________________ पलंब 718 - अभिधानराजेन्द्रः - भाग 5 पलंब असती व जहिं भिन्ना, अभिन्न अविहीइमा जयणा / / 264 / / (उभय त्ति) उभयः साधुसाध्वीवर्गद्वयरूपो गणोऽस्यास्तीत्युभयगणी, स आचार्योऽवमकाले तोसलिप्रभृतिके प्रचुरप्रलम्बदेशे गत्वा गीतार्थेनाऽऽत्मना वा क्षेत्रद्वयं प्रत्युपेक्ष्य ययोः शुद्धं भक्तं लभ्यते, न प्रलम्बमिश्रितमित्यर्थः। तयोः क्षेत्रयोःपृथक् द्वावपि वर्गौ स्थापयति। यदि क्षेत्रे ईदृशे न स्तस्ततो यत्र शुद्धं भक्तं प्राप्यते तत्र संयतीर्नयति स्थापयति, यत्र पुनःप्रलम्बमिश्रितं तत्राऽऽचार्या आत्मना तिष्ठन्ति, अथ नास्ति सर्वथा निर्मिश्रभक्तक्षेत्रं ततो यत्र प्रलम्बमिश्रितं भक्तं लभ्यते तत्र साध्वीः स्थापयति, स्वयं तु निर्मिश्रप्रलम्बक्षेत्रे तिष्ठन्ति / अथ सर्वेष्वपि क्षेत्रेषु निर्मिश्रप्रलम्बानि प्राप्यन्ते ततः (असइ त्ति) प्रलम्बमिश्रस्याभावे यत्र विधिभिन्नानि प्राप्यन्ते तत्र संयत्यः स्थापनीयाः, स्वयं पुनरभिन्नाविधिभिन्नक्षेत्रे तिष्ठन्ति। अथ सर्वेष्वपि क्षेत्रेष्वभिन्नान्यविधिभिन्नानि वा प्राप्यन्ते तत इयं यतना कर्त्तव्या। तामेवाऽऽहभिन्नाणि देह भित्तू-णि वा वि असति पुरतो सिं भिंदंति। ठाविति तहिं समणी, ता चेव जयंति तेसऽसती // 265|| यत्र क्षेत्रे संयतीः स्थापयितुकामस्तत् क्षेत्र साधवः पूर्वभत्थं भावयन्तियदा गृहस्थैः प्रलम्बान्यानीतानि भवन्ति तदा साधवो भणन्ति - यानि भिन्नानि तान्यस्मभ्य दत्त; अथ न सन्ति भिन्नानि, सन्ति वा परं स्तोकानि, तैश्च संस्तरणं न भवतीति परिभाव्य साधवो भणन्तिअस्मभ्यमेतानि भित्त्वा प्रयच्छत, न कल्पन्ते अस्माकमीदृशानीति / अथ ते गृहस्थाः- यदि रोचतेतत ईशान्येव गृह्णीत इत्युक्या अभिन्नान्येव प्रयच्छन्ति,ततोऽसत्यभावे सति तेषां गृहस्थानां पुरतस्तानि प्रलम्बानि भिन्दन्ति, भित्त्वा च गृह्णन्ति, एवं विधीयमाने गृहस्थानां चेतसि गाढतरं निश्चय उत्पद्यते, यथा-नूनं न कल्पते अमीषामभिन्नानीति, ततस्ते भिन्नान्येव प्रयच्छन्तीत्येव तदा तत् क्षेत्रं भावितं भवति, तदा तत्र श्रमणीः स्थापयन्ति। तेषां संयतानामसत्यभावे व्यापृतेषु वा तेषु क्वापि प्रयोजनान्तरे ता एव संयत्यो या तत्र स्थविरास्ता एवमेव यतन्ते। भिन्नासति वेलाऽति-कमे च गेण्हंति थेरियाऽभिन्ने / दारे भित्तु एंतिव, ठाणाऽसति भिंदती गणिणी।।२६६।। विधिना भिन्नानामसति, यावद्वा गृहस्थैर्भेदयन्ति, आत्मना वा यावत्तत्र | भिन्दन्ति तावद्वेलाऽतिक्रमो भवति, ततो याः स्थविरास्ता अभिन्नानि अविधिभिन्नानि वा, यास्तु तरुणास्ता विधिभिन्नानि गृह्णन्ति, ततः प्रतिनिवृत्ताः स्थविरा अभिन्नाविधिभिन्नान्युपाश्रयद्वारे भित्त्वा विधिभिनानि कृत्या वसतिं यान्ति, प्रविशन्ति इत्यर्थः। अथ बहिः स्थानं नास्ति / ततः स्थानस्यासत्यभावे गणिनी प्रवर्तिनी तस्यास्ताति समय॑न्ते, ततः सा गणिनी तानि भिन्नत्ति, विधिभिन्नानि करोतीत्यर्थः / कृत्वा च तरुणीनां समुद्देष्टु ददाति। आह-किं कारणं तरुणीनां प्रतिग्रहीतुं समुद्देष्टुवा अभिन्नानि अविधिभिन्नानि न दीयन्ते ? उच्यतेकक्खंतरुक्खवेकच्छिया-ऽऽइमाईसु णूमए तरुणी। तउ भिन्न छुभति पडि-ग्गहेसु न य दिजए सयलं / / 267 / / कक्षायाः अन्तरं कक्षान्तरम् "उक्खो त्ति'' परिधानवस्यैकदेशः। आह च निशीथचूर्णिकृत्- "परिधाणवत्थस्स अभिंतरचूलाए उवरि कण्णे नाभिहेट्टा उक्खो भण्णइ।" वैकक्षिकी संयतीनामुपकरणविशेषः ! एतेष्वादिशब्दादन्यत्राऽपि वस्त्रान्तरे तरुणी सा (णूमए त्ति) "छदेणेणुम -नूम-सन्नुम-ढ कौम्बाल-पव्वालाः" / / 8 / 4 / 21 / / इति प्राकृतलक्षणात् समाच्छादयेत्, ततो भिक्षाग्रहणकाले तस्याः प्रतिग्रहेषु भिन्न प्रक्षिप्यते, न च सकलमभिन्नमविधिभिन्नं वा तस्या भोजनकाले दीयते। एवं एसा जयणा, अपरिग्गहेसु होति खेत्तेसु। तिविहेहिं परिगहिए, इमा उजयणा तहिं होइ॥२६८|| एवमेषा अनन्तरोक्ता यतना अपरिगृहीतेषु क्षेत्रेषु कर्त्तव्या भवति त्रिविधैः संयतसंयतीतदुभयैः परिगृहीते इमा वक्ष्यमाणा यतना तत्र क्षेत्रे भवति। इदमेव स्फुटतरमाहपुव्वे गहिए खित्ते, तिविहेण गणेण जइ गणो तिविहो। एज्जा इमयं खेत्तं, ओमे जयणा तहिं काणू ? // 266 / / त्रिविधेन संयतसंयतीतदुभयरूपेण गणेन त्रिविधस्य वा अन्यतरेण पूर्वमेव गृहीते क्षेत्रे यदि त्रिविध एव गणो अवमकाले असंस्तरन् इमकं क्षेत्रामयात् आगच्छेत्ततस्तेषामागतानां स्थातव्ये, वास्तव्याना वा अवग्रहे दातव्ये का नुरिति वितर्के, यतना? अत आहआयरिय वसभ अभिसे-गभिक्खुणो पेल्ललन य देति / गुरुगा दोहि विसिट्ठा, चउगुरुगा दिज जा लहुगो॥२७०।। यत संयतपरिगृहीतं क्षेत्रं तदेषामन्यतरेण परिगृहीतं चेत् / तद्यथाआचार्येण वा वृषभेण वा अभिषेकण वा भिक्षुणा वा, ये आगन्तुकास्तेऽप्येवं चत्वारो द्रष्टव्याः / संयत्योऽपि वास्तव्या आगन्तुकाश्चैवमेव चतुविधाः, नवरमाचार्यस्थाने प्रवर्तिनी वृषभस्थाने गणावच्छेदिनी वक्तव्या। अत्र चाऽऽचार्यः प्रसिद्धः, उपाध्यायो वृषभानु इति कृत्या दृषभ उच्यते, यः पुनरित्वराभिषेकेणाऽऽचार्यपदेऽभिषिक्तः स इहाभिषेकः / अथवागणवच्छेदक इहाभिषेकः। शेषाःसामान्यसाधवो भिक्षवः / एतेषां चेय चारणिका-आचार्य-परिगृहीते क्षेत्रे यदन्य आचार्य आगतो, यदि च स वास्तथ्य आचार्यः क्षेत्रे पूर्यमाणे भक्तपाने चालभ्यमाने आगन्तुकरय स्थातुं नददाति, तदा चत्वारो गुरवः / अथन पूर्यते क्षेत्र, सचागन्तुको बलात्प्रेर्यते तस्यापि चतुर्गुरुकाः। एतच प्रायश्चित्तं तपसा कालेन चद्वाभ्यामपि गुरूस एव वास्तव्य आचार्यो वृषभस्याऽऽगन्तुकस्य न ददाति, वृषभो वा बलात्तिष्ठति, उभयोरपि चत्वारो गुरुकाः, तपसा गुरवः कालेन लघवः, स एव वास्तव्य आचार्य आगन्तुकभिक्षोरेव स्थातुं न प्रयच्छति, स वाभिक्षुर्वास्तव्यमाचार्य बलादवज्ञाय तिष्ठति, द्वयोरपि चत्वारो गुरवः, तपसा कालेन च लघवः / एवमाचार्ये पूर्वस्थिते भणितम् / एवं वृषभाभिषेके भिक्षुभिरपि पूर्वस्थितैः प्रत्येकं चत्वारो गमाः कर्तव्याः, प्रायश्चित्तम येवमेव चतपः कालविशेषितम् / एवमेते सर्वसंख्यया षोडश गमाः। अथ तेष्वे