________________ पलंब 716 - अभिधानराजेन्द्रः - भाग 5 पलंब वोडशसु गमेषु प्रायश्चित्तम् / प्ररूपणायामयमादेशः-(चउगुरुगा दिज्ज जा लहुगो ति) अस्य भावना- आचार्यस्याऽऽगतस्य स्थातु न ददाति, आगन्तुको वा प्रेरयति, द्वयोरपि चत्वारो गुरवः, उभयगुरुकाः, आचार्यो वृषभस्य न प्रयच्छति, वृषभो वा बलात्तिष्ठति चतुर्लघवः, तपसा गुरुकाः,आचार्य एवाभिषेकस्य न ददाति, अभिषेको बलात्प्रेरयति मासगुरु, कालेन गुरुः, आचार्यः सामान्यभिक्षोरायातन्य स्थातुं नानुजानीते आगन्तुको वा भिक्षुर्बलादेवावतिष्ठते मासलघु, उभवतो लघुकम्। एवं शेषेष्वपि द्वादशसु गमेषु चतुगुरुकाऽऽदिकं लघुमासान्त तपःकालविशेषितमेवमेव प्रायश्चित्तम् / तदेव संयतानां संयतः सह चारणिकया षोडश विकल्पा उक्ताः। अथ शेषविकल्पप्रदर्शनायाऽऽहएमेव य भयणा वी, सोलसिया एक्कमेकपक्खम्मि। उभयम्मि वि नायव्या, पेलमदेंते च ज पावे // 271 / / एवमेथ एककस्मिन् पक्षे षोडशिका भजना भङ्गरचना कर्तव्या। यस्तदुभयरूपो गणो न भवति किं तु केवल एव संयतपक्षः, संयतीपक्षो वा, स एकैकपक्षोऽभिधीयते। तत्र संयतानां संयतैः सह प्रथमा षोडश भगी। सा च सप्रपञ्चं भाविता / अथ संयतीभिः परिगृहीते क्षेत्रे अपराः संयत्यः समागच्छन्ति,तत्रापि प्रवर्तिनीगणावच्छेदिन्यभिषेकाभिक्षुणीभिः पूर्वस्थिताभिः सह प्रत्येकमागन्तुकप्रवर्तिनीगणावच्छेदिन्यभिषेकाभिक्षुणीरूपाणां चतुण्णा पदानां चारणिकां कुर्वाणैरेवमेव द्वितीया षोडशभनी संयतीभिश्चतुर्विधाभिरागच्छन्तीभिरेवमेव तृतीया षोडशभङ्गी, संयतीनां चतुर्विधानां पूर्व स्थितानां संयतैश्चतुर्विधैरेवाऽऽगच्छद्भिरेवमेव तुरीया पोडशभङ्गी। सर्वसंख्यया जाता भङ्गानां चतुःषष्टिः / एतेन केवलसंयतसंयतीपक्षचारणिकया लब्धः / अथोभयपक्षमधिकृत्याऽऽह (उभवम्मि विनायव्य त्ति) उभयशब्देनोभयगणाधिपतिः परिगृह्यते, तत्राऽप्येवमेव भङ्गरचना ज्ञातव्या / तथाहि- चतुर्विधोभयगणाधिपतिभिः परिगृहीते क्षेत्रे चतुर्विधैरेवाऽऽगन्तुकसंयतैरागच्छद्भिःपूर्वोक्तनीन्यैव षोडश भङ्गाः। तथा- तैरेव परिगृहीते प्रवर्त्तिन्यादिभेदाचतुर्विधाः संयत्यो यदागच्छेयुस्तदाऽपि षोडश भङ्गाः, चतुर्विधेषु तदुभयगणाधिपतिषु पूर्वस्थितेषु चतुर्विधानामेवोभयगणाधिपतीनामागमनेऽप्येवमपि षोडश भङ्गाः / चतुर्विधसंयतेषु पूर्वस्थितेषु चतुर्विधा उभयगणाधिपतय आगच्छेयुः। अत्रापि षोडश भङ्गाः / एवं चतुर्विधसंयतीषु चतुर्विधानामेवोभय - गणाधिपतीनामगमने षोडश भङ्गाः / एवमेताः पक्ष षोडशभड्ग्यः संजाताः, पञ्चभिश्च षोडशभङ्गीभिलब्धा भङ्गानामशीतिः पूर्वोक्ताः, एकैकपक्षविषयया भङ्गकचतुःषष्ट्या मील्यते जातं, चतुश्चत्वारिंशं शतं भङ्गानाम् प्रायश्चित्तं च सर्वत्र प्राग्वद् द्रष्टव्यम्। (पेल्लमदिते य ज पावे त्ति) एतत्पदं सर्वभङ्गानुपाति प्रतिपत्तव्यम्। आपूर्यमाणे क्षेत्रे आगन्तुको यदि बलात्मेर्य तिष्ठति ततो वास्तव्या निर्गच्छन्तोऽवमौदर्यसमुत्थमात्मसंयमविराधनां यत्प्राप्नुवन्ति तन्निष्पन्नं प्रायश्चित्तमागन्तुकानाम्। अथ वास्तव्याः पूर्यमाणे क्षेत्रे आगन्तुकानां स्थातुं न ददति, ततो यदागन्तुका बहिः पर्यटन्तो भक्ताऽऽदिकमलभमाना विराधनां प्राप्नुवन्ति तन्निष्पन्न वास्तव्यानामापद्यते। आह यद्येवं कुर्वतमितत्प्रायश्चित्तकदम्बमुपढोकतेतर्हि सांप्रतं स्यपक्षस्य दूर दूरेणैव स्थातुं युक्तम् / अत्रोच्यतेचउवग्गो विहु अत्थउ, असंथराऽऽगंतुगा य वच्चंतु। वत्थव्वा व असंथर, मोत्तु गिलाणस्स संघाड / / 272|| चतुर्वर्गो नाम वास्तव्याः संयताः,संयत्यश्च; आगन्तुकाः संयताः, संयत्यश्च / एते चत्वारोऽपि वर्गा एकस्मिन् क्षेत्रे यदि संस्तरन्ति तर्हि तिष्ठन्तु, न केनाऽपि परस्परं मत्सरः कर्तव्यः,यदि संस्तरण न भवति तत आगन्तुका व्रजन्तु; अथाऽऽगन्तुकभद्रकं तत् क्षेत्रमागन्तुका वा आदेशिका आखेदज्ञानवन्तः, ततो वास्तव्या आत्मनस्तेषां का असंस्तरणे निर्गच्छन्ति। एवमागन्तुका वास्तव्या वा ये निर्गच्छन्ति तेषां यदि कश्चित् ग्लानो भवेत् ततो ग्लानः संघाटकस्तिष्ठति, तं मुक्त्वा शेषाः सर्वेऽपि गच्छन्ति। एमेव संजईणं, वुड्डीतरुणीण जुंगितकमाई। पायादिविगल तरुणी, य अत्थए वुडिओ पेसे॥२७३॥ एवमेव संयतवत् संयतीनां निर्गमनविधिरभिधातव्यः, परमत्र द्विकभेदः कर्तव्यः / कथमित्याह-वृद्धाना तरुणीनां च मध्ये यदि प्रत्यपायं ततस्तरुण्यो गच्छन्ति, वृद्धा आसते, तथा जुङ्गितानामजुड़ितानां च जुङ्गितास्तिष्ठन्ति, अजुङ्गिका व्रजन्ति / जुङ्गिता द्विविधाः-जातिजुङ्गिताः, शरीरजुङ्गिताश्च / तत्र जातिजुङ्गिता गच्छन्ति, शरीरजुङ्गिताः पादाऽऽदिविकलास्तत्रैवाऽसते, तरुण्योऽपि यदि सप्रत्यपायं मार्गाऽऽदौ ततस्तत्रैवाऽऽसते. वृद्धास्तु प्रेषयत्। एवं तेसि ठियाणं, पत्तेगं वावि अहव मिस्साणं। ओमम्मि असंथरणे,इमा उजयणा उजहिं पगयं / / 274|| एवमनन्तरोक्तप्रकारेण तेषामाचार्याऽऽदीनां तत्र क्षेत्रे प्रत्येकं वा एकतरवगेरूपेण, मिश्राणां वा द्विवर्गचतुर्वर्गरूपतया स्थितानाम् अवमकाले असंस्तरणे इयं यतना यस्यामिदं प्रलम्बसुत्रं प्रकृतम्। तामेवाऽऽहओयणमीसे निम्मी-सुवक्खडे पक्क आमपत्तेगे। साधारण सग्गामे, परगामे भावतो विभए / / 275|| ओदनम 1 मिश्रोपस्कृतम् 2 निर्मिश्रोपस्कृतम् 3 पक्कम 4 आमम 5 प्रत्येकम् 6 साधारणम् / एतानि सप्तापि यथाक्रमं प्रथमं स्वग्रामे ततः परग्रामे ग्रहीतव्यानि, भावतोऽपि यान्यपि भिन्नानि तान्यपि यतनापरिपाटिप्राप्तानि भजेत सेवेत. गृह्णीयादित्यर्थः / इति द्वार-गाथासमासार्थः / अथ प्रतिद्वारं विस्तरार्थमभिधित्सुरोदनद्वारमाहवत्तीसाई जा ए-को घास खवणं वन विय से हाणी। आवासएसु अत्थउ, जा छम्मासे न य पलंबे / / 276 / / ओदनस्य द्वात्रिंशत्कवलाः पुरुषस्य प्रमाण आहारः, यदि ते एकेन कवलेन न्यूनाः द्वात्रिंशत्कवला लभ्यन्ते तैस्तिष्ठतु, यदि तस्याऽऽवश्यकयोगा न परिहीयन्ते, एवमेकैकं कवलं परिहापयता तावद्वक्तव्या यावत् यद्येको ग्रासः कवलः प्राप्यते, ततस्तेनैवास्ता यदि तस्याऽऽवश्यकयोगा न परिहीयन्ते, मा च प्रलम्बानि गृह्णातु / अथैकोऽपि कवलो न प्राप्यते तत एक दिवसं क्षपणमुपवासं कृत्वा, आस्तां द्वितीये दिवसे द्वात्रिंशत्कवलैः पारयतु। यदि तावन्तो न लभ्यन्ते,एकैककवलपरिहाण्या तावद्वक्तव्यं यावत् यद्येकोऽपि कवलो न लब्धस्ततः षष्ठ कृत्वा स