाहारमुपादत्त / अथ न लभ्यते, ततः पूर्वोक्तयुक्त्या यावदेकोऽपि कवलो न लभ्यते ततोऽष्टमं कृत्वा तिष्ठतु, मा च प्रलम्बान्याददीत। एवमनयैव दिशा दशमाऽऽदिकमुत्तरोत्तरक्षपणं वर्द्धयता तावन्नेतव्यं यावत्षण्मासक्षपणम्। अथ षण्मासक्षपणे धर्माऽऽवश्यकयोगाः परिहीयन्ते, तत एकदिनन्यून षण्मासक्षपण करोतु, तदपिन शक्नोति निर्वोढुंतत एकैकं क्षपणं परिहापयता तावद्वक्तव्य यावदेकमपि क्षपणं कर्तुं न शक्रोति। ततः किं करोतीत्याहजावइयं वा लब्मइ, सग्गामे सुद्धसेस परगामे। मीसं च उवक्खडियं, सुद्धऽज्झवपूरगं गिण्हे // 277 / / वाशब्दः पातनायां, सा च कृतैवेति, यावत् शुद्धौदनं स्वग्रामे लभ्यते यदि तावता न संस्तरति ततो यावता न्यूनं तावत्परग्रामात् शेषं शुद्धौदनमानयति / गतमोदनद्वारम् / अथ मिश्रोपस्कृतद्वार-माह-(मीसं च इत्यादि) यदा स्वग्रामपरग्रामयोः पर्याप्त शुद्धोदनं न प्राप्यते, तदा यदीदनं प्रलम्बैर्मिश्रमुपस्कृतं तत् शुद्धौदनस्याध्यवपूरकं गृह्णाति। इदमेव विशेषयन्नाहतत्थ वि पढमं जं मी-सुवक्खडं दव्वभावतो भिन्नं / दव्वाभिन्न विभिन्नं, तस्सऽसति उवक्खडं ताहे // 278|| तत्रापि मिश्रोपस्कृते गृह्यमाणे प्रथमं यद् द्रव्यतो भावतश्च भिन्नैः प्रलम्बैर्मिश्रमुपस्कृतं तत् स्वग्रामपरग्रामयोहाति, तस्याप्यसत्यलाभे यदोदनं द्रव्यतोऽभिनैर्भावतो भिनैः प्रलम्बैर्विमिश्रमुपस्कृतं तत्तदा शुद्धौदनस्याध्यपूरकं प्रथमं स्वग्रामे तद् गृह्णाति / गतं मिश्रोपस्कृतम्। अथ निर्मिश्रोपस्कृतमाहपणगाइ मासपत्तो, ताहे निम्मिस्सुवक्खडं भिन्नं / निम्मीसउवक्खडियं, गिण्हति ताहे ततियभंगे॥२७६।। येषु सूक्ष्मप्राभृतिकाऽऽदिदोषेषु पञ्चकप्रायश्चित्तं तेष्वादिशब्दादशरात्रिन्दिवाऽऽदिस्थानेषु च यतित्वा यदा भिन्नमासमतिक्रान्तो लघुमासं च प्राप्तो भवति, तदा यत् द्रव्यतो भावतश्च भिन्नं निर्मिश्च प्रलम्बजातमुपस्कृतं तत् शुद्धौदनस्य मिश्रोपस्कृतस्य वाऽध्यवपूरकं स्वग्रामपरग्रामयोर्गृह्णाति, यदा चरमभङ्गे न लभ्यते तदा निर्मिश्रीपस्कृतमेव तृतीयभङ्गे द्रव्यतोऽभिन्नं गृह्णाति / गतं निर्मिश्रोपस्कृतम्। अथ पक्वमासंच व्याख्यानवतिएमेव पउलियापउ-लिते य चरिमततिया भवे भंगा। ओसहिफलमाईसुं, जं चाइण्णं तगंणेयं // 280 // एवमेव पक्वापक्वयोश्वरमतृतीयौ भङ्गौ भवतः, पक्वं नाम यदग्निना सं कृतं यथेङ् गुदीबीजविल्वाऽऽदि, अपक्वं यदग्निना अन्येन बन्धनधूमाऽऽदिना प्रकारेण न पक्वं परं निर्जीवावस्थं, यथा परिपक्वकदलीफलपुष्पाऽऽदि, तत्र निर्मिश्रोपकृतस्यालाभे प्रथम पक्वं चतुर्थभने, ततस्तृतीयभङ्गे अपक्वमपि चतुर्थतृतीयभङ्गयोरेवमेवाध्यवपूरकं गृह्णातिय। अत्र चौषधिफलाऽऽदिषु यच्च पूर्वसाधुभिरवमाऽऽदिकारणं विनाऽप्याचीर्णं तन्नेयं नवनीयं, ग्रहीतव्यमित्यर्थः / यद् वा- तत् ज्ञेयं ज्ञातव्यं, तन्नौषधया धान्यानि, तेष्वाचीण यथा चणका माषा वा, फलेषु आचीर्ण यथा त्रिफलाऽऽदि, आदिशब्दान्मूलकन्दाऽऽदिष्वपि यथा योगमाचीर्णमनाचीपर्णव्यवस्थाऽनुसतव्या। तत्रौषधीषु यदाचीर्ण तव्याचष्टेसगलासगलाऽऽइन्ने, मीसोवक्खडिय नत्थि हाणी उ। जइउं अमिस्सगहणं, चरिमदुए जं अणाइन्नं / / 281|| चणकमाषाऽऽदिषु पूर्वाऽऽचार्यराचीर्णेषु सकलेषु असकलेषु वा मिश्रेषु निर्मिश्रेषु वा उपस्कृतेषु नास्ति पञ्चकपरिहाणिः / यच्च पूर्वाऽऽचायैरनाचीर्णं तत्र पञ्चकपरिहाण्या यतित्वा लघुमासं प्राप्तश्चरमद्वयोः चतुर्थतृतीयभङ्गयो: अमिश्रस्यनिर्मिश्रोपस्कृतस्य ग्रहण कार्य नार्वागिति। आह-यन्निर्जीवंतत्कथमनाचीण्णंम् ? उच्यते - जइ ताव पिहुगमाई, सत्थोवहया वि होतऽणइन्ना। किं पुण असत्थुवहया, पेसी य फला य सरडू य॥२८॥ इह ये व्रीहयः परिपक्वाः सन्तो भ्राष्ट्राऽऽदौ भृज्यन्ते, ततः स्फुटिता अपनीतत्वचः पृथुका इत्युच्यन्ते, आदिग्रहणेनान्यदपि वदेवं निष्पद्यते तत्परिग्रहः / यदि तावत्पृथुकाऽऽदयो अग्निशस्त्रोपहता अप्यनाचीपर्णा भवन्ति किं पुनरशस्त्रोपहताः पेश्यः प्रलम्बानामूयिताः, फलाफलानि तथा प्रम्लानानि म्लानवृन्तादीऽऽनि यानि सरडूनि अबद्धास्थिकफलानि तान्यशस्त्रोपहतानि कथमाचीपर्णानि भविष्यन्तीत्यर्थः ? एतत् सर्वमपि परीत्तविषयमुक्तम् / गतं परीत्तद्वारम् / अथ साधारणद्वारमाहसाधारणे वि एवं, मीसामीसे वि हॉति भंगा उ। पणगाऽऽदी गुरुपत्तो, सव्यविसोही य जय ताहे / / 283|| साधारणमनन्तं, तत्राप्येवं प्रत्येकवत्, मिश्रोपस्कृते- चतुर्थतृतीयभङ्गो भवतः, नवरं यदा तृतीयभङ्ग प्रत्येकप्रलम्बं निर्मिश्रोपस्कृतं न लभ्यते तदा मासलघुकादुपरि यत्रोद्रमाऽऽदौ लघुपञ्चरात्रिन्दिवान्यभ्यधिकान्यापद्यन्ते, ततः स्वग्रामे वा परग्रामे वा गृह्णाति, एवं यदा पञ्चकाऽऽदिहान्या गुरुमास प्राप्तो भवति तदा साधारण निर्मिश्रोपस्कृतं प्रथमं चतुर्भड्ने स्वग्रामपरग्रामयोर्गृह्णाति। यदा तृतीयभड्ने नापि न प्राप्यते, तदा सर्वेषु विशोधिकोटिदोषेषु यतस्व प्रयत्नं कुरु, तत्र आधाकर्मकर्मोद्देशकत्रिक आहारपूर्तिकर्ममिश्रजातान्यद्रिकबादप्राभृतिका अध्यवपूरकचरमद्विकरूपानऽविशोधिकोटिदोषान् मुक्त्वा शेषाः सर्वेऽप्यौद्देशिकाऽऽदय उद्गमदोषा विशोधिकोटयः, तेष्वपि गुरुलाधवाऽऽलोचनतो यद्यदाल्पदोषतरतत्पूर्व पूर्वप्रतिसेवमानास्तावद्यतते यावच्चतुर्लघुस्थानानि, तेष्वपि यदा न लभ्यते तदा चतुर्लघुकादुपरि पञ्चपरिहाण्या यत्तित्वा यदा चतुर्गुरु प्राप्नोति भवति तदा किमाधाकर्म गृह्णातु, उतप्रथमद्वितीयभङ्गाविति? अत्रोच्यतेकम्मे आदेसद्गं, मूलुत्तरे ताहि वि कलि पत्तेगे। दावरकली अणंते, ताहे जयणाएँ जुत्तस्स // 284|| अत्राऽऽधाकर्मणि प्राप्ते आदेशद्विकम् / तद्यथा- आधाकर्मणि चत्वारो गुरवः, प्रत्ये के प्रथम द्वितीययोर्भङ्गयोश्चत्वारो लघवः, एवं च प्रायश्चिऽऽत्तानुलोम्येनाऽऽधाकर्मगुरुकं , व्रतानुलोम्येन
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy